०४४

मार्कण्डेय उवाच-

विश्वास-प्रस्तुतिः

शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥

मूलम्

शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥

विश्वास-प्रस्तुतिः

मानसं नाम तत्तीर्थं गङ्गायामुत्तरे तटे
त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात् ॥ २ ॥

मूलम्

मानसं नाम तत्तीर्थं गङ्गायामुत्तरे तटे
त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात् ॥ २ ॥

विश्वास-प्रस्तुतिः

गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः
एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥ ३ ॥

मूलम्

गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः
एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

अकामो वा सकामो वा गङ्गायां यो विपद्यते
मृतस्तु भवति स्वर्गे नरकं न च पश्यति ॥ ४ ॥

मूलम्

अकामो वा सकामो वा गङ्गायां यो विपद्यते
मृतस्तु भवति स्वर्गे नरकं न च पश्यति ॥ ४ ॥

विश्वास-प्रस्तुतिः

अप्सरोगणसङ्गीतैः सुप्तोऽसौ प्रतिबुध्यते
हंससारसयुक्तेन विमानेन स गच्छति ॥ ५ ॥

मूलम्

अप्सरोगणसङ्गीतैः सुप्तोऽसौ प्रतिबुध्यते
हंससारसयुक्तेन विमानेन स गच्छति ॥ ५ ॥

विश्वास-प्रस्तुतिः

बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुञ्जते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ६ ॥

मूलम्

बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुञ्जते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सुवर्णमणिमुक्ताढ्ये जायते स महाकुले
षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ॥ ७ ॥

मूलम्

सुवर्णमणिमुक्ताढ्ये जायते स महाकुले
षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ॥ ७ ॥

विश्वास-प्रस्तुतिः

माघेमासि गमिष्यन्ति गङ्गायमुनसङ्गमे
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ ८ ॥

मूलम्

माघेमासि गमिष्यन्ति गङ्गायमुनसङ्गमे
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम्
गङ्गायमुनयोर्मध्ये पञ्चाग्निं यस्तु साधयेत् ॥ ९ ॥

मूलम्

प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम्
गङ्गायमुनयोर्मध्ये पञ्चाग्निं यस्तु साधयेत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः
यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः ॥ १० ॥

मूलम्

अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः
यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः ॥ १० ॥

विश्वास-प्रस्तुतिः

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥ ११ ॥

मूलम्

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः
जलप्रवेशं यः कुर्यात्सङ्गमे लोकविश्रुते ॥ १२ ॥

मूलम्

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः
जलप्रवेशं यः कुर्यात्सङ्गमे लोकविश्रुते ॥ १२ ॥

विश्वास-प्रस्तुतिः

राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः
सोमलोकमवाप्नोति सोमेन सह मोदते ॥ १३ ॥

मूलम्

राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः
सोमलोकमवाप्नोति सोमेन सह मोदते ॥ १३ ॥

विश्वास-प्रस्तुतिः

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
स्वर्गलोकमवाप्नोति ऋषिगन्धर्वसेवितः ॥ १४ ॥

मूलम्

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
स्वर्गलोकमवाप्नोति ऋषिगन्धर्वसेवितः ॥ १४ ॥

विश्वास-प्रस्तुतिः

परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः ॥ १५ ॥

मूलम्

परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः ॥ १५ ॥

विश्वास-प्रस्तुतिः

शतं वर्षसहस्राणि स्वर्गलोके महीयते
परिभ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः ॥ १६ ॥

मूलम्

शतं वर्षसहस्राणि स्वर्गलोके महीयते
परिभ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः ॥ १६ ॥

विश्वास-प्रस्तुतिः

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः
यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति ॥ १७ ॥

मूलम्

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः
यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति ॥ १७ ॥

विश्वास-प्रस्तुतिः

विहङ्गैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
शतं वर्षसहस्राणां सोमलोके महीयते ॥ १८ ॥

मूलम्

विहङ्गैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
शतं वर्षसहस्राणां सोमलोके महीयते ॥ १८ ॥

विश्वास-प्रस्तुतिः

ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः
गुणवान्रूपसम्पन्नो विद्वान्सुप्रियदेहवान् ॥ १९ ॥

मूलम्

ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः
गुणवान्रूपसम्पन्नो विद्वान्सुप्रियदेहवान् ॥ १९ ॥

विश्वास-प्रस्तुतिः

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ॥ २० ॥

मूलम्

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ॥ २० ॥

विश्वास-प्रस्तुतिः

ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम्
एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते ॥ २१ ॥

मूलम्

ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम्
एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते ॥ २१ ॥

विश्वास-प्रस्तुतिः

सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् ॥ २२ ॥

मूलम्

सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् ॥ २२ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः ४४