युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
कथा सर्वात्वियं प्रोक्ताप्रयागस्य महामुने
एवं मे सर्वमाख्याहि यथा च मम तारयेत् ॥ १ ॥
मूलम्

मार्कण्डेय उवाच-
शृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत्
ब्रह्माविष्णुस्तथेशानो देवता प्रभुरव्ययः ॥ २ ॥

ब्रह्मा सृजति भूतानि स्थावरं जङ्गमं च यत्
तान्येतानि परो लोके विष्णुः पालयति प्रजाः ॥ ३ ॥

कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत्
न ददाति च नाध्येति न कदाचिद्विनश्यति ॥ ४ ॥

ईश्वरः सर्वभूतानां यः पश्यति स पश्यति
उत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति ॥ ५ ॥

महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ ६ ॥

रक्षन्ति परमं नित्यं पापकर्मपरायणान्
ये तु चान्ये च तिष्ठन्ति न यान्ति परमां गतिम् ॥ ७ ॥
मूलम्
रक्षन्ति परमं नित्यं पापकर्मपरायणान्
ये तु चान्ये च तिष्ठन्ति न यान्ति परमां गतिम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
युधिष्ठिर उवाच-
अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम्
केन वा कारणेनैव तिष्ठन्ति लोकसम्मताः ॥ ८ ॥
मूलम्
युधिष्ठिर उवाच-
अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम्
केन वा कारणेनैव तिष्ठन्ति लोकसम्मताः ॥ ८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच-
प्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः
कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥ ९ ॥

पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्
तिष्ठन्ति रक्षणार्थाय पापकर्मनिवारणाः ॥ १० ॥

तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः ॥ ११ ॥

सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले
तिष्ठन्ति ध्रियमाणाश्च यावदाभूतसम्प्लवम् ॥ १२ ॥

ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर
पृथिवीस्थानमारभ्य निर्मितं दैवतैस्त्रिभिः ॥ १३ ॥

प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम्
एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर ॥ १४ ॥

स्वराज्यं कुरु राजेन्द्र भ्रातृभिः सहितो भव ॥ १५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये
अष्टचत्वारिंशोऽध्यायः ४८