०३४

नारद उवाच-

विश्वास-प्रस्तुतिः

तत्रेदं विमलं लिगमोङ्कारन्नाम शोभनम्
यस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ १ ॥

मूलम्

एतत्परतरं ज्ञानं पञ्चायतनमुत्तमम्
सेवितं मुनिर्भिर्नित्यं वाराणस्यां विमोक्षणम् ॥ २ ॥

तत्र साक्षान्महादेवः पञ्चायतनविग्रहः
रमते भगवान्रुद्रो जन्तूनामपवर्गदः ॥ ३ ॥

मूलम्

तत्र साक्षान्महादेवः पञ्चायतनविग्रहः
रमते भगवान्रुद्रो जन्तूनामपवर्गदः ॥ ३ ॥

विश्वास-प्रस्तुतिः

एतत्पाशुपतं ज्ञानं पञ्चायतनमुच्यते
तदेतद्विमलं लिगमोङ्कारं समुपस्थितम् ॥ ४ ॥

शान्त्यतीता तथा शान्तिर्विद्या चैवापरा वरा
प्रतिष्ठा च निवृत्तिश्च पञ्चात्मं लिङ्गमैश्वरम् ॥ ५ ॥

पञ्चानामपि लिङ्गानां ब्रह्मादीनां समाश्रयम्
ॐकारबोधकं लिङ्गं पञ्चायतनमुच्यते ॥ ६ ॥

संस्मरेदीश्वरं लिङ्गं पञ्चायतनमव्ययम्
देहान्ते परमं ज्योतिरानन्दं विशते बुधः ॥ ७ ॥

तत्र देवर्षयः पूर्वं सिद्धाब्रह्मर्षयस्तथा
उपास्य देवमीशानमापुरन्तः परं पदम् ॥ ८ ॥

मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम्
गोचर्ममात्रं राजेन्द्र ॐकारेश्वरमुत्तमम् ॥ ९ ॥

कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम्
विश्वेश्वरं तथोङ्कारङ्कन्दर्पेश्वरमेव च ॥ १० ॥

एतानि गुह्यलिङ्गानि वाराणस्यां युधिष्ठिर
न कश्चिदिह जानाति विना शम्भोरनुग्रहात् ॥ ११ ॥

कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव
तस्मिन्स्थाने पुरा दैत्यो हस्ती भूत्वा शिवान्तिकम् ॥ १२ ॥

ब्राह्मणान्हन्तुमायातो यत्र नित्यमुपासते
तेषां लिङ्गान्महादेवः प्रादुरासीत्त्रिलोचनः ॥ १३ ॥

रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः
हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः ॥ १४ ॥

वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः
तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर ॥ १५ ॥

तेनैव च शरीरेण प्राप्तास्तत्परमं पदम्
विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्त्तिताः ॥ १६ ॥

कृत्तिवासेश्वरं लिङ्गं नित्यमाश्रित्य संस्थिताः
ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः ॥ १७ ॥

कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः
जन्मान्तरसहस्रेण मोक्षो यत्राप्यते न वा ॥ १८ ॥

एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते
आलयं सर्वसिद्धानामेतत्स्थानं वदन्ति हि ॥ १९ ॥

गोपितं देवदेवेन महादेवेन शम्भुना
युगेयुगे ह्यत्र दान्ता ब्राह्मणा वेदपारगाः ॥ २० ॥

उपासन्ते महात्मानं जपन्ति शतरुद्रियम्
स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम्
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ २१ ॥

गायन्ति सिद्धाः किल गीतकानि वाराणसीं ये निवसन्ति विप्राः
तेषामथैकेन भवेद्विमुक्तिर्ये कृत्तिवासं शरणं प्रपन्नाः ॥ २२ ॥

सम्प्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म
ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम् ॥ २३ ॥

आराधयन्ति प्रभुमीशितारं वाराणसीमध्यगता मुनीन्द्राः
यजन्ति यज्ञैरभिसन्धिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शम्भुम् ॥ २४ ॥

नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम्
स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ २५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चतुस्त्रिंशोऽध्यायः ३४