०४३

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया
तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः ॥ १ ॥

मूलम्

यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया
तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः ॥ १ ॥

विश्वास-प्रस्तुतिः

भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः
प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने ॥ २ ॥

मूलम्

भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः
प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने ॥ २ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच-
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम्
यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम् ॥ ३ ॥

मूलम्

मार्कण्डेय उवाच-
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम्
यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

बलीवर्दसमारूढः शृणु तस्यापि यत्फलम्
वसते नरके घोरे गवां क्रोधे सुदारुणे ॥ ४ ॥

मूलम्

बलीवर्दसमारूढः शृणु तस्यापि यत्फलम्
वसते नरके घोरे गवां क्रोधे सुदारुणे ॥ ४ ॥

विश्वास-प्रस्तुतिः

सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः
यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा ॥ ५ ॥

मूलम्

सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः
यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा ॥ ५ ॥

विश्वास-प्रस्तुतिः

यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत्
ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः ॥ ६ ॥

मूलम्

यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत्
ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः ॥ ६ ॥

विश्वास-प्रस्तुतिः

निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत्
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ७ ॥

मूलम्

निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत्
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ७ ॥

विश्वास-प्रस्तुतिः

आर्षेण तु विधानेन यथाविभवसम्भवम्
न पश्यति यमं घोरं नरकं तेन कर्मणा ॥ ८ ॥

मूलम्

आर्षेण तु विधानेन यथाविभवसम्भवम्
न पश्यति यमं घोरं नरकं तेन कर्मणा ॥ ८ ॥

विश्वास-प्रस्तुतिः

उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम्
पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान् ॥ ९ ॥

मूलम्

उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम्
पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान् ॥ ९ ॥

विश्वास-प्रस्तुतिः

तत्र दानं प्रदातव्यं यथाविभवसम्भवम्
तेन तीर्थफलैनैव वर्द्धते नात्र संशयः ॥ १० ॥

मूलम्

तत्र दानं प्रदातव्यं यथाविभवसम्भवम्
तेन तीर्थफलैनैव वर्द्धते नात्र संशयः ॥ १० ॥

विश्वास-प्रस्तुतिः

स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसम्प्लवम्
वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् ॥ ११ ॥

मूलम्

स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसम्प्लवम्
वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति
तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः ॥ १२ ॥

मूलम्

सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति
तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः ॥ १२ ॥

विश्वास-प्रस्तुतिः

निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते
नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगत् ॥ १३ ॥

मूलम्

निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते
नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगत् ॥ १३ ॥

विश्वास-प्रस्तुतिः

स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः
देवदानवगन्धर्व ऋषयः सिद्धचारणाः ॥ १४ ॥

मूलम्

स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः
देवदानवगन्धर्व ऋषयः सिद्धचारणाः ॥ १४ ॥

विश्वास-प्रस्तुतिः

सदा सेवन्ति तत्तीर्थं गङ्गायमुनसङ्गमे
तत्र गच्छन्ति राजेन्द्र प्रयागे संयुतं च यत् ॥ १५ ॥

मूलम्

सदा सेवन्ति तत्तीर्थं गङ्गायमुनसङ्गमे
तत्र गच्छन्ति राजेन्द्र प्रयागे संयुतं च यत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः
लोकपालाश्च साध्याश्च पितरो लोकसम्मताः ॥ १६ ॥

मूलम्

तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः
लोकपालाश्च साध्याश्च पितरो लोकसम्मताः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सनत्कुमारप्रमुखास्तथैव परमर्षयः
अङ्गिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे ॥ १७ ॥

मूलम्

सनत्कुमारप्रमुखास्तथैव परमर्षयः
अङ्गिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे ॥ १७ ॥

विश्वास-प्रस्तुतिः

तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये
सरितः सागराः शैला नागा विद्याधरास्तथा ॥ १८ ॥

मूलम्

तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये
सरितः सागराः शैला नागा विद्याधरास्तथा ॥ १८ ॥

विश्वास-प्रस्तुतिः

हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ॥ १९ ॥

मूलम्

हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम्
ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत ॥ २० ॥

मूलम्

प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम्
ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत ॥ २० ॥

विश्वास-प्रस्तुतिः

श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि
मृत्तिका लम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ २१ ॥

मूलम्

श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि
मृत्तिका लम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ २१ ॥

विश्वास-प्रस्तुतिः

तत्राभिषेकं यः कुर्य्यात्सङ्गमे संशितव्रतः
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ २२ ॥

मूलम्

तत्राभिषेकं यः कुर्य्यात्सङ्गमे संशितव्रतः
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ २२ ॥

विश्वास-प्रस्तुतिः

न वेदवचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागगमनं प्रति ॥ २३ ॥

मूलम्

न वेदवचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागगमनं प्रति ॥ २३ ॥

विश्वास-प्रस्तुतिः

दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्तनात्कुरुनन्दन ॥ २४ ॥

मूलम्

दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्तनात्कुरुनन्दन ॥ २४ ॥

विश्वास-प्रस्तुतिः

या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः
सा गतिस्त्यजतः प्राणान्गङ्गायमुनसङ्गमे ॥ २५ ॥

मूलम्

या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः
सा गतिस्त्यजतः प्राणान्गङ्गायमुनसङ्गमे ॥ २५ ॥

विश्वास-प्रस्तुतिः

तेन जीवन्ति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर
ये प्रयागं न सम्प्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ २६ ॥

मूलम्

तेन जीवन्ति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर
ये प्रयागं न सम्प्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम्
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ २७ ॥

मूलम्

एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम्
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ २७ ॥

विश्वास-प्रस्तुतिः

कम्बलाश्वतरौ नागौ यमुना दक्षिणे तटे
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ २८ ॥

मूलम्

कम्बलाश्वतरौ नागौ यमुना दक्षिणे तटे
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः
नरस्तारयते सर्वान्दशातीतान्दशापरान् ॥ २९ ॥

मूलम्

तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः
नरस्तारयते सर्वान्दशातीतान्दशापरान् ॥ २९ ॥

विश्वास-प्रस्तुतिः

कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत्
स्वर्गलोकमवाप्नोति यावदाभूतसम्प्लवम् ॥ ३० ॥

मूलम्

कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत्
स्वर्गलोकमवाप्नोति यावदाभूतसम्प्लवम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

पूर्वपार्श्वे तु गङ्गायां त्रिषु लोकेषु भारत
कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम् ॥ ३१ ॥

मूलम्

पूर्वपार्श्वे तु गङ्गायां त्रिषु लोकेषु भारत
कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ३२ ॥

मूलम्

ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३३ ॥

मूलम्

उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ ३४ ॥

मूलम्

अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ ३४ ॥

विश्वास-प्रस्तुतिः

उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे
सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः ॥ ३५ ॥

मूलम्

उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे
सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप ॥ ३६ ॥

मूलम्

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप ॥ ३६ ॥

विश्वास-प्रस्तुतिः

पूज्यते सततं तत्र ऋषिगन्धर्वकिन्नरैः
ततः स्वर्गपरिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ३७ ॥

मूलम्

पूज्यते सततं तत्र ऋषिगन्धर्वकिन्नरैः
ततः स्वर्गपरिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

उर्वशीसदृशीनां तु कन्यानां लभते शतम्
गवां शतसहस्राणां भोक्ता भवति भूमिप ॥ ३८ ॥

मूलम्

उर्वशीसदृशीनां तु कन्यानां लभते शतम्
गवां शतसहस्राणां भोक्ता भवति भूमिप ॥ ३८ ॥

विश्वास-प्रस्तुतिः

काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥ ३९ ॥

मूलम्

काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

कुशासनधरो नित्यं नियतः संयतेन्द्रियः
एककालं तु भुञ्जानो मासं भोगपतिर्भवेत् ॥ ४० ॥

मूलम्

कुशासनधरो नित्यं नियतः संयतेन्द्रियः
एककालं तु भुञ्जानो मासं भोगपतिर्भवेत् ॥ ४० ॥

विश्वास-प्रस्तुतिः

सुवर्णालङ्कृतानां तु नारीणां लभते शतम्
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ॥ ४१ ॥

मूलम्

सुवर्णालङ्कृतानां तु नारीणां लभते शतम्
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दशग्रामसहस्राणां भोक्ता भवति भूमिपः
धनधान्यसमायुक्तो दाता भवति नित्यशः ॥ ४२ ॥

मूलम्

दशग्रामसहस्राणां भोक्ता भवति भूमिपः
धनधान्यसमायुक्तो दाता भवति नित्यशः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः
अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेन्द्रियः ॥ ४३ ॥

मूलम्

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः
अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेन्द्रियः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात्
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् ॥ ४४ ॥

मूलम्

उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात्
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

कोटिवर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ४५ ॥

मूलम्

कोटिवर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान्
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ॥ ४६ ॥

मूलम्

सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान्
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ॥ ४६ ॥

विश्वास-प्रस्तुतिः

दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत्
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ॥ ४७ ॥

मूलम्

दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत्
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ ४८ ॥

मूलम्

धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अहिंसायां तु यो धर्मो गमनादेव तद्भवेत्
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाह्यते ॥ ४९ ॥

मूलम्

अहिंसायां तु यो धर्मो गमनादेव तद्भवेत्
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाह्यते ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कुरुक्षेत्राद्दशगुणा यत्र सिन्ध्वा समागता
यत्र गङ्गा महाभागा बहुतीर्थतपोधना ॥ ५० ॥

मूलम्

कुरुक्षेत्राद्दशगुणा यत्र सिन्ध्वा समागता
यत्र गङ्गा महाभागा बहुतीर्थतपोधना ॥ ५० ॥

विश्वास-प्रस्तुतिः

सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा
क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ॥ ५१ ॥

मूलम्

सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा
क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता
यावदस्थीनि गङ्गायां तिष्ठन्ति तस्य देहिनः ॥ ५२ ॥

मूलम्

दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता
यावदस्थीनि गङ्गायां तिष्ठन्ति तस्य देहिनः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी ॥ ५३ ॥

मूलम्

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी ॥ ५३ ॥

विश्वास-प्रस्तुतिः

मोक्षदा सर्वभूतानां महापातकिनामपि
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥ ५४ ॥

मूलम्

मोक्षदा सर्वभूतानां महापातकिनामपि
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ५५ ॥

मूलम्

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

सर्वेषां चैव भूतानां पापोपहतचेतसाम्
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ५६ ॥

मूलम्

सर्वेषां चैव भूतानां पापोपहतचेतसाम्
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

पवित्राणां पवित्रं या मङ्गलानां च मङ्गलम्
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥ ५७ ॥

मूलम्

पवित्राणां पवित्रं या मङ्गलानां च मङ्गलम्
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥ ५७ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ४३