०३३

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

वाराणस्याश्च माहात्म्यं सङ्क्षेपात्कथितं त्वया
विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः ॥ १ ॥

मूलम्

नारद उवाच-
अत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम्
यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया ॥ २ ॥

मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषम्
देवासनगता देवी महादेवमपृच्छत ॥ ३ ॥

देव्युवाच-
देवदेव महादेव भक्तानामार्तिनाशन
कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ ४ ॥

साङ्ख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः
आयासबहुला लोके यानि चान्यानि शङ्कर ॥ ५ ॥

येन विश्रान्तचित्तानां योगिनां कर्मिणामपि
दृश्यो हि भगवान्सूक्ष्मः सर्वेषामथ देहिनाम् ॥ ६ ॥

एतद्गुह्यतमं ज्ञानं गूढं शक्रादिसेवितम्
हिताय सर्वभूतानां ब्रूहि कामाग्निनाशनम् ॥ ७ ॥

ईश्वर उवाच-
अवाच्यमत्र विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम्
वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्षिभिः ॥ ८ ॥

परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी
सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ ९ ॥

तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः
निवसन्ति महात्मानः परं नियममास्थिताः ॥ १० ॥

उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च यत्
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ ११ ॥

स्थानान्तर पवित्राणि तीर्थान्यायतनानि च
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ १२ ॥

भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम्
अमुक्तास्तत्र पश्यन्ति मुक्ताः पश्यन्ति चेतसा ॥ १३ ॥

श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम्
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ १४ ॥

देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम
मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति च ॥ १५ ॥

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत्
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ १६ ॥

जन्मान्तरसहस्रेषु यत्पापं पूर्वसञ्चितम्
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ १७ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसङ्कराः
स्त्रियो म्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥ १८ ॥

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः
कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ १९ ॥

चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः
शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ २० ॥

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ २१ ॥

मोक्षं सुदुर्ल्लभं मत्वा संसारं चातिभीषणम्
अश्मना चरणौ भङ्क्त्वा वाराणस्यां वसेन्नरः ॥ २२ ॥

दुर्ल्लभा तपसा चापि मृतस्य परमेश्वरि
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ २३ ॥

प्रसादाज्जायते सम्यक्मम शैलेन्द्रनन्दिनि
अप्रवृद्धा न पश्यन्ति मम मायाविमोहिताः ॥ २४ ॥

विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः
हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि ॥ २५ ॥

स याति परमं स्थानं यत्र गत्वा न शोचति
जन्ममृत्युजरामुक्तं परं यान्ति शिवालयम् ॥ २६ ॥

अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम्
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डिताः ॥ २७ ॥

न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते ॥ २८ ॥

नानावर्णा विवर्णाश्च चाण्डालाद्या जुगुप्सिताः
किल्बिषैः पूर्णदेहाश्च विशिष्टैः पातकैस्तथा ॥ २९ ॥

भेषजं परमं तेषामविमुक्तं विदुर्बुधाः
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ॥ ३० ॥

अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम्
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ॥ ३१ ॥

तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम्
प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम् ॥ ३२ ॥

केदारं भद्रकर्णं तु गया पुष्करमेव च
कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रातकेश्वरी ॥ ३३ ॥

शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम्
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ॥ ३४ ॥

एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह
न यास्यन्ति परं तत्त्वं वाराणस्यां यथा मृताः ॥ ३५ ॥

वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी
प्रविष्टा नाशयेत्पापं जन्मान्तरशतैः कृतम् ॥ ३६ ॥

अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः
व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्ल्लभम् ॥ ३७ ॥

जपेच्च जुहुयान्नित्यं ददात्यर्चयतेऽमरान्
वायुभक्षश्च सततं वाराणस्यां स्थितो नरः ॥ ३८ ॥

यदि पापो यदि शठो यदि वा धार्मिको नरः
वाराणसीं समासाद्य पुनाति सकलं कुलम् ॥ ३९ ॥

वाराणस्यां येऽर्चयन्ति महादेवं स्तुवन्ति वै
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ॥ ४० ॥

अन्यत्र योगज्ञानाभ्यां सन्न्यासादथवान्यतः
प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनाम् ॥ ४१ ॥

ये भक्ता देवदेवेशि वाराणस्यां वसन्ति वै
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥ ४२ ॥

यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना
अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम् ॥ ४३ ॥

यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम्
तदेव गुह्यं गुह्यानामेतद्विज्ञानमुच्यते ॥ ४४ ॥

ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम्
यागतिर्विदिता सुभ्रूः साविमुक्ते मृतस्य तु ॥ ४५ ॥

यानि चैवाविमुक्तस्य देहे दृष्टानि कृत्स्नशः
पुरी वाराणसी तेभ्यः स्थानेभ्योऽप्यधिका शुभा ॥ ४६ ॥

यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तये ॥ ४७ ॥

यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम्
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ ४८ ॥

भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि
यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ॥ ४९ ॥

वरणायास्तथा चास्या मध्ये वाराणसीपुरी
तत्रैव संस्थितं तत्त्वं नित्यमेवंविमुक्तकम् ॥ ५० ॥

वाराणस्याः परं स्थानं न भूतं न भविष्यति
यत्र नारायणो देवो महादेवो दिवीश्वरः ॥ ५१ ॥

तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः
उपासते यं सततं देवदेवः पितामहः ॥ ५२ ॥

मूलम्

तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः
उपासते यं सततं देवदेवः पितामहः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

महापातकिनो देवि ये तेभ्यः पापकृत्तमाः
वाराणसीं समासाद्य ते यान्ति परमां गतिम् ॥ ५३ ॥

तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणान्तकम्
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ ५४ ॥

किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः
ततो नैवाचरेत्पापं कायेन मनसा गिरा ॥ ५५ ॥

एतद्रहस्यं देवानां पुराणानां च सुव्रते
अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वतः ॥ ५६ ॥

देवतानामृषीणां च शृण्वतां परमेष्ठिनाम्
देवदेवेन कथितं सर्वपापविनाशनम् ॥ ५७ ॥

मूलम्

नारद उवाच-
देवतानामृषीणां च शृण्वतां परमेष्ठिनाम्
देवदेवेन कथितं सर्वपापविनाशनम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

यथानारायणः श्रेष्ठो देवानां पुरुषोत्तमः
यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम् ॥ ५८ ॥

यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि
ते विदन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ ५९ ॥

कलिकल्मषसम्भूता येषामुपहृता मतिः
न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ॥ ६० ॥

ये स्मरन्ति सदा कालं वदन्ति च पुरीमिमाम्
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ६१ ॥

यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः
नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः ॥ ६२ ॥

आगच्छेत्तदिदं स्थानं सेवितं मोक्षकाङ्क्षिभिः
मृतानां च पुनर्जन्म न भूयो भवसागरे ॥ ६३ ॥

तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥ ६४ ॥

न लोकवचनात्पित्रोर्न चैव गुरुवादतः
मतिर्न क्रमणीया स्यादविमुक्तगतिं प्रति ॥ ६५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे त्रयस्त्रिंशोऽध्यायः ३३