मार्कण्डेय उवाच-
विश्वास-प्रस्तुतिः
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यं गत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥
मूलम्

आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम्
स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन ॥ २ ॥

गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यजेत्
दीप्तकाञ्चनवर्णाभे विमाने सूर्यवर्चसि ॥ ३ ॥

गन्धर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः
ईप्सिताल्ँलभतेकामान्वदन्ति ऋषिपुङ्गवाः ॥ ४ ॥

सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः
वराङ्गना समाकीर्णैर्मोदते शुभलक्षणैः ॥ ५ ॥

गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते
यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ॥ ६ ॥

तत्र स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः
हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले ॥ ७ ॥

तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ ८ ॥

प्रयागं स्मरमात्रोपि यस्तु प्राणान्परित्यजेत्
स ब्रह्मलोकमाप्नोति वदन्ति ऋषिपुङ्गवाः ॥ ९ ॥

सर्वकामफलावृत्ता मही यत्र हिरण्मयी
ऋषयो मुनयः सिद्धा यत्र लोके प्रगच्छति ॥ १० ॥

स्त्रीसहस्रा कुले रम्ये मन्दाकिन्यास्तटे शुभे
मोदते ऋषिभिः सार्द्धं स्वकृतेनेह कर्मणा ॥ ११ ॥

सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः
ततः स्वर्गात्परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ १२ ॥

ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः
गुणवान्वित्तसम्पन्नो भवतीह न संशयः ॥ १३ ॥

कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः
गङ्गायमुनयोर्मध्ये यस्तु दानं प्रयच्छति ॥ १४ ॥

सुवर्णम्मणिमुक्तां वा यदि धान्यं प्रतिग्रहम्
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ॥ १५ ॥

निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्नुते
एवं तीर्थेन गृह्णीयात् पुण्येष्वायतनेषु च ॥ १६ ॥

निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत्
कपिलां पाटलावर्णां प्रयागे यः प्रयच्छति ॥ १७ ॥

स्वर्णशृङ्गीं रौप्यखुरां चैलकण्ठीं पयस्विनीम्
प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि ॥ १८ ॥

शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम्
सा गौस्तस्मै च दातव्या गङ्गायमुनसङ्गमे ॥ १९ ॥

वासांसि च महार्हाणि रत्नानि विविधानि च
यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम ॥ २० ॥

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
यत्रासौ लभते जन्म सा गौस्तत्राभिजायते ॥ २१ ॥

न च पश्यत्यसौ घोरं नरकं तेन कर्मणा
उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् ॥ २२ ॥

गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम्
पुत्रान्दारान्तथा भृत्यान्गौरेका प्रतितारयेत् ॥ २३ ॥

तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते
दुर्गमे विषमे घोरे महापातकसम्भवे
गौरेव रक्षां कुरुते तस्माद्देया द्विजातये ॥ २४ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्विचत्वारिंशोऽध्यायः ४२