नारद उवाच-
विश्वास-प्रस्तुतिः
अथ सन्ध्यां समासाद्य स विद्यान्तीर्थमुत्तमम्
उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥ १ ॥
मूलम्
अथ सन्ध्यां समासाद्य स विद्यान्तीर्थमुत्तमम्
उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥ १ ॥
विश्वास-प्रस्तुतिः
रामस्य च प्रसादेन तीर्थराजं कृतं पुरा
तल्लौहित्यं समासाद्य विन्द्याद्बहुसुवर्णकम् ॥ २ ॥
मूलम्
रामस्य च प्रसादेन तीर्थराजं कृतं पुरा
तल्लौहित्यं समासाद्य विन्द्याद्बहुसुवर्णकम् ॥ २ ॥
विश्वास-प्रस्तुतिः
करतोयां समासाद्य त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥ ३ ॥
मूलम्
करतोयां समासाद्य त्रिरात्रोपोषितो नरः
अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥ ३ ॥
विश्वास-प्रस्तुतिः
गङ्गायास्त्वथ राजेन्द्र सागरस्य च सङ्गमे
अश्वमेधं दशगुणं प्रवदन्ति मनीषणः ॥ ४ ॥
मूलम्
गङ्गायास्त्वथ राजेन्द्र सागरस्य च सङ्गमे
अश्वमेधं दशगुणं प्रवदन्ति मनीषणः ॥ ४ ॥
विश्वास-प्रस्तुतिः
गङ्गायास्तु परं द्वीपं प्राप्य यः स्नाति भारत
त्रिरात्रोपोषितो राजन्सर्वकाममवाप्नुयात् ॥ ५ ॥
मूलम्
गङ्गायास्तु परं द्वीपं प्राप्य यः स्नाति भारत
त्रिरात्रोपोषितो राजन्सर्वकाममवाप्नुयात् ॥ ५ ॥
विश्वास-प्रस्तुतिः
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम्
विरजं तीर्थमासाद्य विराजति यथा शशी ॥ ६ ॥
मूलम्
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम्
विरजं तीर्थमासाद्य विराजति यथा शशी ॥ ६ ॥
विश्वास-प्रस्तुतिः
प्रभावे च कुलं पूत्वा सर्वपापं व्यपोहति
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ॥ ७ ॥
मूलम्
प्रभावे च कुलं पूत्वा सर्वपापं व्यपोहति
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ॥ ७ ॥
विश्वास-प्रस्तुतिः
शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्छुचिः
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ ८ ॥
मूलम्
शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्छुचिः
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
शोणस्य नर्मदायाश्च प्रभवे कुरुपुङ्गव
वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत् ॥ ९ ॥
मूलम्
शोणस्य नर्मदायाश्च प्रभवे कुरुपुङ्गव
वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
ऋषभं तीर्थमासाद्य कोशलायां नराधिप
वाजिमेधमवाप्नोति त्रिरात्रोपोषितो नरः ॥ १० ॥
मूलम्
ऋषभं तीर्थमासाद्य कोशलायां नराधिप
वाजिमेधमवाप्नोति त्रिरात्रोपोषितो नरः ॥ १० ॥
विश्वास-प्रस्तुतिः
कोशलायां समासाद्य कालतीर्थमुपस्पृशेत्
वृषभैकादशगुणं लभते नात्र संशयः ॥ ११ ॥
मूलम्
कोशलायां समासाद्य कालतीर्थमुपस्पृशेत्
वृषभैकादशगुणं लभते नात्र संशयः ॥ ११ ॥
विश्वास-प्रस्तुतिः
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ १२ ॥
मूलम्
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
ततो बदारिकातीर्थे स्नात्वा प्रयतमानसः
दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति ॥ १३ ॥
मूलम्
ततो बदारिकातीर्थे स्नात्वा प्रयतमानसः
दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति ॥ १३ ॥
विश्वास-प्रस्तुतिः
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ १४ ॥
मूलम्
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
मतङ्गस्य तु केदारं तत्रैव भरतर्षभ
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ १५ ॥
मूलम्
मतङ्गस्य तु केदारं तत्रैव भरतर्षभ
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ १६ ॥
मूलम्
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ १६ ॥
विश्वास-प्रस्तुतिः
श्रीपर्वते महादेवो देव्या सह महाद्युतिः
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ॥ १७ ॥
मूलम्
श्रीपर्वते महादेवो देव्या सह महाद्युतिः
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ १८ ॥
मूलम्
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ १८ ॥
विश्वास-प्रस्तुतिः
ऋषभं पर्वतं गत्वा भाण्डेषु सुरपूजितम्
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ १९ ॥
मूलम्
ऋषभं पर्वतं गत्वा भाण्डेषु सुरपूजितम्
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ १९ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेत कावेरीं वृतामृप्सरसां गणैः
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ २० ॥
मूलम्
ततो गच्छेत कावेरीं वृतामृप्सरसां गणैः
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत्
तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ २१ ॥
मूलम्
तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत्
तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ २१ ॥
विश्वास-प्रस्तुतिः
अथ गोकमर्णमासाद्य त्रिषुलोकेषु विश्रुतम्
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ २२ ॥
मूलम्
अथ गोकमर्णमासाद्य त्रिषुलोकेषु विश्रुतम्
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः
भूतयक्षाः पिशाचाश्च किन्नराः समहोरगाः ॥ २३ ॥
मूलम्
यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः
भूतयक्षाः पिशाचाश्च किन्नराः समहोरगाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा
सरितः सागराः शैला उपासन्ते उमापतिम् ॥ २४ ॥
मूलम्
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा
सरितः सागराः शैला उपासन्ते उमापतिम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः
दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ॥ २५ ॥
मूलम्
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः
दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ॥ २५ ॥
विश्वास-प्रस्तुतिः
उपोष्य द्वादशरात्रं कृतार्थो जायते नरः
तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् ॥ २६ ॥
मूलम्
उपोष्य द्वादशरात्रं कृतार्थो जायते नरः
तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ॥ २७ ॥
मूलम्
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ॥ २७ ॥
विश्वास-प्रस्तुतिः
गायत्रीं पठते यस्तु योनिसङ्करजो द्विजः
गाथा वा गीतिका वाणी तस्य सम्पद्यते नृप ॥ २८ ॥
मूलम्
गायत्रीं पठते यस्तु योनिसङ्करजो द्विजः
गाथा वा गीतिका वाणी तस्य सम्पद्यते नृप ॥ २८ ॥
विश्वास-प्रस्तुतिः
अब्राह्मणस्य पठतः सावित्री तूपनश्यति
संवर्तस्य तु विप्रर्षे वापीमासाद्य दुर्ल्लभाम् ॥ २९ ॥
मूलम्
अब्राह्मणस्य पठतः सावित्री तूपनश्यति
संवर्तस्य तु विप्रर्षे वापीमासाद्य दुर्ल्लभाम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
रूपस्य भागी भवति सुभगश्चाभिजायते
ततो वेणां समासाद्य तर्पयेत्पितृदेवताः ॥ ३० ॥
मूलम्
रूपस्य भागी भवति सुभगश्चाभिजायते
ततो वेणां समासाद्य तर्पयेत्पितृदेवताः ॥ ३० ॥
विश्वास-प्रस्तुतिः
मयूरहंससंयुक्तं विमानं लभते नरः
ततो गोदावरीं प्राप्य नित्यसिद्धनिषेविताम् ॥ ३१ ॥
मूलम्
मयूरहंससंयुक्तं विमानं लभते नरः
ततो गोदावरीं प्राप्य नित्यसिद्धनिषेविताम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
गवामयमवाप्नोति वायुलोकं च गच्छति
वेणायाः सङ्गमे स्नात्वा वाजपेयफलं लभेत् ॥ ३२ ॥
मूलम्
गवामयमवाप्नोति वायुलोकं च गच्छति
वेणायाः सङ्गमे स्नात्वा वाजपेयफलं लभेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वरदासङ्गमं स्नात्वा गोसहस्रफलं लभेत्
ब्रह्मस्थूणां समासाद्य त्रिरात्रोपोषितो नरः ॥ ३३ ॥
मूलम्
वरदासङ्गमं स्नात्वा गोसहस्रफलं लभेत्
ब्रह्मस्थूणां समासाद्य त्रिरात्रोपोषितो नरः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति
कुब्जावनं समासाद्य ब्रह्मचारी समाहितः ॥ ३४ ॥
मूलम्
गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति
कुब्जावनं समासाद्य ब्रह्मचारी समाहितः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत्
ततो देवह्रदे स्नात्वा कृष्णवेणा जलोद्भवे ॥ ३५ ॥
मूलम्
त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत्
ततो देवह्रदे स्नात्वा कृष्णवेणा जलोद्भवे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ज्योतिर्मात्र ह्रदे चैव तथा कन्याश्रमे नृप
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ॥ ३६ ॥
मूलम्
ज्योतिर्मात्र ह्रदे चैव तथा कन्याश्रमे नृप
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अग्निष्टोमशतं विन्द्याद्गमनादेव तत्र तु
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ ३७ ॥
मूलम्
अग्निष्टोमशतं विन्द्याद्गमनादेव तत्र तु
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
जातिमात्र ह्रदे स्नात्वा भवेज्जातिस्मरो नरः
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः ॥ ३८ ॥
मूलम्
जातिमात्र ह्रदे स्नात्वा भवेज्जातिस्मरो नरः
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पितृदेवार्चनरतो गोसहस्रफलं लभेत्
दण्डकारण्यमासाद्य महाराज उपस्पृशेत् ॥ ३९ ॥
मूलम्
पितृदेवार्चनरतो गोसहस्रफलं लभेत्
दण्डकारण्यमासाद्य महाराज उपस्पृशेत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः
न दुर्गतिमवाप्नोति पुनाति स्वकुलं नरः ॥ ४० ॥
मूलम्
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः
न दुर्गतिमवाप्नोति पुनाति स्वकुलं नरः ॥ ४० ॥
विश्वास-प्रस्तुतिः
ततः सूर्यारकं गच्छेज्जमदग्निनिषेवितम्
रामतीर्थं नरः स्नात्वा विन्द्याद्बहुसुवर्णकम् ॥ ४१ ॥
मूलम्
ततः सूर्यारकं गच्छेज्जमदग्निनिषेवितम्
रामतीर्थं नरः स्नात्वा विन्द्याद्बहुसुवर्णकम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सप्तगोदावरीं स्नात्वा नियतो नियताशनः
महापुण्यमवाप्नोति देवलोकं च गच्छति ॥ ४२ ॥
मूलम्
सप्तगोदावरीं स्नात्वा नियतो नियताशनः
महापुण्यमवाप्नोति देवलोकं च गच्छति ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ततो देवपथं गच्छेन्नियतो नियताशनः
देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ॥ ४३ ॥
मूलम्
ततो देवपथं गच्छेन्नियतो नियताशनः
देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः
वेदानध्यापयत्तत्र मुनीन्सारस्वतः पुरा ॥ ४४ ॥
मूलम्
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः
वेदानध्यापयत्तत्र मुनीन्सारस्वतः पुरा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तत्र वेदान्प्रणष्टांस्तु मुनेराङ्गिरसः सुतः
उपविष्टो महर्षीणामुत्तरीयेषु भारत ॥ ४५ ॥
मूलम्
तत्र वेदान्प्रणष्टांस्तु मुनेराङ्गिरसः सुतः
उपविष्टो महर्षीणामुत्तरीयेषु भारत ॥ ४५ ॥
विश्वास-प्रस्तुतिः
ॐकारेण यथान्यायंसम्यगुच्चारितेन ह
येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम् ॥ ४६ ॥
मूलम्
ॐकारेण यथान्यायंसम्यगुच्चारितेन ह
येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ऋषयस्तत्र देवाश्च वरुणोऽग्निप्रजापतिः
हरिर्नारायणो देवो महादेवस्तथैव च ॥ ४७ ॥
मूलम्
ऋषयस्तत्र देवाश्च वरुणोऽग्निप्रजापतिः
हरिर्नारायणो देवो महादेवस्तथैव च ॥ ४७ ॥
विश्वास-प्रस्तुतिः
पितामहश्च भगवान्देवैस्सह महाद्युतिः
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ ४८ ॥
मूलम्
पितामहश्च भगवान्देवैस्सह महाद्युतिः
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
ततः स चक्रे भगवानृषीणां विधिवत्तदा
सर्वेषां पुनराधानं देवदृष्टेन कर्मणा ॥ ४९ ॥
मूलम्
ततः स चक्रे भगवानृषीणां विधिवत्तदा
सर्वेषां पुनराधानं देवदृष्टेन कर्मणा ॥ ४९ ॥
विश्वास-प्रस्तुतिः
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि
देवास्त्रिभुवनं याता ऋषयश्च यथासुखम् ॥ ५० ॥
मूलम्
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि
देवास्त्रिभुवनं याता ऋषयश्च यथासुखम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम
पापं विनश्यते सद्यः स्त्रिया वै पुरुषस्य वा ॥ ५१ ॥
मूलम्
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम
पापं विनश्यते सद्यः स्त्रिया वै पुरुषस्य वा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तत्र मासं वसेद्धीरो नियतो नियताशनः
ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः ॥ ५२ ॥
मूलम्
तत्र मासं वसेद्धीरो नियतो नियताशनः
ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
मेधावनं समासाद्य पितृदेवांश्च तर्पयेत्
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥ ५३ ॥
मूलम्
मेधावनं समासाद्य पितृदेवांश्च तर्पयेत्
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तत्र कालञ्जरं गत्वा गोसहस्रफलं लभेत्
आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप ॥ ५४ ॥
मूलम्
तत्र कालञ्जरं गत्वा गोसहस्रफलं लभेत्
आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप ॥ ५४ ॥
विश्वास-प्रस्तुतिः
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः
ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते ॥ ५५ ॥
मूलम्
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः
ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
मन्दाकिनीं समासाद्य नदीं पापविमोचनीम्
अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ॥ ५६ ॥
मूलम्
मन्दाकिनीं समासाद्य नदीं पापविमोचनीम्
अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्
ततो गच्छेत राजेन्द्र गुहस्थानमनुत्तमम् ॥ ५७ ॥
मूलम्
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्
ततो गच्छेत राजेन्द्र गुहस्थानमनुत्तमम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
यत्र देवो महासेनो नित्यं सन्निहितो नृप
पुमांस्तत्र नरःश्रेष्ठ गमनादेव सिध्यति ॥ ५८ ॥
मूलम्
यत्र देवो महासेनो नित्यं सन्निहितो नृप
पुमांस्तत्र नरःश्रेष्ठ गमनादेव सिध्यति ॥ ५८ ॥
विश्वास-प्रस्तुतिः
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
प्रदक्षिणमुपावृत्य यशःस्थानं व्रजेन्नरः ॥ ५९ ॥
मूलम्
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
प्रदक्षिणमुपावृत्य यशःस्थानं व्रजेन्नरः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
अभिगम्य महादेवं विराजति यथा शशी
तत्र कूपो महाराज विश्रुतो भरतर्षभ ॥ ६० ॥
मूलम्
अभिगम्य महादेवं विराजति यथा शशी
तत्र कूपो महाराज विश्रुतो भरतर्षभ ॥ ६० ॥
विश्वास-प्रस्तुतिः
समुद्रा यत्र चत्वारो निवसन्ति युधिष्ठिर
ततोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् ॥ ६१ ॥
मूलम्
समुद्रा यत्र चत्वारो निवसन्ति युधिष्ठिर
ततोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
नियतात्मा नरः पूतो गच्छेत परमां गतिम्
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् ॥ ६२ ॥
मूलम्
नियतात्मा नरः पूतो गच्छेत परमां गतिम्
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
यत्र तीर्णो महाप्राज्ञो रामो दाशरथिः पुरा
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ ६३ ॥
मूलम्
यत्र तीर्णो महाप्राज्ञो रामो दाशरथिः पुरा
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
विधूतपाप्मा भवति वाजपेयं च विन्दति
ततो मुञ्जवटं गछेत्स्थानं देवस्य धीमतः ॥ ६४ ॥
मूलम्
विधूतपाप्मा भवति वाजपेयं च विन्दति
ततो मुञ्जवटं गछेत्स्थानं देवस्य धीमतः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
अभिगम्य महादेवमभ्यर्च्य च नराधिप
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ ६५ ॥
मूलम्
अभिगम्य महादेवमभ्यर्च्य च नराधिप
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ ६६ ॥
मूलम्
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा
सनत्कुमारप्रमुखास्तथैव च महर्षयः ॥ ६७ ॥
मूलम्
लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा
सनत्कुमारप्रमुखास्तथैव च महर्षयः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा ॥ ६८ ॥
मूलम्
तथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा ॥ ६८ ॥
विश्वास-प्रस्तुतिः
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
तत्र त्रीण्यपि कुण्डानि तयोर्मध्येन जाह्नवी ॥ ६९ ॥
मूलम्
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
तत्र त्रीण्यपि कुण्डानि तयोर्मध्येन जाह्नवी ॥ ६९ ॥
विश्वास-प्रस्तुतिः
प्रयागात्समतिक्रान्ता सर्वतीर्थपुरस्कृता
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥ ७० ॥
मूलम्
प्रयागात्समतिक्रान्ता सर्वतीर्थपुरस्कृता
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥ ७० ॥
विश्वास-प्रस्तुतिः
यमुनागङ्गया सार्द्धं सङ्गता लोकभाविनी
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ॥ ७१ ॥
मूलम्
यमुनागङ्गया सार्द्धं सङ्गता लोकभाविनी
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः
प्रयागं सुप्रतिष्ठानं कम्बलाश्वतरावुभौ ॥ ७२ ॥
मूलम्
प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः
प्रयागं सुप्रतिष्ठानं कम्बलाश्वतरावुभौ ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः
तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो युधिष्ठिर ॥ ७३ ॥
मूलम्
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः
तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो युधिष्ठिर ॥ ७३ ॥
विश्वास-प्रस्तुतिः
प्रजापतिमुपासन्त ऋषयश्च महानघाः
यजन्ते क्रतुभिर्देवांस्तथा चक्रधरा नृप ॥ ७४ ॥
मूलम्
प्रजापतिमुपासन्त ऋषयश्च महानघाः
यजन्ते क्रतुभिर्देवांस्तथा चक्रधरा नृप ॥ ७४ ॥
विश्वास-प्रस्तुतिः
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत
प्रयागं सर्वतीर्थेभ्यः प्रभावेणाधिकं प्रभो ॥ ७५ ॥
मूलम्
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत
प्रयागं सर्वतीर्थेभ्यः प्रभावेणाधिकं प्रभो ॥ ७५ ॥
विश्वास-प्रस्तुतिः
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि
मूर्धका नमनाद्वापि सर्वपापैः प्रमुच्यते ॥ ७६ ॥
मूलम्
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि
मूर्धका नमनाद्वापि सर्वपापैः प्रमुच्यते ॥ ७६ ॥
विश्वास-प्रस्तुतिः
तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः
पुण्यं सुमहदाप्नोति राजसूयाश्वमेधयोः ॥ ७७ ॥
मूलम्
तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः
पुण्यं सुमहदाप्नोति राजसूयाश्वमेधयोः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
एषा यजनभूमिर्हि देवानामपि तत्कथा
दत्तं तत्र स्वल्पमपि महद्भवति भारत ॥ ७८ ॥
मूलम्
एषा यजनभूमिर्हि देवानामपि तत्कथा
दत्तं तत्र स्वल्पमपि महद्भवति भारत ॥ ७८ ॥
विश्वास-प्रस्तुतिः
न देववचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ ७९ ॥
मूलम्
न देववचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ ७९ ॥
विश्वास-प्रस्तुतिः
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्त्तितं कुरुनन्दन ॥ ८० ॥
मूलम्
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्त्तितं कुरुनन्दन ॥ ८० ॥
विश्वास-प्रस्तुतिः
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत्
स्नातएवतदाप्नोतिगङ्गायामुनसङ्गमे ॥ ८१ ॥
मूलम्
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत्
स्नातएवतदाप्नोतिगङ्गायामुनसङ्गमे ॥ ८१ ॥
विश्वास-प्रस्तुतिः
ततो भोगवती नाम वासुकेस्तीर्थमुत्तमम्
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ॥ ८२ ॥
मूलम्
ततो भोगवती नाम वासुकेस्तीर्थमुत्तमम्
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ ८३ ॥
मूलम्
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ ८३ ॥
विश्वास-प्रस्तुतिः
कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता
विशेषो वै कनखले प्रयागं परमं महत् ॥ ८४ ॥
मूलम्
कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता
विशेषो वै कनखले प्रयागं परमं महत् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
यद्यकार्यशतं कृत्वा कृतं गङ्गावसेवनम्
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् ॥ ८५ ॥
मूलम्
यद्यकार्यशतं कृत्वा कृतं गङ्गावसेवनम्
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
सर्वं दहति गङ्गापस्तूलराशिमिवानलः
सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ॥ ८६ ॥
मूलम्
सर्वं दहति गङ्गापस्तूलराशिमिवानलः
सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
द्वापरे तु कुरुक्षेत्रं गङ्गा कलियुगे स्मृता
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ॥ ८७ ॥
मूलम्
द्वापरे तु कुरुक्षेत्रं गङ्गा कलियुगे स्मृता
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ॥ ८७ ॥
विश्वास-प्रस्तुतिः
मलये त्वग्निमारोहेद्भृगुतुङ्गे त्वनाशनम्
पुष्करे तु कुरुक्षेत्रे गङ्गापो मध्यगेषु च ॥ ८८ ॥
मूलम्
मलये त्वग्निमारोहेद्भृगुतुङ्गे त्वनाशनम्
पुष्करे तु कुरुक्षेत्रे गङ्गापो मध्यगेषु च ॥ ८८ ॥
विश्वास-प्रस्तुतिः
सद्यस्तारयते जन्तुः सप्तसप्तावरांस्तथा
पुनाति कीर्त्तिता पापं दृष्ट्वा पुण्यं प्रयच्छति ॥ ८९ ॥
मूलम्
सद्यस्तारयते जन्तुः सप्तसप्तावरांस्तथा
पुनाति कीर्त्तिता पापं दृष्ट्वा पुण्यं प्रयच्छति ॥ ८९ ॥
विश्वास-प्रस्तुतिः
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम्
यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् ॥ ९० ॥
मूलम्
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम्
यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
तावत्स पुरुषो राजन्स्वर्गलोके महीयते
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ॥ ९१ ॥
मूलम्
तावत्स पुरुषो राजन्स्वर्गलोके महीयते
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ॥ ९१ ॥
विश्वास-प्रस्तुतिः
उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक्
न गङ्गा सदृशं तीर्थं न देवः केशवात्परः ॥ ९२ ॥
मूलम्
उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक्
न गङ्गा सदृशं तीर्थं न देवः केशवात्परः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः
यत्र गङ्गा महाराज स देशस्तत्र योजनम् ॥ ९३ ॥
मूलम्
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः
यत्र गङ्गा महाराज स देशस्तत्र योजनम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमाश्रितम्
इदं सत्यं द्विजातीनां साधूनां मानसेषु च ॥ ९४ ॥
मूलम्
सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमाश्रितम्
इदं सत्यं द्विजातीनां साधूनां मानसेषु च ॥ ९४ ॥
विश्वास-प्रस्तुतिः
मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च
इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् ॥ ९५ ॥
मूलम्
मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च
इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम्
महीशीर्षमिदं गुह्यं सर्वपापप्रमोचनम् ॥ ९६ ॥
मूलम्
इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम्
महीशीर्षमिदं गुह्यं सर्वपापप्रमोचनम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात्
श्रीमत्स्वर्ग्यं महापुण्यं सपत्नशमनं शिवम् ॥ ९७ ॥
मूलम्
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात्
श्रीमत्स्वर्ग्यं महापुण्यं सपत्नशमनं शिवम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्त्तनम्
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ॥ ९८ ॥
मूलम्
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्त्तनम्
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
महीं विजयते राजा वैश्यो धनमवाप्नुयात्
शूद्रो यातीप्सितान्कामान्ब्राह्मणः पारगः पठन् ॥ ९९ ॥
मूलम्
महीं विजयते राजा वैश्यो धनमवाप्नुयात्
शूद्रो यातीप्सितान्कामान्ब्राह्मणः पारगः पठन् ॥ ९९ ॥
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचि
जातिस्मरत्वमाप्नोति नाकपृष्ठे च मोदते १००
गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि
मनसाप्यभिगच्छेत सर्वतीर्थमनीषया १०१
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः
ऋषिभिर्देवकल्पैश्च कृतानि सुकृतैषिभिः १०२
एवं त्वमपि कौरव्य विधिनानेन सुव्रत
व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्द्धते १०३
भावितैः करणैः पूर्वमास्तिक्याछ्रुतिदर्शनात्
प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः १०४
नाकृतो नाकृतात्मा च नाशुचिर्न च तस्करः
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः १०५
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना
पितरस्तर्पितास्तात सर्वे च प्रपितामहाः
पितामहपुरोगाश्च देवाः सर्षिगणास्तथा १०६
वसिष्ठ उवाच-
त्वं च धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः
दिलीपकीर्तिं महतीं प्राप्स्यसे भुवि शाश्वतीम् १०७
नारद उवाच-
एवमुक्त्वाभ्यनुज्ञाप्य वसिष्ठो भगवानृषिः
प्रीतः प्रीतेनमनसा तत्रैवान्तरधीयत १०८
दिलीपः कुरुशार्दूल शास्त्रतत्त्वार्थदर्शनात्
वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे १०९
एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ११०
अनेन विधिना यस्तु पृथिवीं पर्यटिष्यति
अश्वमेधशतं साग्रं फलं प्रेत्यैष भोक्ष्यते १११
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्
दिलीपः पार्थ नृपतिर्यथापूर्वमवाप्तवान् ११२
नेता च त्वमृषीन्यस्मात्तस्मात्तेष्टगुणं फलम्
रक्षोगणविकीर्णानि तीर्थान्येतानि भारत ११३
न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन
इदं देवर्षिचरितं सर्वतीर्थानुसंश्रितम् ११४
यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः ११५
आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः ११६
भरद्वाजस्य शिष्यश्च मुनिरुद्दालकस्तथा
शौनकः सह पुत्रेण व्यासश्च तपतां वरः ११७
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः
एते ऋषिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः ११८
एभिः सह महाभाग तीर्थान्येतान्यनुव्रज
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ११९
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे १२०
यथा भगीरथो राजा यथा रामश्च विश्रुतः
यथा वै वृत्रहा सर्वान्सपत्नानदहत् पुरा १२१
त्रैलोक्यं पालयामास देवराट्विगतज्वरः
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि १२२
स्वधर्मेणार्जितामुर्वीं प्राप्य राजीवलोचन
ख्यातिं यास्यसि वीर्येण कार्त्तवीर्यार्जुनो यथा १२३
सूत उवाच-
एवमाभाष्य राजानं नारदो भगवानृषिः
अनुज्ञाप्य महाराजं तत्रैवान्तरधीयत १२४
युधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः
जगामाखिलतीर्थानि सादरः पृथिवीपतिः १२५
मयोक्तामृषयः सर्वे तीर्थयात्राश्रयां कथाम्
यः पठेच्छृणुयाद्वापि स मुक्तः सर्वपातकैः १२६
मयोक्तमखिलं तत्त्वं किं भूयः श्रोतुमिच्छथ
ऋषीणां पुण्यकीर्तीनां नावक्तव्यं ममास्ति वै १२७
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे नानाविधतीर्थकथनं
नाम नवत्रिंशोऽध्यायः ३९