युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम्
विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात्
अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् ॥ १ ॥
मूलम्
एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम्
विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात्
अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् ॥ १ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच-
शृणु राजन्प्रयागे तु अनाशकफलं विभो
प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम् ॥ २ ॥
मूलम्
मार्कण्डेय उवाच-
शृणु राजन्प्रयागे तु अनाशकफलं विभो
प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम् ॥ २ ॥
विश्वास-प्रस्तुतिः
अहीनाङ्गो विरोगश्च पञ्चेन्द्रियसमन्वितः
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥ ३ ॥
मूलम्
अहीनाङ्गो विरोगश्च पञ्चेन्द्रियसमन्वितः
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥ ३ ॥
विश्वास-प्रस्तुतिः
कुलानि तारयेद्राजन्दशपूर्वान्दशापरान्
मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ॥ ४ ॥
मूलम्
कुलानि तारयेद्राजन्दशपूर्वान्दशापरान्
मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
युधिष्ठिर उवाच-
महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो
अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात् ॥ ५ ॥
मूलम्
युधिष्ठिर उवाच-
महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो
अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह
एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे ॥ ६ ॥
मूलम्
अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह
एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे ॥ ६ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच-
शृणु राजन्महावीर युदुक्तं पद्मयोनिना
ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम् ॥ ७ ॥
मूलम्
मार्कण्डेय उवाच-
शृणु राजन्महावीर युदुक्तं पद्मयोनिना
ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्
प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे ॥ ८ ॥
मूलम्
पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्
प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे ॥ ८ ॥
विश्वास-प्रस्तुतिः
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश
नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ॥ ९ ॥
मूलम्
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश
नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा तु राजेन्द्र सदा श्रद्धापरो भवेत्
अश्रद्दधानाः पुरुषाः पापोपहतचेतसः
न प्राप्नुवन्ति तत्स्थानं प्रयागं देवनिर्मितम् ॥ १० ॥
मूलम्
एवं ज्ञात्वा तु राजेन्द्र सदा श्रद्धापरो भवेत्
अश्रद्दधानाः पुरुषाः पापोपहतचेतसः
न प्राप्नुवन्ति तत्स्थानं प्रयागं देवनिर्मितम् ॥ १० ॥
विश्वास-प्रस्तुतिः
युधिष्ठिर उवाच-
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः
कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ॥ ११ ॥
मूलम्
युधिष्ठिर उवाच-
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः
कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ॥ ११ ॥
विश्वास-प्रस्तुतिः
विक्रयं सर्वभाण्डानां कार्याकार्यमजानतः
प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने ॥ १२ ॥
मूलम्
विक्रयं सर्वभाण्डानां कार्याकार्यमजानतः
प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने ॥ १२ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच-
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम्
मासं वसंस्तु राजेन्द्र प्रयागे नियतेन्द्रियः ॥ १३ ॥
मूलम्
मार्कण्डेय उवाच-
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम्
मासं वसंस्तु राजेन्द्र प्रयागे नियतेन्द्रियः ॥ १३ ॥
विश्वास-प्रस्तुतिः
मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयम्भुवा
शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः ॥ १४ ॥
मूलम्
मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयम्भुवा
शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः ॥ १४ ॥
विश्वास-प्रस्तुतिः
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम्
विश्रम्भघातकानां तु प्रयागे शृणु तत्फलम् ॥ १५ ॥
मूलम्
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम्
विश्रम्भघातकानां तु प्रयागे शृणु तत्फलम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत्
त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः ॥ १६ ॥
मूलम्
त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत्
त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः ॥ १६ ॥
विश्वास-प्रस्तुतिः
प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत्
सर्वकामसमृद्धस्तु स्वर्गलोके महीयते ॥ १७ ॥
मूलम्
प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत्
सर्वकामसमृद्धस्तु स्वर्गलोके महीयते ॥ १७ ॥
विश्वास-प्रस्तुतिः
स्थानं स लभते नित्यं धनधान्यसमाकुलम्
एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् ॥ १८ ॥
मूलम्
स्थानं स लभते नित्यं धनधान्यसमाकुलम्
एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् ॥ १८ ॥
विश्वास-प्रस्तुतिः
तारिताः पितरस्तेन नरकात्प्रपितामहाः
धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ॥ १९ ॥
मूलम्
तारिताः पितरस्तेन नरकात्प्रपितामहाः
धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
युधिष्ठिर उवाच-
अद्य मे सफलं जन्म अद्य मे सफलं कुलम्
प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै
त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः ॥ २० ॥
मूलम्
युधिष्ठिर उवाच-
अद्य मे सफलं जन्म अद्य मे सफलं कुलम्
प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै
त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः ॥ २० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच-
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम्
कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम् ॥ २१ ॥
मूलम्
मार्कण्डेय उवाच-
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम्
कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
युधिष्ठिर उवाच-
यमुनायां तु किं पुण्यं किं फलं तु महामुने
एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ॥ २२ ॥
मूलम्
युधिष्ठिर उवाच-
यमुनायां तु किं पुण्यं किं फलं तु महामुने
एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच-
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
समागता महाभागा यमुना यत्र निम्नगा ॥ २३ ॥
मूलम्
मार्कण्डेय उवाच-
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
समागता महाभागा यमुना यत्र निम्नगा ॥ २३ ॥
विश्वास-प्रस्तुतिः
येनैव निःसृता गङ्गा तेनैव यमुना गता
योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥ २४ ॥
मूलम्
येनैव निःसृता गङ्गा तेनैव यमुना गता
योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥ २४ ॥
विश्वास-प्रस्तुतिः
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर
कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥ २५ ॥
मूलम्
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर
कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥ २५ ॥
विश्वास-प्रस्तुतिः
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम्
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ २६ ॥
मूलम्
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम्
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
प्रयागे गङ्गा-यमुनयोः सङ्गमः.
अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे
पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम् ॥ २७ ॥
मूलम्
प्रयागे गङ्गा-यमुनयोः सङ्गमः.
अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे
पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
एवं तीर्थसहस्राणि यमुना दक्षिणे तटे ॥ २८ ॥
मूलम्
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
एवं तीर्थसहस्राणि यमुना दक्षिणे तटे ॥ २८ ॥
विश्वास-प्रस्तुतिः
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः
तीर्थं तु विरजं नाम यत्र देवाः सवासवाः ॥ २९ ॥
मूलम्
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः
तीर्थं तु विरजं नाम यत्र देवाः सवासवाः ॥ २९ ॥
विश्वास-प्रस्तुतिः
उपासते स्म सन्ध्यां तु नित्यकालं युधिष्ठिर
देवाः सेवन्ति तत्तीर्थं ये चान्ये विदुषो जनाः ॥ ३० ॥
मूलम्
उपासते स्म सन्ध्यां तु नित्यकालं युधिष्ठिर
देवाः सेवन्ति तत्तीर्थं ये चान्ये विदुषो जनाः ॥ ३० ॥
विश्वास-प्रस्तुतिः
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम्
अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः ॥ ३१ ॥
मूलम्
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम्
अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तेषु स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
गङ्गा च यमुना चैव उभे तुल्यफले स्मृते ॥ ३२ ॥
मूलम्
तेषु स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
गङ्गा च यमुना चैव उभे तुल्यफले स्मृते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
केवलं श्रेष्ठभावेन गङ्गा सर्वत्र पूज्यते
एवं कुरुष्व कौन्तेय स्वर्गतीर्थाभिषेचनम् ॥ ३३ ॥
मूलम्
केवलं श्रेष्ठभावेन गङ्गा सर्वत्र पूज्यते
एवं कुरुष्व कौन्तेय स्वर्गतीर्थाभिषेचनम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
यस्त्विदं कल्य उत्थाय पठते च शृणोति वा ॥ ३४ ॥
मूलम्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
यस्त्विदं कल्य उत्थाय पठते च शृणोति वा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ॥ ३५ ॥
मूलम्
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ॥ ३५ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे यमुनामाहात्म्ये पञ्चचत्वारिंशोऽध्यायः ४५