युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे पुण्यसम्मितम्
तीर्थानां तु सहस्राणि शतानि नियुतानि च ॥ १ ॥
मूलम्

सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् ॥ २ ॥

प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते
सर्वाणि सम्परित्यज्य कथमेकं प्रशंससि ॥ ३ ॥

अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमम्
गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् ॥ ४ ॥

किमर्थमल्पयोगेन बहुधर्मं प्रशंससि
एतं मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ॥ ५ ॥

मार्कण्डेय उवाच-
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेत्
नरस्य श्रद्दधानस्य पापोपहतचेतसः ॥ ६ ॥

अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमङ्गलः
एते पातकिनः सर्वे तेनेदं भाषितं मया ॥ ७ ॥

शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम्
प्रत्यक्षं च परोक्षं च यथान्यत्सम्भविष्यति ॥ ८ ॥

यथैवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम्
शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः ॥ ९ ॥

क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात्
जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः ॥ १० ॥

यथायोगसहस्रेण योगो लभ्येत मानवैः
यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ॥ ११ ॥

तेन दानेन दत्तेन योगो लभ्येत मानवैः
प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ॥ १२ ॥

प्रधानहेतुं वक्ष्यामि श्रद्दधत्सु च भारत
यथा सर्वेषु भूतेषु सर्वत्रैव तु दृश्यते ॥ १३ ॥

ब्रह्म नैवास्ति वै किञ्चिद्यद्वक्तुं त्विदमुच्यते
यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते ॥ १४ ॥

एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः
पूज्यते तीर्थराजस्य सत्यमेतद्युधिष्ठिर ॥ १५ ॥

ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम्
तीर्थराजमनुप्राप्य नैवान्यत्किञ्चिदिच्छति ॥ १६ ॥

को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति
अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर ॥ १७ ॥

यथा पुण्यमपुण्यं वा तथैव कथितं मया
युधिष्ठिर उवाच-
श्रुतं तद्यत्त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः ॥ १८ ॥

कथं योगेन तत्प्राप्तिः स्वर्गलोकस्तु कर्मणा
तदा च लभते भोगान्गां च तत्कर्मणां फलम् ॥ १९ ॥

तानि कर्माणि पृच्छामि पुनर्यैः प्राप्यते महीम्
मार्कण्डेय उवाच-
शृणुराजन्महाबाहो यथोक्तकर्मणा मही ॥ २० ॥

गामग्निं ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः
मातरं पितरं चैव यो निन्दति नराधिप ॥ २१ ॥

नैतेषामूर्ध्वगमनमेवमाह प्रजापतिः
एवं योगस्य सम्प्राप्तिः स्थानं परमदुर्लभम् ॥ २२ ॥

गच्छन्ति नरकं घोरं ये नराः पापकारिणः
हस्त्यश्वं गामनड्वाहं मणिमुक्तादि काञ्चनम् ॥ २३ ॥

परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति
न ते गच्छन्ति वै स्वर्गं दातारो यत्र भोगिनः ॥ २४ ॥

अनेन कर्मणा युक्ताः पच्यन्ते नरकेऽधमाः
एवं योगं च धर्मं च दातारं च युधिष्ठिर ॥ २५ ॥

यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम्
निरुक्तं तु प्रवक्ष्यामि यथायं स्वयमाप्नुयात् ॥ २६ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये
षट्चत्वारिंशोऽध्यायः ४६