नारद उवाच-
विश्वास-प्रस्तुतिः
वाराणस्यां महाराज मध्यमेशं परात्परम्
तस्मिन्स्थाने महादेवो देव्या सह महेश्वरः ॥ १ ॥
मूलम्
वाराणस्यां महाराज मध्यमेशं परात्परम्
तस्मिन्स्थाने महादेवो देव्या सह महेश्वरः ॥ १ ॥
विश्वास-प्रस्तुतिः
रमते भगवान्नित्यं रुद्रैश्च परिवारितः
तत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः ॥ २ ॥
मूलम्
रमते भगवान्नित्यं रुद्रैश्च परिवारितः
तत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः ॥ २ ॥
विश्वास-प्रस्तुतिः
उवास वत्सरं कृष्णः सदा पाशुपतैर्युतः
भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः ॥ ३ ॥
मूलम्
उवास वत्सरं कृष्णः सदा पाशुपतैर्युतः
भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः ॥ ३ ॥
विश्वास-प्रस्तुतिः
आराधयन्हरिः शम्भुं कृत्वा पाशुपतंव्रतम्
तस्य ते बहवः शिष्याः ब्रह्मचर्यपरायणाः ॥ ४ ॥
मूलम्
आराधयन्हरिः शम्भुं कृत्वा पाशुपतंव्रतम्
तस्य ते बहवः शिष्याः ब्रह्मचर्यपरायणाः ॥ ४ ॥
विश्वास-प्रस्तुतिः
लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवन्तो महेश्वरम्
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ॥ ५ ॥
मूलम्
लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवन्तो महेश्वरम्
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ॥ ५ ॥
विश्वास-प्रस्तुतिः
ददौ कृष्णस्य भगवान्वरदो वरमुत्तमम्
येऽर्चयन्ति च गोविन्दं मद्भक्ता विधिपूर्वकम् ॥ ६ ॥
मूलम्
ददौ कृष्णस्य भगवान्वरदो वरमुत्तमम्
येऽर्चयन्ति च गोविन्दं मद्भक्ता विधिपूर्वकम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मयम्
नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परैर्जनैः ॥ ७ ॥
मूलम्
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मयम्
नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परैर्जनैः ॥ ७ ॥
विश्वास-प्रस्तुतिः
भविष्यन्ति न सन्देहो मत्प्रसादाद्द्विजातयः
येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा देवं पिनाकिनम् ॥ ८ ॥
मूलम्
भविष्यन्ति न सन्देहो मत्प्रसादाद्द्विजातयः
येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा देवं पिनाकिनम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति
प्राणांस्त्यक्ष्यन्ति ये र्मत्याः पापकर्मरता अपि ॥ ९ ॥
मूलम्
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति
प्राणांस्त्यक्ष्यन्ति ये र्मत्याः पापकर्मरता अपि ॥ ९ ॥
विश्वास-प्रस्तुतिः
ते यान्ति तत्परं स्थानं नात्र कार्या विचारणा
धन्यास्तु खलु ते विज्ञा मन्दाकिन्यां कृतोदकाः ॥ १० ॥
मूलम्
ते यान्ति तत्परं स्थानं नात्र कार्या विचारणा
धन्यास्तु खलु ते विज्ञा मन्दाकिन्यां कृतोदकाः ॥ १० ॥
विश्वास-प्रस्तुतिः
अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम्
ज्ञानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह ॥ ११ ॥
मूलम्
अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम्
ज्ञानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह ॥ ११ ॥
विश्वास-प्रस्तुतिः
एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम्
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ॥ १२ ॥
मूलम्
एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम्
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ॥ १२ ॥
विश्वास-प्रस्तुतिः
यत्फलं लभते मर्त्त्यस्तस्माद्दशगुणं त्विह
एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे
यः शृणोति परं भक्त्या स याति परमं पदम् ॥ १३ ॥
मूलम्
यत्फलं लभते मर्त्त्यस्तस्माद्दशगुणं त्विह
एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे
यः शृणोति परं भक्त्या स याति परमं पदम् ॥ १३ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे वाराणसीमाहात्म्ये षट्त्रिंशोऽध्यायः ३६