नारद उवाच-
विश्वास-प्रस्तुतिः
वाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो
कथितानि समासेन तीर्थान्यन्यानि संशृणु ॥ १ ॥
मूलम्
वाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो
कथितानि समासेन तीर्थान्यन्यानि संशृणु ॥ १ ॥
विश्वास-प्रस्तुतिः
ततो गयां समासाद्य ब्रह्मचारी समाहितः
अश्वमेधमवाप्नोति गमनादेव भारत ॥ २ ॥
मूलम्
ततो गयां समासाद्य ब्रह्मचारी समाहितः
अश्वमेधमवाप्नोति गमनादेव भारत ॥ २ ॥
विश्वास-प्रस्तुतिः
यत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥ ३ ॥
मूलम्
यत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥ ३ ॥
विश्वास-प्रस्तुतिः
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ ४ ॥
मूलम्
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
ततो ब्रह्मसरो गच्छेद्ब्रह्मारण्योपसेवितम्
पुण्डरीकमवाप्नोति प्रभातमिव शर्वरी ॥ ५ ॥
मूलम्
ततो ब्रह्मसरो गच्छेद्ब्रह्मारण्योपसेवितम्
पुण्डरीकमवाप्नोति प्रभातमिव शर्वरी ॥ ५ ॥
विश्वास-प्रस्तुतिः
सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः
यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ॥ ६ ॥
मूलम्
सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः
यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम्
एकारात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥ ७ ॥
मूलम्
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम्
एकारात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम्
तत्र चिह्नं महाराज अद्यापि हि न संशयः ॥ ८ ॥
मूलम्
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम्
तत्र चिह्नं महाराज अद्यापि हि न संशयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
कपिला सहवत्सा वै पर्वते विचरत्युतः
सवत्सायाः पदान्यस्या दृश्यन्तेऽद्यापि भारत ॥ ९ ॥
मूलम्
कपिला सहवत्सा वै पर्वते विचरत्युतः
सवत्सायाः पदान्यस्या दृश्यन्तेऽद्यापि भारत ॥ ९ ॥
विश्वास-प्रस्तुतिः
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम
यत्किञ्चिदशुभं पापं तत्प्रणश्यति भारत ॥ १० ॥
मूलम्
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम
यत्किञ्चिदशुभं पापं तत्प्रणश्यति भारत ॥ १० ॥
विश्वास-प्रस्तुतिः
ततो गृध्रवटं गच्छेत्स्थानं देवस्य शूलिनः
स्नायात्तु भस्मना तत्र सङ्गम्य वृषभध्वजम् ॥ ११ ॥
मूलम्
ततो गृध्रवटं गच्छेत्स्थानं देवस्य शूलिनः
स्नायात्तु भस्मना तत्र सङ्गम्य वृषभध्वजम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ १२ ॥
मूलम्
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ १२ ॥
विश्वास-प्रस्तुतिः
गच्छेत तत उद्यन्तं पर्वतं गीतनादितम्
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ १३ ॥
मूलम्
गच्छेत तत उद्यन्तं पर्वतं गीतनादितम्
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ १३ ॥
विश्वास-प्रस्तुतिः
तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः
उपास्ताहि भवेत्सन्ध्या तेन द्वादशवार्षिकी ॥ १४ ॥
मूलम्
तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः
उपास्ताहि भवेत्सन्ध्या तेन द्वादशवार्षिकी ॥ १४ ॥
विश्वास-प्रस्तुतिः
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ
तत्राभिगम्य मुच्येत पुरुषो योनिसङ्कटात् ॥ १५ ॥
मूलम्
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ
तत्राभिगम्य मुच्येत पुरुषो योनिसङ्कटात् ॥ १५ ॥
विश्वास-प्रस्तुतिः
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ १६ ॥
मूलम्
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ १६ ॥
विश्वास-प्रस्तुतिः
एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १७ ॥
मूलम्
एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप
अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत् ॥ १८ ॥
मूलम्
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप
अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः
यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ १९ ॥
मूलम्
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः
यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ १९ ॥
विश्वास-प्रस्तुतिः
धर्मं तत्राभिसङ्गम्य वाजिमेधफलं लभेत्
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ॥ २० ॥
मूलम्
धर्मं तत्राभिसङ्गम्य वाजिमेधफलं लभेत्
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तत्राभिगम्य ब्रह्माणमर्चयेन्नियतव्रतः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥ २१ ॥
मूलम्
तत्राभिगम्य ब्रह्माणमर्चयेन्नियतव्रतः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥ २१ ॥
विश्वास-प्रस्तुतिः
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप
उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते ॥ २२ ॥
मूलम्
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप
उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते ॥ २२ ॥
विश्वास-प्रस्तुतिः
यक्षिण्या नैत्यकं तत्र प्रागग्निपुरुषः शुचिः
यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया ॥ २३ ॥
मूलम्
यक्षिण्या नैत्यकं तत्र प्रागग्निपुरुषः शुचिः
यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया ॥ २३ ॥
विश्वास-प्रस्तुतिः
मणिनागं ततो गच्छेद्गोसहस्रफलं लभेत्
नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ॥ २४ ॥
मूलम्
मणिनागं ततो गच्छेद्गोसहस्रफलं लभेत्
नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ॥ २४ ॥
विश्वास-प्रस्तुतिः
दष्टस्याशीविषेणास्य न विषं क्रमते नृप
तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥ २५ ॥
मूलम्
दष्टस्याशीविषेणास्य न विषं क्रमते नृप
तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥ २५ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ॥ २६ ॥
मूलम्
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम्
तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः ॥ २७ ॥
मूलम्
अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम्
तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात्
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः ॥ २८ ॥
मूलम्
तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात्
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तत्राभिषेकं कृत्वा च विष्णुलोकमवाप्नुयात्
ततोऽविनाशनं गच्छेत्सर्वपापप्रमोचनम् ॥ २९ ॥
मूलम्
तत्राभिषेकं कृत्वा च विष्णुलोकमवाप्नुयात्
ततोऽविनाशनं गच्छेत्सर्वपापप्रमोचनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
वाजिमेधमवाप्नोति सोमलोकं च गच्छति
गण्डकीं च समासाद्य सर्वतीर्थजलोद्भवाम् ॥ ३० ॥
मूलम्
वाजिमेधमवाप्नोति सोमलोकं च गच्छति
गण्डकीं च समासाद्य सर्वतीर्थजलोद्भवाम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति
ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम् ॥ ३१ ॥
मूलम्
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति
ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
गुह्यकेषु महाभाग मोदते नात्र संशयः
कर्मदां तु समासाद्य नदीं सिद्धनिषेविताम् ॥ ३२ ॥
मूलम्
गुह्यकेषु महाभाग मोदते नात्र संशयः
कर्मदां तु समासाद्य नदीं सिद्धनिषेविताम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पुण्डरीकमवाप्नोति सोमलोकं च गच्छति
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ॥ ३३ ॥
मूलम्
पुण्डरीकमवाप्नोति सोमलोकं च गच्छति
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति
अथ माहेश्वरीं धारां समासाद्य नराधिप ॥ ३४ ॥
मूलम्
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति
अथ माहेश्वरीं धारां समासाद्य नराधिप ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ॥ ३५ ॥
मूलम्
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति
अथ माहेशपदं गच्छेद्ब्रह्मचारी समाहितः ॥ ३६ ॥
मूलम्
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति
अथ माहेशपदं गच्छेद्ब्रह्मचारी समाहितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ॥ ३७ ॥
मूलम्
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ॥ ३७ ॥
विश्वास-प्रस्तुतिः
कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ॥ ३८ ॥
मूलम्
कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तत्राभिषेकं कुर्वीत तीर्थकोट्यां नराधिप
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ॥ ३९ ॥
मूलम्
तत्राभिषेकं कुर्वीत तीर्थकोट्यां नराधिप
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ॥ ३९ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च
सदा सन्निहितो यत्र हरिर्वसति भारत ॥ ४० ॥
मूलम्
ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च
सदा सन्निहितो यत्र हरिर्वसति भारत ॥ ४० ॥
विश्वास-प्रस्तुतिः
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
आदित्यावसवोरुद्रा जनार्दनमुपासते ॥ ४१ ॥
मूलम्
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
आदित्यावसवोरुद्रा जनार्दनमुपासते ॥ ४१ ॥
विश्वास-प्रस्तुतिः
शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः
अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम् ॥ ४२ ॥
मूलम्
शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः
अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः ॥ ४३ ॥
मूलम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
समुद्रास्तत्रचत्वारः कूपे सन्निहिताः सदा
तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ ४४ ॥
मूलम्
समुद्रास्तत्रचत्वारः कूपे सन्निहिताः सदा
तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अभिगम्य महादेवं वरदं विष्णुमव्ययम्
विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥ ४५ ॥
मूलम्
अभिगम्य महादेवं वरदं विष्णुमव्ययम्
विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥ ४५ ॥
विश्वास-प्रस्तुतिः
जातिस्मरं उपस्पृश्य शुचिः प्रयतमानसः
जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ॥ ४६ ॥
मूलम्
जातिस्मरं उपस्पृश्य शुचिः प्रयतमानसः
जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम्
ईप्सिताल्ँलभते लोकानुपवासान्न संशयः ॥ ४७ ॥
मूलम्
वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम्
ईप्सिताल्ँलभते लोकानुपवासान्न संशयः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ततस्तु वामनं गत्वा सर्वपापप्रणाशनम्
अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ ४८ ॥
मूलम्
ततस्तु वामनं गत्वा सर्वपापप्रणाशनम्
अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम्
कौशिकीं तत्र सेवेत महापातकनाशिनीम् ॥ ४९ ॥
मूलम्
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम्
कौशिकीं तत्र सेवेत महापातकनाशिनीम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
राजसूयस्य यज्ञस्य फलं प्राप्नोतिमानवः
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् ॥ ५० ॥
मूलम्
राजसूयस्य यज्ञस्य फलं प्राप्नोतिमानवः
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
अथ गोविन्दमासाद्य तीर्थं परमसम्मतम् ॥ ५१ ॥
मूलम्
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
अथ गोविन्दमासाद्य तीर्थं परमसम्मतम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
उपोष्य रजनीमेकामग्निष्टोमफलं लभेत्
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ॥ ५२ ॥
मूलम्
उपोष्य रजनीमेकामग्निष्टोमफलं लभेत्
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
मित्रावरुणयोर्लोकान्प्राप्नुयाद्भरतर्षभ
त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् ॥ ५३ ॥
मूलम्
मित्रावरुणयोर्लोकान्प्राप्नुयाद्भरतर्षभ
त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
कन्यावसथमासाद्य नियतो नियताशनः (आवसथ्य)
मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ॥ ५४ ॥
मूलम्
कन्यावसथमासाद्य नियतो नियताशनः (आवसथ्य)
मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत
तदक्षयमिति प्राहुरृषयः संशितव्रताः ॥ ५५ ॥
मूलम्
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत
तदक्षयमिति प्राहुरृषयः संशितव्रताः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
निष्ठावासं समासाद्य त्रिषु लोकेषु विश्रुतम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ५६ ॥
मूलम्
निष्ठावासं समासाद्य त्रिषु लोकेषु विश्रुतम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ये तु दानं प्रयच्छन्ति निष्ठायाः सङ्गमे नराः
ते यान्ति नरशार्दूल ब्रह्मलोकमनामयम् ॥ ५७ ॥
मूलम्
ये तु दानं प्रयच्छन्ति निष्ठायाः सङ्गमे नराः
ते यान्ति नरशार्दूल ब्रह्मलोकमनामयम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ ५८ ॥
मूलम्
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
देवकूटं समासाद्य देवर्षिगणसेवितम्
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ५९ ॥
मूलम्
देवकूटं समासाद्य देवर्षिगणसेवितम्
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्
तत्र सिद्धिं परां प्राप विश्वामित्रोऽथ कौशिकः ॥ ६० ॥
मूलम्
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्
तत्र सिद्धिं परां प्राप विश्वामित्रोऽथ कौशिकः ॥ ६० ॥
विश्वास-प्रस्तुतिः
यत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ ६१ ॥
मूलम्
यत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ ६१ ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थवरं चैव यो वसेत महाह्रदम्
न दुर्गतिमवाप्नोति विन्द्याद्बहुसुवर्णकम् ॥ ६२ ॥
मूलम्
सर्वतीर्थवरं चैव यो वसेत महाह्रदम्
न दुर्गतिमवाप्नोति विन्द्याद्बहुसुवर्णकम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
कुमारमभिगम्याथ वीराश्रमनिवासिनम्
अश्वमेधमवाप्नोति शक्रलोकं स गच्छति ॥ ६३ ॥
मूलम्
कुमारमभिगम्याथ वीराश्रमनिवासिनम्
अश्वमेधमवाप्नोति शक्रलोकं स गच्छति ॥ ६३ ॥
विश्वास-प्रस्तुतिः
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम्
नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ॥ ६४ ॥
मूलम्
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम्
नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ॥ ६४ ॥
विश्वास-प्रस्तुतिः
कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः
त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥ ६५ ॥
मूलम्
कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः
त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥ ६५ ॥
विश्वास-प्रस्तुतिः
उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः
कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥ ६६ ॥
मूलम्
उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः
कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः
जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनैः ॥ ६७ ॥
मूलम्
तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः
जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनैः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः
सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ॥ ६८ ॥
मूलम्
सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः
सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ॥ ६८ ॥
विश्वास-प्रस्तुतिः
ऋषभद्वीपमासाद्य सेव्य क्रौञ्चनिषूदनम्
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ ६९ ॥
मूलम्
ऋषभद्वीपमासाद्य सेव्य क्रौञ्चनिषूदनम्
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ ६९ ॥
विश्वास-प्रस्तुतिः
औद्यानकं महाराज तीर्थं मुनिनिषेवितम्
तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ॥ ७० ॥
मूलम्
औद्यानकं महाराज तीर्थं मुनिनिषेवितम्
तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ॥ ७० ॥
विश्वास-प्रस्तुतिः
ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्
वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥ ७१ ॥
मूलम्
ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्
वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
ततश्चम्पां समासाद्य भागीरथ्यां कृतोदकः
दण्डार्पणं समासाद्य गोसहस्रफलं लभेत् ॥ ७२ ॥
मूलम्
ततश्चम्पां समासाद्य भागीरथ्यां कृतोदकः
दण्डार्पणं समासाद्य गोसहस्रफलं लभेत् ॥ ७२ ॥
लाविढिकां ततो गच्छेत्पुण्यां पुण्यनिषेविताम्
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ७३