०४१

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

भगवञ्छ्रोतुमिच्छामि पुराकल्पे यथास्थितम्
कथं प्रयागगमनं नराणां तत्र कीदृशम् ॥ १ ॥

मूलम्

मृतानां का गतिस्तत्र स्नातानां चैव किं फलम्
ये वसन्ति प्रयागे तु ब्रूहि तेषां च किं फलम्
एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे ॥ २ ॥

मार्कण्डेय उवाच-
कथयिष्यामि ते वत्स नाथेष्टं यच्च यत्फलम्
पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम् ॥ ३ ॥

आप्रयागात्प्रतिष्ठानाद्धर्मकी वासुकी ह्रदात्
कम्बलाश्वतरौ नागौ नागाश्च बहुमूलिकाः ॥ ४ ॥

एतत्प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम्
अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ५ ॥

तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति सङ्गताः
अन्ये च बहवस्तीर्थाः सर्वपापप्रणाशनाः ॥ ६ ॥

न शक्याः कथितुं राजन्बहुवर्षशतैरपि
सङ्क्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्त्तनम् ॥ ७ ॥

षष्टिर्धनुः सहस्राणि परिरक्षन्ति जाह्नवीम्
यमुनां रक्षति सदा सविता सप्तवाहनः ॥ ८ ॥

प्रयागं तु विशेषेण स्वयं रक्षति वासवः
मण्डलं रक्षति हरिर्देवैः सह सुसम्मतम् ॥ ९ ॥

तं वटं रक्षते नित्यं शूलपाणिर्महेश्वरः
स्थानं रक्षति वै देवः सर्वपापहरं शुभम् ॥ १० ॥

अधर्मेण वृतो लोके नैव गच्छति तत्पदम्
स्वल्पमल्पतरं पापं यदा तस्य नराधिप ॥ ११ ॥

प्रयागस्मरमाणस्य सर्वमायाति सङ्क्षयम्
दर्शनात्तस्य तीर्थस्य नामसङ्कीर्तनादपि ॥ १२ ॥

मृत्तिका लभनाद्वापि नरः पापाद्विमुच्यते
पञ्चकुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी ॥ १३ ॥

प्रयागे तु प्रविष्टस्य पापं क्षरति तत्क्षणात्
योजनानां सहस्रेषु गङ्गां स्मरति यो नरः ॥ १४ ॥

अपि दुष्कृतकर्मासौ लभते परमां गतिम्
कीर्तनान्मुच्यते पापैर्दृष्ट्वा भद्राणि पश्यति ॥ १५ ॥

अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम्
सत्यवादी जितक्रोधो अहिंसां परमास्थितः ॥ १६ ॥

धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः
गङ्गायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् ॥ १७ ॥

मनसा चिन्तितान्कामान्सम्यक्प्राप्नोति पुष्कलान्
ततो गत्त्वा प्रयागं तु सर्वदेवाभिरक्षितम् ॥ १८ ॥

ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयेत्
ईप्सिताल्ँलभते कामान्यत्र तत्राभिजायते ॥ १९ ॥

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
समागता महाभागा यमुना यत्र निम्नगाः ॥ २० ॥

तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः
दुष्प्रापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर ॥ २१ ॥

देवदानवगन्धर्वा ऋषयः सिद्धचारणाः
तत्रोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते ॥ २२ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे एकचत्वारिंशोऽध्यायः ४१