नारदउवाच-
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र सुगन्धंलोकविश्रुतम्
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ १ ॥
मूलम्

रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ २ ॥

गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे
स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ॥ ३ ॥

तत्र कर्णह्रदे स्नात्वा देवमभ्यर्च्य शङ्करम्
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ॥ ४ ॥

ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम्
गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ॥ ५ ॥

अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप
सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ॥ ६ ॥

गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति
ब्रह्मावर्त्तं ततो गच्छेद्ब्रह्मचारी समाहितः ॥ ७ ॥

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
यमुनाप्रभवं गच्छेत्समुपस्पृश्य यामुनम् ॥ ८ ॥

अश्वमेधफलं लब्ध्वा ब्रह्मलोके महीयते
दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् ॥ ९ ॥

सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् ॥ १० ॥

तत्रोष्य रजनीः पञ्च दद्याद्बहुसुवर्णकम्
अथ देवीं समासाद्य नरः परमदुर्गमाम् ॥ ११ ॥

अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम्
ऋषिकुल्यां समासाद्य वसिष्ठं चैव भारत ॥ १२ ॥

वसिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते ॥ १३ ॥

यदि तत्र वसेन्मासं शाकाहारो नराधिप
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् ॥ १४ ॥

गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते
कार्तिकमाघयोश्चैव तीर्थमासाद्य दुर्लभम् ॥ १५ ॥

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत्
ततः सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम् ॥ १६ ॥

उपस्पृशेत्स विद्यानां सर्वासां पारगो भवेत्
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने ॥ १७ ॥

एककालं निराहारो लोकान्संवसते शुभान्
षष्ठकालोपवासेन मासमुष्य महालये ॥ १८ ॥
मूलम्
एककालं निराहारो लोकान्संवसते शुभान्
षष्ठकालोपवासेन मासमुष्य महालये ॥ १८ ॥
विश्वास-प्रस्तुतिः
तीर्णस्तारयते जन्तून्दशपूर्वान्दशापरान्
दृष्ट्वा माहेश्वरं पुण्यं परं सुरनमस्कृतम् ॥ १९ ॥

कृतार्थः सर्वकृत्येषु न शोचेन्मरणं क्वचित्
सर्वपापविशुद्धात्मा विन्द्याद्बहुसुवर्णकम् ॥ २० ॥

अथ वेतसिकां गच्छेत्पितामहनिषेविताम्
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥ २१ ॥

अथ सुन्दरिकां तीर्थं प्राप्य सिद्धनिषेविताम्
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः ॥ २२ ॥

ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ २३ ॥

ततश्च नैमिषं गच्छेत्पुण्यं द्विजनिषेवितम्
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह ॥ २४ ॥

नैमिषं प्रार्थयानस्य पापस्यार्द्धं प्रणश्यति
प्रविष्टमानस्तु नरः सर्वपापात्प्रमुच्यते २५