सूत उवाच-
विश्वास-प्रस्तुतिः
एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः
एषामन्यतमा सङ्गान्मुक्तो भवति मानवः ॥ १ ॥
मूलम्

तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम्
पापराशिनिपाताय नान्योपायः कलौयुगे ॥ २ ॥

वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा
एवं योऽनुदिनं ब्रूते स याति परमं महत् ॥ ३ ॥

पापानि तस्य नश्यन्ति तीर्थालापनमात्रतः
तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः ॥ ४ ॥

तीर्थानां सेवनादेव सेवितो भवति प्रभुः
नारायणो जगत्कर्ता नास्ति तीर्थात्परं पदम् ॥ ५ ॥

ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसञ्चयः
विष्णुश्च परमेशानः सेव्य एव सदा नृभिः ॥ ६ ॥

ब्राह्मणानां विशेषेण सेवनं मुनिपुङ्गवाः
सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः ॥ ७ ॥

तस्माद्द्विजपदं साक्षात्सर्वतीर्थमयं शुभम्
भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत् ॥ ८ ॥

अश्वत्थस्य तुलस्याश्च गवां कुर्यात्प्रदक्षिणम्
सर्वतीर्थफलम्प्राप्य विष्णुलोके महीयते ॥ ९ ॥

तस्माद्दुष्कृतकर्माणि नाशयेत्तीर्थसेवनात्
अन्यथा नरकं याति कर्मभोगाद्धि शाम्यति ॥ १० ॥

पापिनां नरके वासः सुकृती स्वर्गमश्नुते
तस्मात्पुण्यं निषेवेत तीर्थं खलु विचक्षणः ॥ ११ ॥

ऋषय ऊचुः-
श्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत
इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम् ॥ १२ ॥

प्रयागं तु पुरा प्रोक्तं सङ्क्षेपात्सूत यत्त्वया
विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति ॥ १३ ॥

साधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः
हन्ताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम् ॥ १४ ॥

मार्कण्डेयेन कथितं यत्पुरा पाण्डुसूनवे
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते ॥ १५ ॥

एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः
भ्रातृशोकेन सन्तप्तः चिन्तयंस्तु पुनः पुनः ॥ १६ ॥

आसीद्दुर्योधनो राजा एकादशचमूपतिः
अस्मान्सन्तप्य बहुशः सर्वे ते निधनं गताः ॥ १७ ॥

वासुदेवं समाश्रित्य पञ्चशेषास्तु पाण्डवाः
कथं द्रोणं च भीष्मं च कर्णं चैव महाबलम् ॥ १८ ॥

दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितम्
राजानो निहताः सर्वे ये चान्ये शूरमानिनः ॥ १९ ॥

विना राज्येन कर्तव्यं किं भोगैर्जीवितेनवा
धिक्कष्टमिति सञ्चिन्त्य राजा विह्वलतां गतः ॥ २० ॥

निश्चेष्टोऽथ निरुत्साहः किं चित्तिष्ठत्यधोमुखः
लब्धसञ्ज्ञो यदा राजा चिन्तयानः पुनः पुनः ॥ २१ ॥

कं चरे विधिना योगं नियमं तीर्थमेव वा
येनाहं शीघ्रमामुच्ये महापातककिल्बिषात् ॥ २२ ॥

यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम्
कथं पृच्छामि वै कृष्णं येनेदं कारितं महत् ॥ २३ ॥

धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम्
व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः ॥ २४ ॥

एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः
रुदन्तः पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः ॥ २५ ॥

ये च तत्र महात्मानः समेताः पाण्डवाश्रिताः
कुन्ती च द्रौपदी चैव ये च तत्र समागताः ॥ २६ ॥

भूमौ निपतिताः सर्वे रोदमानाः समन्ततः
वाराणस्यां तु मार्कण्डस्तेन ज्ञातो युधिष्ठरः ॥ २७ ॥

यथाविक्लवमापन्नो रोदमानः सुदुःखितः
अचिरेणैव कालेन मार्कण्डस्तु महातपाः ॥ २८ ॥

हस्तिनापुर सम्प्राप्तो राजद्वारे स तिष्ठति
द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् ॥ २९ ॥

त्वां द्रष्टुकामो मार्कण्डो द्वारे तिष्ठत्यसौ मुनिः
त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः ॥ ३० ॥

युधिष्ठिर उवाच-
स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने
अद्य मे सफलं जन्म अद्य मे पावितं कुलम् ॥ ३१ ॥

अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने
सिंहासन उपस्थाप्य पादशौचार्चनादिभिः ॥ ३२ ॥

युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम्
ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो ॥ ३३ ॥

आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया
केन वा विक्लवीभूतः कथयस्व ममाग्रतः ॥ ३४ ॥
मूलम्
आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया
केन वा विक्लवीभूतः कथयस्व ममाग्रतः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
युधिष्ठिर उवाच-
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने
एतत्सर्वं विदित्वा तु भगवानिह चागतः ॥ ३५ ॥

मार्कण्डेय उवाच-
शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः
नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ॥ ३६ ॥

किं पुना राजधर्मेण क्षत्रियस्य विशेषतः
तदेवं हृदये कृत्वा तस्मात्पापं न चिन्तयेत् ॥ ३७ ॥

ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम्
पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम्
कथयस्व समासेन मुच्येऽहं येन किल्बिषात् ॥ ३८ ॥

शृणु राजन्महाभाग यन्मां पृच्छसि भारत
एवं साङ्ख्यं च योगं च तीर्थं चैव युधिष्ठिर ॥ ३९ ॥

किं पुनर्ब्राह्मणैः पुण्यैः कीर्तितं वै पुरा विभो
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ॥ ४० ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चत्वारिंशोऽध्यायः ४०