सूत उवाच-
विश्वास-प्रस्तुतिः
भ्रातृभिः सहिताः सर्वे पाण्डवा धर्मनिश्चयाः
ब्राह्मणेभ्यो नमस्कृत्वागुरुदेवांस्त्वतर्पयन् ॥ १ ॥
मूलम्

वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा
पाण्डवैः सहितैः सर्वैः पूज्यमानः स माधवः ॥ २ ॥

कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः
अभिषिक्तः स्वराज्ये तु धर्मपुत्रो युधिष्ठिरः ॥ ३ ॥

एतस्मिन्नन्तरे चैव मार्कण्डेयो महात्मवान्
ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः ॥ ४ ॥

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तु सः
महादानं ददौ चाथ धर्मपुत्रो युधिष्ठिरः ॥ ५ ॥

यस्त्विदं कल्यमुत्थाय पठते वा शृणोति वा
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ६ ॥

वासुदेव उवाच-
मम वाक्यं तु कर्तव्यं तव स्नेहाद्ब्रवीम्यहम्
नित्यं यज्ञरतो भूत्वा प्रयागे विगतज्वरः ॥ ७ ॥

प्रयागं संस्मरन्नित्यं सहास्माभिर्युधिष्ठिर
स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं तु शाश्वतम् ॥ ८ ॥

प्रयागमनुगच्छेद्वा वसते वापि यो नरः
सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ॥ ९ ॥

प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः ॥ १० ॥

अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते
अकोपनश्च राजेन्द्र सत्यवादी दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ११ ॥

ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम्
न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ॥ १२ ॥

बहूपकरणो यज्ञो नानासम्भारसम्भ्रमः
प्राप्यते विविधैरर्थ्यैः समृद्धैर्वा नरैः क्वचित् ॥ १३ ॥

यो दरिद्रैरपि बुधैः शक्यः प्राप्तुं नरेश्वर
ततो यज्ञफलैः पुण्यैस्तन्निबोध जनेश्वर ॥ १४ ॥

ऋषीणां परमं गुह्यमिदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ १५ ॥

दशकोटिसहस्राणि त्रिंशत्कोट्यस्तथापरे
माघमासे तु गङ्गायां गमिष्यन्ति नरर्षभ ॥ १६ ॥

स्वस्थो भव महाराज भुक्त्वा राज्यमकण्टकम्
पुनर्द्रक्ष्यसि राजेन्द्र यजमानो विशेषतः ॥ १७ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्यं
नाम ऊनपञ्चाशत्तमोऽध्यायः ४९