०३५

नारद उवाच-

विश्वास-प्रस्तुतिः

अथान्यत्तत्र वै लिङ्गं कपर्दीश्वरमुत्तमम्
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन्नृप ॥ १ ॥

मूलम्

मुच्यते सर्वपापेभ्यो मुक्तिं भुक्तिं च विन्दति
पिशाचमोचनं नाम तीर्थमन्यत्ततः स्थितम् ॥ २ ॥

तत्राश्चर्यमयो देवो मुक्तिदः सर्वदोषहः
कश्चिद्दैत्यो जगामेदं शार्दूलो घोररूपधृक् ॥ ३ ॥

मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम्
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ॥ ४ ॥

धावमाना सुसम्भ्रान्ता व्याघ्रस्य वशमागता
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः स महाबलः ॥ ५ ॥

जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान्
मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी ॥ ६ ॥

अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा
त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कित मूर्द्धजा ॥ ७ ॥

वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता
पुष्पवृष्टिं विमुञ्चन्ति खेचरास्तत्समन्ततः ॥ ८ ॥

गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्ततः
दृष्ट्वा तदाश्चर्यवरं प्रशशंसुः सुरादयः ॥ ९ ॥

तन्महेशस्य वै लिङ्गं कपर्दीश्वरमुत्तमम्
स्मृत्वैवाशेषपापौघात्क्षिप्रमस्य विमुञ्चति ॥ १० ॥

कामक्रोधादयो दोषा वाराणसी निवासिनाम्
विघ्नाः सर्वे विनश्यन्ति कपर्दीश्वरपूजनात् ॥ ११ ॥

तस्मात्सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमम्
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैस्तवैः ॥ १२ ॥

ध्यायतां चात्र नियतं योगिनां शान्तचेतसाम्
जायते योगसिद्धिः स्यात्षण्मासेन न संशयः ॥ १३ ॥

ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात्
पिशाचमोचने कुण्डे स्नातः स्यात्प्रशमो यतः ॥ १४ ॥

तस्मिन्क्षेत्रे पुरा विप्रस्तपस्वी संशितव्रतः
शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करम् ॥ १५ ॥

जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम्
पुष्पधूपादिभिस्तोत्रैः नमस्कारैः प्रदक्षिणैः ॥ १६ ॥

उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम्
कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ॥ १७ ॥

अस्थिचर्म पिनद्धाङ्गं निश्वसन्तं मुहुर्मुहुः
तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः ॥ १८ ॥

प्रोवाच को भवान्कस्माद्देशाद्देशमिमं श्रितः
तस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः ॥ १९ ॥

पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः
पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ २० ॥

न पूजिता महादेवा गावोऽप्यतिथयस्तथा
न कदाचित्कृतं पुण्यमल्पं वानल्पमेव च ॥ २१ ॥

एकदा भगवान्देवो वृषभेश्वरवाहनः
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः ॥ २२ ॥

तदाचिरेण कालेन पञ्चत्वमहमागतः
न दृष्टं तन्महाघोरं यमस्य सदनं मुने ॥ २३ ॥

पिपासयाधुनाक्रान्तो न जानामि हिताहितम्
यदि कञ्चित्समुद्धर्तुमुपायं पश्यसि प्रभो ॥ २४ ॥

कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः
इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् ॥ २५ ॥

तादृशो नहि लोकेस्मिन्विद्यते पुण्यकृत्तमः
यत्त्वया भगवान्पूर्वं दृष्टो विश्वेश्वरः शिवः ॥ २६ ॥

संस्पृष्टो वन्दितो भूयः कोऽन्यस्त्वत्सदृशो भुवि
तेन कर्मविपाकेन देशमेतं समागतः ॥ २७ ॥

स्नानं कुरुष्व शीघ्रं त्वमस्मिन्कुण्डे समाहितः
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ २८ ॥

स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम्
स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोवगाहम् ॥ २९ ॥

तदावगाढो मुनिसन्निधाने ममार दिव्याभरणोपपन्नः
अदृश्यतार्कप्रतिमो विमाने शशाङ्कचिह्नीकृतचारुमौलि ॥ ३० ॥

विभाति रुद्रैः सहितो दिविष्ठैः समाभृतो योगिरिभरप्रमेयैः
स वालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ॥ ३१ ॥

स्तुवन्ति सिद्धादि विदेवसङ्घा नृत्यन्ति दिव्याप्सरसोऽभिरामाः
मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिन्नराद्याः ॥ ३२ ॥

संस्तूयमानोऽथ मुनीन्द्रसङ्घैरवाप्य बोधं भगवत्प्रसादात्
समाविशन्मण्डलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ॥ ३३ ॥

दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम्
विचिन्त्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ ३४ ॥

शङ्कुकर्ण उवाच-
कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम्
व्रजामि योगेश्वरमीप्सितारमादित्यमग्निं कपिलाधिरूढम् ॥ ३५ ॥

त्वां ब्रह्मसारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमं तम्
व्रजामि रुद्रं शरणं दिविष्ठं महामुनिं ब्रह्ममयं पवित्रम् ॥ ३६ ॥

सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात्
तं ब्रह्मपारं प्रणमामि शम्भुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ ३७ ॥

यत्र प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन
तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ ३८ ॥

अलिङ्गमालोकविहीनरूपं स्वयम्प्रभुं चित्पतिमेकरूपम्
तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ॥ ३९ ॥

यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः
पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं परमस्वरूपम् ॥ ४० ॥

न यत्र नामादिविशेष कॢप्तिर्न सन्दृशे तिष्ठति यत्स्वरूपम्
तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयम्भुवं त्वां शरणं प्रपद्ये ॥ ४१ ॥

यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम्
पश्यन्त्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यम् ॥ ४२ ॥

यतः प्रधानं पुरुषः पुराणो बिभर्ति तेजः प्रणमन्ति देवाः
नमामि तं ज्योतिषि सन्निविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ ४३ ॥

व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम्
शिवं प्रपद्ये हरिमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ ४४ ॥

स्तुत्वैवं शङ्कुकर्णोऽपि भगवन्तं कपर्दिनम्
पपात दण्डवद्भूमौ प्रोच्चरन्प्रणवं परम् ॥ ४५ ॥

तत्क्षणात्परमं लिङ्गं प्रादुर्भूतं शिवात्मकम्
ज्ञानमानन्दमत्यन्तं कोटिज्वालाग्निसन्निभम् ॥ ४६ ॥

शङ्कुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः
निलिल्ये विमले लिङ्गे तदद्भुतमिवाभवत् ॥ ४७ ॥

एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्द्दिनः
न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ४८ ॥

य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम्
त्यक्तपापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ ४९ ॥

पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम्
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात्परम् ॥ ५० ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे वाराणसीमाहात्म्ये पञ्चत्रिंशोऽध्यायः ३५