नारदउवाच-
विश्वास-प्रस्तुतिः
ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथि
सन्देहं हृदि कृत्वा तु विस्मयं परमं गतः
विचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम ॥ १ ॥
मूलम्
ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथि
सन्देहं हृदि कृत्वा तु विस्मयं परमं गतः
विचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम ॥ १ ॥
विश्वास-प्रस्तुतिः
विकुण्डल उवाच-
हे दूतवर पृच्छामि संशयं त्वामहं परम्
आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम् ॥ २ ॥
मूलम्
विकुण्डल उवाच-
हे दूतवर पृच्छामि संशयं त्वामहं परम्
आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम् ॥ २ ॥
विश्वास-प्रस्तुतिः
दुर्मृत्युरपि तुल्योभूत्तुल्यो दृष्टो यमस्तथा
कथं स नरके क्षिप्तस्तुल्यकर्मा ममाग्रजः ॥ ३ ॥
मूलम्
दुर्मृत्युरपि तुल्योभूत्तुल्यो दृष्टो यमस्तथा
कथं स नरके क्षिप्तस्तुल्यकर्मा ममाग्रजः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ममाभवत्कथं नाकमिति मे छिन्धि संशयम्
देवदूत न पश्यामि मम स्वर्गस्य कारणम् ॥ ४ ॥
मूलम्
ममाभवत्कथं नाकमिति मे छिन्धि संशयम्
देवदूत न पश्यामि मम स्वर्गस्य कारणम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
देवदूत उवाच-
माता पिता सुतो जाया स्वसा भ्राता विकुण्डल
जन्महेतोरियं सञ्ज्ञा जन्तोः कर्मोपभुक्तये ॥ ५ ॥
मूलम्
देवदूत उवाच-
माता पिता सुतो जाया स्वसा भ्राता विकुण्डल
जन्महेतोरियं सञ्ज्ञा जन्तोः कर्मोपभुक्तये ॥ ५ ॥
विश्वास-प्रस्तुतिः
एकस्मिन्पादपे यद्वच्छकुनानां समागमः
यद्यत्समीहितं कर्म कुरुते पूर्वभावितः ॥ ६ ॥
मूलम्
एकस्मिन्पादपे यद्वच्छकुनानां समागमः
यद्यत्समीहितं कर्म कुरुते पूर्वभावितः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्य तस्य फलं भुङ्क्ते कर्मणः पुरुषः सदा
सत्यं वदामि ते प्रीत्या नरैः कर्म शुभाशुभम् ॥ ७ ॥
मूलम्
तस्य तस्य फलं भुङ्क्ते कर्मणः पुरुषः सदा
सत्यं वदामि ते प्रीत्या नरैः कर्म शुभाशुभम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनः
एकः करोति कर्माणि एकस्तत्फलमश्नुते ॥ ८ ॥
मूलम्
स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनः
एकः करोति कर्माणि एकस्तत्फलमश्नुते ॥ ८ ॥
विश्वास-प्रस्तुतिः
अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित्
अपतन्नरके पापैस्तवभ्राता सुदारुणैः
त्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम् ॥ ९ ॥
मूलम्
अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित्
अपतन्नरके पापैस्तवभ्राता सुदारुणैः
त्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
विकुण्डल उवाच-
आबाल्यान्मम पापेषु न पुण्येषु रतं मनः
अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया ॥ १० ॥
मूलम्
विकुण्डल उवाच-
आबाल्यान्मम पापेषु न पुण्येषु रतं मनः
अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया ॥ १० ॥
विश्वास-प्रस्तुतिः
देवदूत न जानामि सुकृतं कर्म चात्मनः
यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद ॥ ११ ॥
मूलम्
देवदूत न जानामि सुकृतं कर्म चात्मनः
यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद ॥ ११ ॥
विश्वास-प्रस्तुतिः
देवदूत उवाच-
शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम्
जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम् ॥ १२ ॥
मूलम्
देवदूत उवाच-
शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम्
जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
हरिमित्रसुतो विप्रः सुमित्रो वेदपारगः
आसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे ॥ १३ ॥
मूलम्
हरिमित्रसुतो विप्रः सुमित्रो वेदपारगः
आसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे ॥ १३ ॥
विश्वास-प्रस्तुतिः
तेन सख्यं वने तस्मिंस्तव जातं विशांवर
तत्सङ्गेन त्वया स्नातं माघमासद्वयं तथा ॥ १४ ॥
मूलम्
तेन सख्यं वने तस्मिंस्तव जातं विशांवर
तत्सङ्गेन त्वया स्नातं माघमासद्वयं तथा ॥ १४ ॥
विश्वास-प्रस्तुतिः
कालिन्दी पुण्यपानीये सर्वपापहरे वरे
तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने ॥ १५ ॥
मूलम्
कालिन्दी पुण्यपानीये सर्वपापहरे वरे
तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने ॥ १५ ॥
विश्वास-प्रस्तुतिः
एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशाम्पते
द्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ ॥ १६ ॥
मूलम्
एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशाम्पते
द्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ ॥ १६ ॥
विश्वास-प्रस्तुतिः
त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि
नरकेषु तव भ्राता महतीं पापयातनाम् ॥ १७ ॥
मूलम्
त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि
नरकेषु तव भ्राता महतीं पापयातनाम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैः
चूर्ण्यमानः शिलापृष्ठे तप्ताङ्गारेषु भर्जितः ॥ १८ ॥
मूलम्
छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैः
चूर्ण्यमानः शिलापृष्ठे तप्ताङ्गारेषु भर्जितः ॥ १८ ॥
विश्वास-प्रस्तुतिः
इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः
पुलकाङ्कित सर्वाङ्गो दीनोऽसौ विनयान्वितः ॥ १९ ॥
मूलम्
इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः
पुलकाङ्कित सर्वाङ्गो दीनोऽसौ विनयान्वितः ॥ १९ ॥
विश्वास-प्रस्तुतिः
उवाच तं देवदूतं मधुरं निपुणं वचः
मैत्री सप्तपदी साधो सतां भवति सत्फला ॥ २० ॥
मूलम्
उवाच तं देवदूतं मधुरं निपुणं वचः
मैत्री सप्तपदी साधो सतां भवति सत्फला ॥ २० ॥
विश्वास-प्रस्तुतिः
मित्रभावं विचिन्त्य त्वं मामुपाकर्तुमर्हसि
ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम ॥ २१ ॥
मूलम्
मित्रभावं विचिन्त्य त्वं मामुपाकर्तुमर्हसि
ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम ॥ २१ ॥
विश्वास-प्रस्तुतिः
यमलोकं न पश्यन्ति कर्मणा केन मानवाः
गच्छन्ति निरयं येन तन्मे त्वं कृपया वद ॥ २२ ॥
मूलम्
यमलोकं न पश्यन्ति कर्मणा केन मानवाः
गच्छन्ति निरयं येन तन्मे त्वं कृपया वद ॥ २२ ॥
विश्वास-प्रस्तुतिः
देवदूत उवाच-
सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि साम्प्रतम्
विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते ॥ २३ ॥
मूलम्
देवदूत उवाच-
सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि साम्प्रतम्
विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते ॥ २३ ॥
विश्वास-प्रस्तुतिः
यद्यप्यवसरोनास्ति मम सेवापरस्य वै
तथापि च तव स्नेहात्प्रवक्ष्यामि यथामति ॥ २४ ॥
मूलम्
यद्यप्यवसरोनास्ति मम सेवापरस्य वै
तथापि च तव स्नेहात्प्रवक्ष्यामि यथामति ॥ २४ ॥
विश्वास-प्रस्तुतिः
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा
परपीडां न कुर्वन्ति न ते यान्ति यमालयम् ॥ २५ ॥
मूलम्
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा
परपीडां न कुर्वन्ति न ते यान्ति यमालयम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः
कथञ्चित्स्वर्गतिं यान्ति पुरुषाः प्राणिहिंसकाः ॥ २६ ॥
मूलम्
न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः
कथञ्चित्स्वर्गतिं यान्ति पुरुषाः प्राणिहिंसकाः ॥ २६ ॥
विश्वास-प्रस्तुतिः
अहिंसा परमो धर्मो ह्यहिंसैव परं तपः
अहिंसा परमं दानमित्याहुर्मुनयः सदा ॥ २७ ॥
मूलम्
अहिंसा परमो धर्मो ह्यहिंसैव परं तपः
अहिंसा परमं दानमित्याहुर्मुनयः सदा ॥ २७ ॥
विश्वास-प्रस्तुतिः
मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथा
आत्मौपम्येन पश्यन्ति मानवा ये दयालवः ॥ २८ ॥
मूलम्
मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथा
आत्मौपम्येन पश्यन्ति मानवा ये दयालवः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तप्ताङ्गारमयस्कीलं मादम्प्रेतरङ्गिणीम्
दुर्गतिं नैव गच्छन्ति कृतान्तस्य च ते नराः ॥ २९ ॥
मूलम्
तप्ताङ्गारमयस्कीलं मादम्प्रेतरङ्गिणीम्
दुर्गतिं नैव गच्छन्ति कृतान्तस्य च ते नराः ॥ २९ ॥
विश्वास-प्रस्तुतिः
भूतानि येऽत्र हिंसन्ति जलस्थलचराणि च
जीवनार्थं च ते यान्ति कालसूत्रं च दुर्गतिम् ॥ ३० ॥
मूलम्
भूतानि येऽत्र हिंसन्ति जलस्थलचराणि च
जीवनार्थं च ते यान्ति कालसूत्रं च दुर्गतिम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
श्वमांसभोजनास्तत्र पूयशोणितपायिनः
मज्जन्तश्च वसापङ्के दष्टाः कीटैरधोमुखैः ॥ ३१ ॥
मूलम्
श्वमांसभोजनास्तत्र पूयशोणितपायिनः
मज्जन्तश्च वसापङ्के दष्टाः कीटैरधोमुखैः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
परस्परं च खादन्तो ध्वान्ते चान्योन्य घातिनः
वसन्ति कल्पानेकांस्ते रुदन्तो दारुणं रवम् ॥ ३२ ॥
मूलम्
परस्परं च खादन्तो ध्वान्ते चान्योन्य घातिनः
वसन्ति कल्पानेकांस्ते रुदन्तो दारुणं रवम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु ते
ततोच्छन्ति ते क्रूरास्तिर्यग्योनि शतेषु च ॥ ३३ ॥
मूलम्
कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु ते
ततोच्छन्ति ते क्रूरास्तिर्यग्योनि शतेषु च ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पश्चाद्भवन्ति जातान्धाः काणाः कुब्जाश्च पङ्गवः
दरिद्राश्चाङ्गहीनाश्च मानुषाः प्राणिहिंसकाः ॥ ३४ ॥
मूलम्
पश्चाद्भवन्ति जातान्धाः काणाः कुब्जाश्च पङ्गवः
दरिद्राश्चाङ्गहीनाश्च मानुषाः प्राणिहिंसकाः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा
लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत् ॥ ३५ ॥
मूलम्
तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा
लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
लोकद्वयेन विन्दन्ति सुखानि प्राणिहिंसकाः
येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित् ॥ ३६ ॥
मूलम्
लोकद्वयेन विन्दन्ति सुखानि प्राणिहिंसकाः
येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्रविशन्ति यथा नद्यः समुद्रमृजुवक्रगाः
सर्वे धर्मा अहिंसायां प्रविशन्ति तथा दृढम् ॥ ३७ ॥
मूलम्
प्रविशन्ति यथा नद्यः समुद्रमृजुवक्रगाः
सर्वे धर्मा अहिंसायां प्रविशन्ति तथा दृढम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
अभयं येन भूतेभ्यो दत्तमत्र विंशांवर ॥ ३८ ॥
मूलम्
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
अभयं येन भूतेभ्यो दत्तमत्र विंशांवर ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ये नियोगांश्च शास्त्रोक्तान्धर्माधर्म विमिश्रितान्
पालयन्तीह ये वैश्य न ते यान्ति यमालयम् ॥ ३९ ॥
मूलम्
ये नियोगांश्च शास्त्रोक्तान्धर्माधर्म विमिश्रितान्
पालयन्तीह ये वैश्य न ते यान्ति यमालयम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा
स्वधर्मनिरताः सर्वे नाकपृष्ठे वसन्ति ते ॥ ४० ॥
मूलम्
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा
स्वधर्मनिरताः सर्वे नाकपृष्ठे वसन्ति ते ॥ ४० ॥
विश्वास-प्रस्तुतिः
यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः
नरा जितेन्द्रिया यान्ति ब्रह्मलोकं तु शाश्वतम् ॥ ४१ ॥
मूलम्
यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः
नरा जितेन्द्रिया यान्ति ब्रह्मलोकं तु शाश्वतम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
इष्टापूर्तरता ये च पञ्चयज्ञरताश्च ये
दयान्विताश्च ये नित्यं नेक्षन्ते ते यमालयम् ॥ ४२ ॥
मूलम्
इष्टापूर्तरता ये च पञ्चयज्ञरताश्च ये
दयान्विताश्च ये नित्यं नेक्षन्ते ते यमालयम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
इन्द्रियार्थनिवृत्ता ये समर्था वेदवादिनः
अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ ४३ ॥
मूलम्
इन्द्रियार्थनिवृत्ता ये समर्था वेदवादिनः
अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः
आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः ॥ ४४ ॥
मूलम्
अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः
आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अनाथ स्त्री द्विजार्थे च शरणागतपालने
प्राणांस्त्यजन्ति ये वैश्य न च्यवन्ति दिवस्तु ते ॥ ४५ ॥
मूलम्
अनाथ स्त्री द्विजार्थे च शरणागतपालने
प्राणांस्त्यजन्ति ये वैश्य न च्यवन्ति दिवस्तु ते ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पङ्ग्वन्धबालवृद्धांश्च रोग्यनाथदरिद्रितान्
ये पुष्णन्ति सदा वैश्य ते मोदन्ति सदा दिवि ॥ ४६ ॥
मूलम्
पङ्ग्वन्धबालवृद्धांश्च रोग्यनाथदरिद्रितान्
ये पुष्णन्ति सदा वैश्य ते मोदन्ति सदा दिवि ॥ ४६ ॥
विश्वास-प्रस्तुतिः
गां दृष्ट्वा पङ्कनिर्मग्नां रोगमग्नं द्विजं तथा
उद्धरन्ति नरा ये च तेषां लोकोऽश्वमेधिनाम् ॥ ४७ ॥
मूलम्
गां दृष्ट्वा पङ्कनिर्मग्नां रोगमग्नं द्विजं तथा
उद्धरन्ति नरा ये च तेषां लोकोऽश्वमेधिनाम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
गोग्रासं ये प्रयच्छन्ति ये शुश्रूषन्ति गाः सदा
येनारोहन्ति गोपृष्ठे ते स्वर्लोकनिवासिनः ॥ ४८ ॥
मूलम्
गोग्रासं ये प्रयच्छन्ति ये शुश्रूषन्ति गाः सदा
येनारोहन्ति गोपृष्ठे ते स्वर्लोकनिवासिनः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
गर्तमात्रं तु ये चक्रुर्यत्र गौरतृषा भवेत्
यमलोकमदृष्ट्वैव ते यान्ति स्वर्गतिं नराः ॥ ४९ ॥
मूलम्
गर्तमात्रं तु ये चक्रुर्यत्र गौरतृषा भवेत्
यमलोकमदृष्ट्वैव ते यान्ति स्वर्गतिं नराः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अग्निपूजा देवपूजा गुरुपूजा रताश्च ये
द्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः ॥ ५० ॥
मूलम्
अग्निपूजा देवपूजा गुरुपूजा रताश्च ये
द्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः ॥ ५० ॥
विश्वास-प्रस्तुतिः
वापीकूपतडागादौ धर्मस्यान्तो न विद्यते
पिबन्ति स्वेच्छया यत्र जलस्थल चरास्तदा ॥ ५१ ॥
मूलम्
वापीकूपतडागादौ धर्मस्यान्तो न विद्यते
पिबन्ति स्वेच्छया यत्र जलस्थल चरास्तदा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि
यथायथा च पानीयं पिबन्ति प्राणिनो भृशम् ॥ ५२ ॥
मूलम्
नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि
यथायथा च पानीयं पिबन्ति प्राणिनो भृशम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तथातथाऽक्षयः स्वर्गो धर्मबुद्ध्या विशां वर
प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः ॥ ५३ ॥
मूलम्
तथातथाऽक्षयः स्वर्गो धर्मबुद्ध्या विशां वर
प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
नित्यस्नानेन पूयन्ते येऽपि पातकिनो नराः
प्रातःस्नानं हरेद्वैश्य बाह्माभ्यन्तरजं मलम् ॥ ५४ ॥
मूलम्
नित्यस्नानेन पूयन्ते येऽपि पातकिनो नराः
प्रातःस्नानं हरेद्वैश्य बाह्माभ्यन्तरजं मलम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत्
स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः ॥ ५५ ॥
मूलम्
प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत्
स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
अस्नायी यो नरस्तस्य विमुखा पितृदेवताः
स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः ॥ ५६ ॥
मूलम्
अस्नायी यो नरस्तस्य विमुखा पितृदेवताः
स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अस्नायी नरकं भुङ्क्ते पुंस्कीटादिषु जायते
ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि ॥ ५७ ॥
मूलम्
अस्नायी नरकं भुङ्क्ते पुंस्कीटादिषु जायते
ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि ॥ ५७ ॥
विश्वास-प्रस्तुतिः
ते नैव नरकं यान्ति न जायन्ते कुयोनिषु
दुःस्वप्ना दुष्टचिन्ताश्च वन्ध्या भवन्ति सर्वदा ॥ ५८ ॥
मूलम्
ते नैव नरकं यान्ति न जायन्ते कुयोनिषु
दुःस्वप्ना दुष्टचिन्ताश्च वन्ध्या भवन्ति सर्वदा ॥ ५८ ॥
विश्वास-प्रस्तुतिः
प्रातःस्नानेन शुद्धानां पुरुषाणां विशांवर
तिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि ॥ ५९ ॥
मूलम्
प्रातःस्नानेन शुद्धानां पुरुषाणां विशांवर
तिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि ॥ ५९ ॥
विश्वास-प्रस्तुतिः
दत्त्वा प्रेतपतेर्भूमौ न व्रजन्ति नराः क्वचित्
पृथिवीं काञ्चनं गां च दत्वा दानानि षोडश ॥ ६० ॥
मूलम्
दत्त्वा प्रेतपतेर्भूमौ न व्रजन्ति नराः क्वचित्
पृथिवीं काञ्चनं गां च दत्वा दानानि षोडश ॥ ६० ॥
विश्वास-प्रस्तुतिः
गत्वा न विनिवर्तन्ते स्वर्गलोकाद्विकुण्डल
पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च सङ्क्रमे ॥ ६१ ॥
मूलम्
गत्वा न विनिवर्तन्ते स्वर्गलोकाद्विकुण्डल
पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च सङ्क्रमे ॥ ६१ ॥
विश्वास-प्रस्तुतिः
स्नात्वा दत्त्वा च यत्किञ्चिन्नैव मज्जति दुर्गतौ
नैवाक्रामन्ति दातारो दारुणं रौरवं पथम्
इहलोके न जायन्ते कुले धनविवर्जिते ॥ ६२ ॥
मूलम्
स्नात्वा दत्त्वा च यत्किञ्चिन्नैव मज्जति दुर्गतौ
नैवाक्रामन्ति दातारो दारुणं रौरवं पथम्
इहलोके न जायन्ते कुले धनविवर्जिते ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सत्यवादी सदा मौनी प्रियवादी च यो नरः
अक्रोधनः समाचारो नातिवाद्यनसूयकः ॥ ६३ ॥
मूलम्
सत्यवादी सदा मौनी प्रियवादी च यो नरः
अक्रोधनः समाचारो नातिवाद्यनसूयकः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सदा दाक्षिण्यसम्पन्नः सदा भूतदयान्वितः
गोप्ता च परमर्माणां वक्ता परगुणस्य च ॥ ६४ ॥
मूलम्
सदा दाक्षिण्यसम्पन्नः सदा भूतदयान्वितः
गोप्ता च परमर्माणां वक्ता परगुणस्य च ॥ ६४ ॥
विश्वास-प्रस्तुतिः
परस्वं तृणमात्रं च मनसापि न यो हरेत्
न पश्यन्ति विशांश्रेष्ठ ह्येते नरकयातनाम् ॥ ६५ ॥
मूलम्
परस्वं तृणमात्रं च मनसापि न यो हरेत्
न पश्यन्ति विशांश्रेष्ठ ह्येते नरकयातनाम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
परापवादी पाखण्डः पापेभ्योऽपि मतोऽधिकः
पच्यते नरके तावद्यावदाभूतसम्प्लवम् ॥ ६६ ॥
मूलम्
परापवादी पाखण्डः पापेभ्योऽपि मतोऽधिकः
पच्यते नरके तावद्यावदाभूतसम्प्लवम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
वक्ता परुषवाक्यानां मन्तव्यो नरकागतः
सन्देहो न विशांश्रेष्ठ पुनर्याति च दुर्गतिम् ॥ ६७ ॥
मूलम्
वक्ता परुषवाक्यानां मन्तव्यो नरकागतः
सन्देहो न विशांश्रेष्ठ पुनर्याति च दुर्गतिम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिः
सहते यातनां घोरां स नरो नरके चिरम् ॥ ६८ ॥
मूलम्
न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिः
सहते यातनां घोरां स नरो नरके चिरम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः
जितेन्द्रियो जिताहारो न स याति यमालयम् ॥ ६९ ॥
मूलम्
पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः
जितेन्द्रियो जिताहारो न स याति यमालयम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम्
तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥ ७० ॥
मूलम्
न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम्
तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥ ७० ॥
विश्वास-प्रस्तुतिः
दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः
तीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत् ॥ ७१ ॥
मूलम्
दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः
तीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
सकृद्गङ्गाम्भसि स्नातः पूतो गाङ्गेयवारिणा
न नरो नरकं याति अपि पातकराशिकृत् ॥ ७२ ॥
मूलम्
सकृद्गङ्गाम्भसि स्नातः पूतो गाङ्गेयवारिणा
न नरो नरकं याति अपि पातकराशिकृत् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
व्रतदानतपो यज्ञाः पवित्राणीतराणि च
गङ्गाबिन्द्वभिषिक्तस्य न समा इति नः श्रुतम् ॥ ७३ ॥
मूलम्
व्रतदानतपो यज्ञाः पवित्राणीतराणि च
गङ्गाबिन्द्वभिषिक्तस्य न समा इति नः श्रुतम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
अन्यतीर्थसमां गङ्गां यो ब्रवीति नराधमः
स याति नरकं वैश्य दारुणं रौरवं महत् ॥ ७४ ॥
मूलम्
अन्यतीर्थसमां गङ्गां यो ब्रवीति नराधमः
स याति नरकं वैश्य दारुणं रौरवं महत् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
धर्मद्रवं ह्यपां बीजं वैकुण्ठचरणच्युतम्
धृतं मूर्ध्नि महेशेन यद्गाङ्गममलं जलम् ॥ ७५ ॥
मूलम्
धर्मद्रवं ह्यपां बीजं वैकुण्ठचरणच्युतम्
धृतं मूर्ध्नि महेशेन यद्गाङ्गममलं जलम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
तद्ब्रह्मैव न सन्देहो निर्गुणं प्रकृतेः परम्
तेन किं समतां गच्छेदपि ब्रह्माण्डगोचरे ॥ ७६ ॥
मूलम्
तद्ब्रह्मैव न सन्देहो निर्गुणं प्रकृतेः परम्
तेन किं समतां गच्छेदपि ब्रह्माण्डगोचरे ॥ ७६ ॥
विश्वास-प्रस्तुतिः
गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
नरो न नरकं याति किं तया सदृशं भवेत्
नान्येन दह्यते सद्यः क्रिया नरकदायिनी ॥ ७७ ॥
मूलम्
गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
नरो न नरकं याति किं तया सदृशं भवेत्
नान्येन दह्यते सद्यः क्रिया नरकदायिनी ॥ ७७ ॥
विश्वास-प्रस्तुतिः
गङ्गाम्भसि प्रयत्नेन स्नातव्यं तेन मानवैः
प्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन्
स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि ॥ ७८ ॥
मूलम्
गङ्गाम्भसि प्रयत्नेन स्नातव्यं तेन मानवैः
प्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन्
स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि ॥ ७८ ॥
विश्वास-प्रस्तुतिः
गामुद्धरन्ति ये पङ्काद्ये रक्षन्ति च रोगिणः
म्रियन्ते गोगृहे ये च तेषां नभसि तारकाः
यमलोकं न पश्यन्ति प्राणायामपरायणाः ॥ ७९ ॥
मूलम्
गामुद्धरन्ति ये पङ्काद्ये रक्षन्ति च रोगिणः
म्रियन्ते गोगृहे ये च तेषां नभसि तारकाः
यमलोकं न पश्यन्ति प्राणायामपरायणाः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः
दिवसे दिवसे वैश्य प्राणायामास्तु षोडश
अपि ब्रह्महणं साक्षात्पुनन्त्यहरहः कृताः ॥ ८० ॥
मूलम्
अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः
दिवसे दिवसे वैश्य प्राणायामास्तु षोडश
अपि ब्रह्महणं साक्षात्पुनन्त्यहरहः कृताः ॥ ८० ॥
विश्वास-प्रस्तुतिः
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये
गोसहस्रप्रदानं च प्राणायामस्तु तत्समः ॥ ८१ ॥
मूलम्
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये
गोसहस्रप्रदानं च प्राणायामस्तु तत्समः ॥ ८१ ॥
विश्वास-प्रस्तुतिः
अब्बिन्दुं यः कुशाग्रेण मासेमासे नरः पिबेत्
संवत्सरशतं साग्रं प्राणायामस्तु तत्समः ॥ ८२ ॥
मूलम्
अब्बिन्दुं यः कुशाग्रेण मासेमासे नरः पिबेत्
संवत्सरशतं साग्रं प्राणायामस्तु तत्समः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
पातकं तु महद्यच्च तथा क्षुद्रोपपातकम्
प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः ॥ ८३ ॥
मूलम्
पातकं तु महद्यच्च तथा क्षुद्रोपपातकम्
प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
मातृवत्परदारान्ये मन्यन्ते वै नरोत्तमाः
न ते यान्ति नरश्रेष्ठ कदाचिद्यम यातनाम् ॥ ८४ ॥
मूलम्
मातृवत्परदारान्ये मन्यन्ते वै नरोत्तमाः
न ते यान्ति नरश्रेष्ठ कदाचिद्यम यातनाम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
मनसापि परेषां यः कलत्राणि न सेवते
सह लोकद्वये नास्ति तेन वैश्य धरा धृता ॥ ८५ ॥
मूलम्
मनसापि परेषां यः कलत्राणि न सेवते
सह लोकद्वये नास्ति तेन वैश्य धरा धृता ॥ ८५ ॥
विश्वास-प्रस्तुतिः
तस्माद्धर्मान्वितैस्त्याज्यं परदारोपसेवनम्
नयन्ति परदारास्तु नरकानेकविंशतिम् ॥ ८६ ॥
मूलम्
तस्माद्धर्मान्वितैस्त्याज्यं परदारोपसेवनम्
नयन्ति परदारास्तु नरकानेकविंशतिम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
लोभो न जायते येषां परदारेषु मानसे
ते यान्ति देवलोकं तु न यमं वैश्यसत्तम ॥ ८७ ॥
मूलम्
लोभो न जायते येषां परदारेषु मानसे
ते यान्ति देवलोकं तु न यमं वैश्यसत्तम ॥ ८७ ॥
विश्वास-प्रस्तुतिः
शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते
जितस्वर्गः स मन्तव्यः पुरुषोऽक्रोधनो भुवि ॥ ८८ ॥
मूलम्
शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते
जितस्वर्गः स मन्तव्यः पुरुषोऽक्रोधनो भुवि ॥ ८८ ॥
विश्वास-प्रस्तुतिः
मातरं पितरं पुत्र आराधयति देववत्
अप्राप्ते वार्द्धके काले न याति च यमालयम् ॥ ८९ ॥
मूलम्
मातरं पितरं पुत्र आराधयति देववत्
अप्राप्ते वार्द्धके काले न याति च यमालयम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
पितुश्चाधिकभावेन येऽर्चयन्ति गुरुं नराः
भवन्त्यतिथयो लोके ब्रह्मणस्ते विशांवर ॥ ९० ॥
मूलम्
पितुश्चाधिकभावेन येऽर्चयन्ति गुरुं नराः
भवन्त्यतिथयो लोके ब्रह्मणस्ते विशांवर ॥ ९० ॥
विश्वास-प्रस्तुतिः
इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात्
शीलभङ्गे च नारीणां यमलोकः सुदारुणः ॥ ९१ ॥
मूलम्
इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात्
शीलभङ्गे च नारीणां यमलोकः सुदारुणः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसङ्गविवर्जनात्
शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ॥ ९२ ॥
मूलम्
शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसङ्गविवर्जनात्
शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च
दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः ॥ ९३ ॥
मूलम्
शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च
दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
विचारयन्ति ये शास्त्रं वेदाभ्यासरताश्च ये
पुराणं संहितां ये च श्रावयन्ति पठन्ति च ॥ ९४ ॥
मूलम्
विचारयन्ति ये शास्त्रं वेदाभ्यासरताश्च ये
पुराणं संहितां ये च श्रावयन्ति पठन्ति च ॥ ९४ ॥
विश्वास-प्रस्तुतिः
व्याकुर्वन्ति स्मृतिर्ये च ये धर्मप्रतिबोधकाः
वेदान्तेषु निषण्णा ये तैरियं जगती धृता ॥ ९५ ॥
मूलम्
व्याकुर्वन्ति स्मृतिर्ये च ये धर्मप्रतिबोधकाः
वेदान्तेषु निषण्णा ये तैरियं जगती धृता ॥ ९५ ॥
विश्वास-प्रस्तुतिः
तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः
गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥ ९६ ॥
मूलम्
तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः
गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥ ९६ ॥
विश्वास-प्रस्तुतिः
ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम्
अपि वेदास्तमर्चन्ति भवबन्धविदारणम् ॥ ९७ ॥
मूलम्
ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम्
अपि वेदास्तमर्चन्ति भवबन्धविदारणम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम
सम्मतं धर्मराजस्य सर्वलोकामृतप्रदम् ॥ ९८ ॥
मूलम्
श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम
सम्मतं धर्मराजस्य सर्वलोकामृतप्रदम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
न यमं यमलोकं च न भूतान्घोरदर्शनान्
पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥ ९९ ॥
मूलम्
न यमं यमलोकं च न भूतान्घोरदर्शनान्
पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥ ९९ ॥
प्राहास्मान्यमुना भ्राता सदैव हि पुनःपुनः
भवद्भिर्वैष्णवास्त्याज्या न ते स्युर्ममगोचराः १००
स्मरन्ति ये सकृद्भूताः प्रसङ्गेनापि केशवम्
ते विध्वस्ताखिलाघौघा यान्ति विष्णोः परं पदम् १०१
दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः
भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः १०२
वैष्णवो यद्गृहे भुङ्क्ते येषां वैष्णवसङ्गतिः
तेऽपि वः परिवार्याः स्युस्तत्सङ्गहतकिल्बिषाः १०३
इत्थं वैश्यानुशास्त्यस्मान्देवो दण्डधरः सदा
अतो नो वैष्णवा यान्ति राजधानीं यमस्य तु १०४
विष्णुभक्तिं विना नॄणां पापिष्ठानां विशां वर
उपायो नास्ति नास्त्यन्यः सन्तर्तुं नरकाम्बुधिम् १०५
श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम्
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् १०६
एतावता लमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम्
विक्रुश्य पुत्र मघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् १०७
नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये
तदैव यान्ति ते स्वर्गं यदार्चन्ति मुदा हरिम् १०८
विष्णुभक्तस्य ये दासा वैष्णवान्न भुजश्च ये
ते तु क्रतुभुजां वैश्य गतिं यान्ति निराकुलाः १०९
प्रार्थर्यद्वैष्णवस्यान्नं प्रयत्नेन विचक्षणः
सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत् ११०
गोविन्देति जपन्मन्त्रं कुत्रचिन्म्रियते यदि
स नरो न यमं पश्येत्तं च नेक्षामहे वयम् १११
साङ्गं समुद्रं सध्यानं सऋषिः छन्ददैवतम्
दीक्षयाविधिवन्मन्त्रं जपेद्वै द्वादशाक्षरम् ११२
अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः
तान्दृष्ट्वा ब्रह्महा शुद्ध्यद्भ्राजते विष्णुवत्स्वयम् ११३
शङ्खिनश्चक्रिणो भूत्वा ब्रह्माभ्यन्तरगामिनः
वसन्ति वैष्णवे लोके विष्णुरूपेण ते नराः ११४
हृदि सूर्ये जले वाथ प्रतिमा स्थण्डिलेपि च
समभ्यर्च्य हरिं यान्ति नरास्तद्वैष्णवं पदम् ११५
अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः
शालग्रामे मणौ चक्रे वज्रकीटविनिर्मिते ११६
अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम्
सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् ११७
यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे
राजसूयसहस्रेण तेनेष्टं प्रतिवासरे ११८
सदामनन्ति वेदान्ता ब्रह्मनिर्वाणमच्युतम्
तत्प्रसादो भवेन्नॄणां शालग्रामशिलार्चनात् ११९
महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाशते
यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते १२०
अपि पापसमाचाराः कर्मण्यनधिकारिणः
शालग्रामार्चका वैश्य नैव यान्ति यमालयम् १२१
न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः
शालग्रामशिलाचक्रे यथा स रमते सदा १२२
अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा
येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे १२३
शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः
विधिवत्पूजिता येन तस्य पुण्यं वदामि ते १२४
कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः
यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत् १२५
यः पुनः पूजयेद्भक्त्या शालग्रामशिला शतम्
उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते १२६
कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमः
सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात् १२७
यः पूजयेच्च गोविन्दं शालग्रामे मुदा नरः
आभूतसम्प्लवं यावन्न स प्रच्यवते दिवः १२८
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम्
मुक्तिं यान्ति नरा वैश्य शालग्रामशिलार्चनात् १२९
नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम्
न याति वैश्य पापोऽपि शालग्रामशिलार्चकः १३०
दीक्षाविधान मन्त्रज्ञो यश्चक्रे बलिमाहरेत्
गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः १३१
निवसन्ति हिताः सर्वाः शालग्रामशिला जले
नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः १३२
गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम्
कुरुते मानवो यस्तु कलौ भक्तिपरायणः १३३
कल्पकोटिसहस्राणि रमते सन्निधौ हरेः
लिङ्गैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः १३४
शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम्
सकृदभ्यर्चिते लिङ्गे शालग्रामशिलोद्भवे १३५
मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः
शालग्रामशिलारूपी यत्र तिष्ठति केशवः १३६
तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश
शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः १३७
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि
ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् १३८
पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम्
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् १३९
तोयं यदि पिबेत्पुण्यं शालग्रामशिलाङ्गजम्
शालग्राम शिला यत्र तत्तीर्थं योजनत्रयम् १४०
तत्र दानं च होमं च सर्वं कोटिगुणं भवेत्
शालग्रामशिला तोयं यः पिबेद्बिन्दुना समम् १४१
मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरः
शालग्राम समीपे तु क्रोशमात्रं समन्ततः १४२
कीटकोपि मृतो याति वैकुण्ठं भवनं परम्
शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् १४३
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम्
शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः १४४
विक्रेता चानुमन्ता यः परीक्षासु च मोदते
ते सर्वे नरकं यान्ति यावदाभूतसम्प्लवम् १४५
ततः संवर्जयेद्वैश्य चक्रस्य क्रयविक्रयम्
बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा १४६
स्मरणं वासुदेवस्य सर्वपापहरं हरेः
तपस्तप्त्वा नरो घोरमरण्ये नियतेन्द्रियः १४७
यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम्
कृत्वापि बहुशः पापं नरो मोहसमन्वितः १४८
न याति नरकं गत्वा सर्वपापहरं हरिम्
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च १४९
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात्
देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः १५०
न तेषां यमसालोक्यं न ते स्युर्नरकौकसः
वैष्णवः पुरुषो वैश्य शिवनिन्दां करोति यः १५१
न विन्देद्वैष्णवं लोकं स याति नरकं महत्
उपोष्यैकादशीमेकां प्रसङ्गेनापि मानवः १५२
न याति यातनां यामीमिति लोमशतः श्रुतम्
नेदृशं पावनं किञ्चित्त्रिषु लोकेषु विद्यते १५३
उभयं पद्मनाभस्य दिनं पातकनाशनम्
तावत्पापानि देहेऽस्मिन्वसन्तीह विशांवर १५४
यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम्
अश्वमेधसहस्राणि राजसूयशतानि च १५५
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्
एकादशेन्द्रियैः पापं यत्कृतं वैश्य मानवैः १५६
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत्
एकादशीसमं किञ्चित्पुण्यं लोके न विद्यते १५७
व्याजेनापि कृता यैस्तु वशं यान्ति न भास्करेः
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी १५८
सुकलत्रप्रदा ह्येषा जीवत्पुत्रप्रदायिनी
न गङ्गा न गया वैश्य न काशी न च पुष्करम् १५९
न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु
यमुना चन्द्रभागा न तुल्या हरिदिनेन तु १६०
अनायासेन येनात्र प्राप्यते वैष्णवं पदम्
रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिने १६१
दश वै पैतृके पक्षे मातृके दश पूर्वजाः
प्रियाया दश ये वैश्य तानुद्धरति निश्चितम् १६२
द्वन्द्वसङ्ग परित्यक्ता नागारि कृतकेतनाः
स्रग्विणः पीतवसनाः प्रयान्ति हरिमन्दिरम् १६३
बालत्वे यौवने वापि वार्द्धके वा विशांवर
उपोष्यैकादशीं नूनं नैति पापोऽतिदुर्गतिम् १६४
उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम्
दत्वा हेमतिलान्गाश्च स्वर्गं यान्तीह मानवाः १६५
तीर्थे स्नान्ति न ये वैश्य न दत्तं काञ्चनं च यैः
नैव तप्तं तपः किञ्चित्ते स्युः सर्वत्र दुःखिताः १६६
सङ्क्षिप्य कथितं धर्मं नरकस्य निरूपणम्
अद्रोहः सर्वभूतेषु वाङ्मनः काय कर्मभिः १६७
इन्द्रियाणां निरोधश्च दानं च हरिसेवनम्
वर्णाश्रमक्रियाणां च पालनं विधितः सदा १६८
स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेत्
यथाशक्ति तथा दद्यादात्मनो हितकाम्यया १६९
उपानद्वस्त्रमन्नानि पत्रं मूलं फलं जलम्
अवन्ध्यं दिवसं कार्य्यं दरिद्रेणापि वैश्यक १७०
इहलोके परे चैव न दत्तं नोपतिष्ठते
दातारो नैव पश्यन्ति तां तां वै यमयातनाम् १७१
दीर्घायुषो धनाढ्याश्च भवन्तीह पुनःपुनः
किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम् १७२
आरोहन्ति दिवं धर्मे नराः सर्वत्र सर्वदा १७३
तेन बालत्वमारभ्य कर्तव्यो धर्मसङ्ग्रहः
इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि १७४
विकुण्डल उवाच-
श्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे
गङ्गोदं पापहं सद्यः पापहारि सतां वचः १७५
उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम्
शीतांशुः क्रियते केन शीतलोऽमृतमण्डलः १७६
देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः
नरकान्निष्कृतिः सद्यो भ्रातुर्मे जायते कथम् १७७
इति तस्य वचः श्रुत्वा देवदूतो जगाद ह
ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्री रज्जुबन्धनः १७८
यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि सञ्चितम्
तद्भ्रात्रे दीयतां सर्वं स्वर्गं तस्य यदीच्छसि १७९
विकुण्डल उवाच-
किं तत्पुण्यं कथं जातं किं जन्म च पुरातनम्
तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरम् १८०
देवदूत उवाच-
शृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम्
पुरा मधुवने पुण्ये ऋषिरासीच्च शाकुनिः १८१
तपोऽध्ययन सम्पन्नस्तेजसां ब्रह्मणा समः
जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव १८२
ध्रुवः शीलो बुधस्तारो ज्योतिष्मानुत पञ्चमः
अग्निहोत्ररता ह्येते गृहधर्मेषु रेमिरे १८३
निर्मोहो जितकामश्च ध्यानकोशो गुणाधिकः
एते गृहविरक्ताश्च चत्वारो द्विजसूनवः १८४
चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाः
ग्रामैकवासिनः सर्वे निःसङ्गा निष्परिग्रहाः १८५
निराशा निष्प्रयत्नाश्च सम लोष्टाश्मकाञ्चनाः
येनकेनचिदाच्छन्ना येनकेनचिदाशिताः १८६
सायङ्ग्रहास्तथा नित्यं विष्णुध्यानपरायणाः
जितनिद्रा जिताहारा वातशीतसहिष्णवः १८७
पश्यन्तो विष्णुरूपेण जगत्सर्वं चराचरम्
चरन्ति लीलया पृथ्वद्यन्तेऽन्योन्यं मौनमास्थिताः १८८
न कुर्वन्ति क्रियां काञ्चिदर्थमात्रं हि योगिनः
दृष्टज्ञाना असन्देहाश्चिद्विकार विशारदाः १८९
एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि
तिष्ठतो मध्यदेशेषु पुत्रदारकुटुम्बिनः १९०
गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः
वैश्वदेवान्तरे काले त्वया दृष्टा गृहाङ्गणे १९१
सगद्गदं साश्रुनेत्रं सहर्षं च ससम्भ्रमम्
दण्डवत्प्रणिपातेन बहुमानपुरःसरम् १९२
प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिम्
तदाभिनन्दिताः सर्वे तया सूनृतया गिरा १९३
अद्य मे सफलं जन्म जीवितं सफलं तथा
अद्य विष्णुः प्रसन्नो मे सनाथोऽद्यास्मि पावनः १९४
धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुम्बिनः
ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम् १९५
यद्दृष्टौ भवतां पादौ तापत्रयहरौ मया
भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव १९६
एवं सम्पूज्य कृत्वा तु पादप्रक्षालनं तथा
धृतं मूर्ध्नि विशांश्रेष्ठ श्रद्धया परया तदा १९७
यत्र पादोदकं वैश्य श्रद्धया शिरसा धृतम्
गन्धपुष्पाक्षतैर्धूपैर्दीपैर्भावपुरःसरम् १९८
सम्पूज्य सुन्दरान्नेन भोजिता यतयस्तथा
तृप्ताः परमहंसास्ते विश्रान्ता मन्दिरे निशि १९९
ध्यायन्तश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम्
तेषामातिथ्यजं पुण्यं जातं यत्ते विशांवर २००
न तद्वक्त्रसहस्रेण वक्तुं शक्नोम्यहं खलु
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः २०१
मतिमत्सु सुराः श्रेष्ठा नरेषु ब्रह्मजातयः
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः २०२
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः
अतएव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्त्रये २०३
तत्सङ्गतिर्विशांश्रेष्ठ महापातकनाशिनी
विश्रान्ता गृहिणो गेहे सन्तुष्टा ब्रह्मवेदिनः २०४
आजन्मसञ्चितं पापं नाशयन्तीक्षणेन वै
सञ्चितं यद्गृहस्थस्य पापमामरणान्तिकम् २०५
विनिर्दहति तत्सर्वमेकरात्रोषितो यतिः
स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते २०६
इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम्
हृष्टेन चेतसा भ्राता निरयात्सोऽपि निर्गतः २०७
देवैस्तु पुष्पवर्षेण पूजितौ च दिवङ्गतौ
ताभ्यां सम्पूजितः सम्यग्गतो दूतो यथागतः २०८
अखिलभुवनबोधं देवदूतस्यवाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य
स्वकृतसुकृतदानाद्भ्रातरं तारयित्वा सुरपतिवरलोकं तेन सार्द्धं जगाम २०९
इतिहासमिमं राजन्यः पठेच्छृणुयादपि
स गोसहस्रदानस्य विशोको लभते फलम् २१०
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे एकत्रिंशोऽध्यायः ३१