मार्कण्डेय उवाच-
विश्वास-प्रस्तुतिः
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
नैमिषं पुष्करं चैव गोतीर्थं सिन्धुसागरम् ॥ १ ॥
मूलम्

कुरुक्षेत्रं गया चैव गङ्गासागरमेव च
एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥ २ ॥

दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथापरे
प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ॥ ३ ॥

त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥ ४ ॥

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
गङ्गायमुनया सार्धं संस्थिता लोकभाविनी ॥ ५ ॥

गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्
प्रयागं राजशार्दूल कलां नार्हन्ति षोडशीम् ॥ ६ ॥

तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्
दिव्यं भुव्यन्तरिक्षे च तत्सर्वं जाह्नवि स्मृता ॥ ७ ॥

प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ
भोगवत्यथ या चैव वेदिरेषा प्रजापतेः ॥ ८ ॥

तत्र देवाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर
पूजयन्ति प्रयागं ते ऋषयश्च तपोधनाः ॥ ९ ॥

यजन्ते क्रतुभिर्देवांस्तथा बहुधना नृपाः
ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत ॥ १० ॥

प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापरे ॥ ११ ॥

यत्र गङ्गा महाभागा स देशस्तत्तपोवनम्
सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ १२ ॥

इति सत्यं द्विजातीनां साधूनामात्मजस्य वा
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ॥ १३ ॥

इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम्
इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम् ॥ १४ ॥

महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम्
अधीत्य च द्विजो ध्यायन्निर्मलत्वमवाप्नुयात् ॥ १५ ॥

यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ १६ ॥

प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ १७ ॥

त्वया तु सम्यक्पृष्टेन कथितं तु मया विभो
पितरस्तारिताः सर्वे तारिताश्च पितामहाः ॥ १८ ॥

प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम्
एवं ज्ञानं च योगं च तीर्थं चैव युधिष्ठिर ॥ १९ ॥

बहुक्लेशेन युज्यन्ते ततो यान्ति परां गतिम्
प्रयागस्मरणाल्लोकः स्वर्गलोकं च गच्छति ॥ २० ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये
सप्तचत्वारिंशोऽध्यायः ४७