०३७

नारद उवाच-

विश्वास-प्रस्तुतिः

अन्यानि च महाराज तीर्थानि पावनानि तु
वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर ॥ १ ॥

मूलम्

प्रयागादधिकं तीर्थं प्रयागं परमं शुभम्
विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् ॥ २ ॥

आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम्
सुनीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥ ३ ॥

प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च
जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥ ४ ॥

गयातीर्थं परं तीर्थं तीर्थं चैव महानदी
नारायणपरं तीर्थं वायुतीर्थमनुत्तमम् ॥ ५ ॥

ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम्
यमतीर्थं यथापुण्यं तीर्थं सम्मूर्तिकं शुभम् ॥ ६ ॥

अग्नितीर्थं महाराज कलशेश्वरमुत्तमम्
नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥ ७ ॥

पर्वताख्यं महागुह्यं मणिकर्ण्यमनुत्तमम्
घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥ ८ ॥

गङ्गातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम्
कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥ ९ ॥

तत्र लिङ्गं पुराणीयं स्थातुं ब्रह्मा यथागतः
तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥ १० ॥

तत्र स्नात्वा समागम्य ब्रह्मा प्रोवाच तं हरिम्
मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि ॥ ११ ॥

तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा मम
तस्मात्प्रतिष्ठितं लिगं नाम्ना तव भविष्यति ॥ १२ ॥

भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम्
गन्धर्वतीर्थं सुशुभं वाह्नेयं तीर्थमुत्तमम् ॥ १३ ॥

दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं युधिष्ठिर
चिन्ताङ्गदेश्वरं तीर्थं पुण्यं विद्याधरेश्वरम् ॥ १४ ॥

केदारतीर्थमुग्राख्यं कालञ्जरमनुत्तमम्
सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् ॥ १५ ॥

कोकिलाख्यं महातीर्थं तीर्थं चैव महालयम्
हिरण्यगर्भं गोप्रेक्षं तीर्थं चैवमनुत्तमम् ॥ १६ ॥

उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम्
त्रिलोचनं महातीर्थं लोकार्कं चोत्तराह्वयम् ॥ १७ ॥

कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम्
शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ १८ ॥

एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै
न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि ॥ १९ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे वाराणसीमाहात्म्ये सप्तत्रिंशोऽध्यायः ३७