नारद उवाच-
विश्वास-प्रस्तुतिः
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्
पुरा कृतयुगे राजन्निषधे नगरे वरे ॥ १ ॥
मूलम्
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्
पुरा कृतयुगे राजन्निषधे नगरे वरे ॥ १ ॥
विश्वास-प्रस्तुतिः
आसीद्वैश्यः कुबेराभो नामतो हेमकुण्डलः
कुलीनः सत्क्रियो देवद्विजपावकपूजकः ॥ २ ॥
मूलम्
आसीद्वैश्यः कुबेराभो नामतो हेमकुण्डलः
कुलीनः सत्क्रियो देवद्विजपावकपूजकः ॥ २ ॥
विश्वास-प्रस्तुतिः
कृषिवाणिज्यकर्त्तासौ विविधक्रयविक्रयी
गोघोटकमहिष्यादि पशुपोषणतत्परः ॥ ३ ॥
मूलम्
कृषिवाणिज्यकर्त्तासौ विविधक्रयविक्रयी
गोघोटकमहिष्यादि पशुपोषणतत्परः ॥ ३ ॥
विश्वास-प्रस्तुतिः
पयो दधीनि तक्राणि गोमयानि तृणानि च
काष्ठानि फलमूलानि लवणाद्रा र्!दिपिप्पली ॥ ४ ॥
मूलम्
पयो दधीनि तक्राणि गोमयानि तृणानि च
काष्ठानि फलमूलानि लवणाद्रा र्!दिपिप्पली ॥ ४ ॥
विश्वास-प्रस्तुतिः
धान्यानि शाकतैलानि वस्त्राणि विविधानि च
धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा ॥ ५ ॥
मूलम्
धान्यानि शाकतैलानि वस्त्राणि विविधानि च
धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा ॥ ५ ॥
विश्वास-प्रस्तुतिः
इत्थं नानाविधैर्वैश्य उपायैरपरैस्तथा
उपार्जयामास सदा अष्टौ हाटककोटयः ॥ ६ ॥
मूलम्
इत्थं नानाविधैर्वैश्य उपायैरपरैस्तथा
उपार्जयामास सदा अष्टौ हाटककोटयः ॥ ६ ॥
विश्वास-प्रस्तुतिः
एवं महाधनः सोथ हाकर्णपलितोभवत्
पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि ॥ ७ ॥
मूलम्
एवं महाधनः सोथ हाकर्णपलितोभवत्
पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि ॥ ७ ॥
विश्वास-प्रस्तुतिः
तद्धनस्य षडंशेन धर्मकार्यं चकार सः
विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च ॥ ८ ॥
मूलम्
तद्धनस्य षडंशेन धर्मकार्यं चकार सः
विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च ॥ ८ ॥
विश्वास-प्रस्तुतिः
तडागं खानयामास विपुलं सागरोपमम्
वाप्यश्च पुष्करिण्यश्च बहुधा तेन कारिताः ॥ ९ ॥
मूलम्
तडागं खानयामास विपुलं सागरोपमम्
वाप्यश्च पुष्करिण्यश्च बहुधा तेन कारिताः ॥ ९ ॥
विश्वास-प्रस्तुतिः
वटाश्वत्थाम्रकङ्कोल जम्बू निम्बादि काननम्
स्वसत्वेन तदा चक्रे तथा पुष्पवनं शुभम् ॥ १० ॥
मूलम्
वटाश्वत्थाम्रकङ्कोल जम्बू निम्बादि काननम्
स्वसत्वेन तदा चक्रे तथा पुष्पवनं शुभम् ॥ १० ॥
विश्वास-प्रस्तुतिः
उदयास्तमनं यावदन्नपानं चकार सः
पुराद्बहिश्चतुर्दिक्षु प्रपां चक्रेऽतिशोभनाम् ॥ ११ ॥
मूलम्
उदयास्तमनं यावदन्नपानं चकार सः
पुराद्बहिश्चतुर्दिक्षु प्रपां चक्रेऽतिशोभनाम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
पुराणेषु प्रसिद्धानि यानि दानानि भूपते
ददौ तानि सधर्मात्मा नित्यं दानपरस्तदा ॥ १२ ॥
मूलम्
पुराणेषु प्रसिद्धानि यानि दानानि भूपते
ददौ तानि सधर्मात्मा नित्यं दानपरस्तदा ॥ १२ ॥
विश्वास-प्रस्तुतिः
यावज्जीवकृते पापे प्रायाश्चित्तमथाकरोत्
देवपूजापरो नित्यं नित्यं चातिथिपूजकः ॥ १३ ॥
मूलम्
यावज्जीवकृते पापे प्रायाश्चित्तमथाकरोत्
देवपूजापरो नित्यं नित्यं चातिथिपूजकः ॥ १३ ॥
विश्वास-प्रस्तुतिः
तस्येत्थं वर्त्तमानस्य सञ्जातौ द्वौ सुतौ नृप
तौ सुप्रसिद्ध नामानौ श्रीकुण्डल विकुण्डलौ ॥ १४ ॥
मूलम्
तस्येत्थं वर्त्तमानस्य सञ्जातौ द्वौ सुतौ नृप
तौ सुप्रसिद्ध नामानौ श्रीकुण्डल विकुण्डलौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम्
तत्राराध्य परं देवं गोविन्दं वरदं प्रभुम् ॥ १५ ॥
मूलम्
तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम्
तत्राराध्य परं देवं गोविन्दं वरदं प्रभुम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
तपःक्लिष्ट शरीरोऽसौ वासुदेवमनाः सदा
प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति ॥ १६ ॥
मूलम्
तपःक्लिष्ट शरीरोऽसौ वासुदेवमनाः सदा
प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति ॥ १६ ॥
विश्वास-प्रस्तुतिः
अथ तस्य सुतौ राजन्महामान समन्वितौ
तरुणौ रूपसम्पन्नौ धनगर्वेण गर्वितौ ॥ १७ ॥
मूलम्
अथ तस्य सुतौ राजन्महामान समन्वितौ
तरुणौ रूपसम्पन्नौ धनगर्वेण गर्वितौ ॥ १७ ॥
विश्वास-प्रस्तुतिः
दुःशीलौ व्यसनासक्तौ धर्मकर्माद्यदर्शकौ
न वाक्यं चागतौ मातुर्वृद्धानां वचनं तथा ॥ १८ ॥
मूलम्
दुःशीलौ व्यसनासक्तौ धर्मकर्माद्यदर्शकौ
न वाक्यं चागतौ मातुर्वृद्धानां वचनं तथा ॥ १८ ॥
विश्वास-प्रस्तुतिः
कुमार्गगौ दुरात्मानौ पितृमित्रनिषेधकौ
अधर्मनिरतौ दुष्टौ परदाराभिगामिनौ ॥ १९ ॥
मूलम्
कुमार्गगौ दुरात्मानौ पितृमित्रनिषेधकौ
अधर्मनिरतौ दुष्टौ परदाराभिगामिनौ ॥ १९ ॥
विश्वास-प्रस्तुतिः
गीतवादित्रनिरतौ वीणावेणुविनोदिनौ
वारस्त्रीशतसंयुक्तौ गायन्तौ चेरतुस्तदा ॥ २० ॥
मूलम्
गीतवादित्रनिरतौ वीणावेणुविनोदिनौ
वारस्त्रीशतसंयुक्तौ गायन्तौ चेरतुस्तदा ॥ २० ॥
विश्वास-प्रस्तुतिः
चाटुकारजनैर्युक्तौ बिम्बोष्ठीषु विशारदौ
सुवेषौ चारुवसनौ चारुचन्दनरूषितौ ॥ २१ ॥
मूलम्
चाटुकारजनैर्युक्तौ बिम्बोष्ठीषु विशारदौ
सुवेषौ चारुवसनौ चारुचन्दनरूषितौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
तथा सुगन्धिमालाढ्यौ कस्तूरीलक्ष्मलक्षितौ
नानालङ्कारशोभाढ्यौ मौक्तिकाहारहारिणौ ॥ २२ ॥
मूलम्
तथा सुगन्धिमालाढ्यौ कस्तूरीलक्ष्मलक्षितौ
नानालङ्कारशोभाढ्यौ मौक्तिकाहारहारिणौ ॥ २२ ॥
विश्वास-प्रस्तुतिः
गजवाजिरथौघेन क्रीडन्तौ तावितस्तदा
मधुपानसमायुक्तौ परस्त्रीरतिमोहितौ ॥ २३ ॥
मूलम्
गजवाजिरथौघेन क्रीडन्तौ तावितस्तदा
मधुपानसमायुक्तौ परस्त्रीरतिमोहितौ ॥ २३ ॥
विश्वास-प्रस्तुतिः
नाशयन्तौ पितृद्रव्यं सहस्रं ददतुः शतम्
तस्थतुः स्वगृहे रम्ये नित्यं भोगपरायणौ ॥ २४ ॥
मूलम्
नाशयन्तौ पितृद्रव्यं सहस्रं ददतुः शतम्
तस्थतुः स्वगृहे रम्ये नित्यं भोगपरायणौ ॥ २४ ॥
विश्वास-प्रस्तुतिः
इत्थं तु तद्धनं ताभ्यां विनियुक्तमसद्व्ययैः
वारस्त्री विट शैलूष मल्ल चारण बन्दिषु ॥ २५ ॥
मूलम्
इत्थं तु तद्धनं ताभ्यां विनियुक्तमसद्व्ययैः
वारस्त्री विट शैलूष मल्ल चारण बन्दिषु ॥ २५ ॥
विश्वास-प्रस्तुतिः
अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवोषरे
न सत्पात्रे च तद्दत्तं न ब्राह्मणमुखे हुतम् ॥ २६ ॥
मूलम्
अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवोषरे
न सत्पात्रे च तद्दत्तं न ब्राह्मणमुखे हुतम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः
उभयोरेव तद्द्रव्यमचिरेण क्षयं ययौ ॥ २७ ॥
मूलम्
नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः
उभयोरेव तद्द्रव्यमचिरेण क्षयं ययौ ॥ २७ ॥
विश्वास-प्रस्तुतिः
ततस्तौ दुःखमापन्नौ कार्पण्यं परमं गतौ
शोचमानौ तु मुह्यन्तौ क्षुत्पीडादुःखपीडितौ ॥ २८ ॥
मूलम्
ततस्तौ दुःखमापन्नौ कार्पण्यं परमं गतौ
शोचमानौ तु मुह्यन्तौ क्षुत्पीडादुःखपीडितौ ॥ २८ ॥
विश्वास-प्रस्तुतिः
तयोस्तु तिष्ठतोर्गेहे नास्ति यद्भुज्यते तदा
स्वजनैर्बान्धवैस्सर्वैः सेवकैरुपजीविभिः ॥ २९ ॥
मूलम्
तयोस्तु तिष्ठतोर्गेहे नास्ति यद्भुज्यते तदा
स्वजनैर्बान्धवैस्सर्वैः सेवकैरुपजीविभिः ॥ २९ ॥
विश्वास-प्रस्तुतिः
द्रव्याभावे परित्यक्तौ चिन्त्यमानौ ततः पुरे
पश्चाच्चौर्य्यं समारब्धं ताभ्यां च नगरे नृप ॥ ३० ॥
मूलम्
द्रव्याभावे परित्यक्तौ चिन्त्यमानौ ततः पुरे
पश्चाच्चौर्य्यं समारब्धं ताभ्यां च नगरे नृप ॥ ३० ॥
विश्वास-प्रस्तुतिः
राजतो लोकतो भीतौ स्वपुरान्निःसृतौ तदा
चक्रतुर्वनवासं तौ सर्वेषामुपपीडितौ ॥ ३१ ॥
मूलम्
राजतो लोकतो भीतौ स्वपुरान्निःसृतौ तदा
चक्रतुर्वनवासं तौ सर्वेषामुपपीडितौ ॥ ३१ ॥
विश्वास-प्रस्तुतिः
जघ्नतुः सततं मूढौ शितैर्बाणैर्विषार्पितैः
नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा ॥ ३२ ॥
मूलम्
जघ्नतुः सततं मूढौ शितैर्बाणैर्विषार्पितैः
नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
शशकाञ्छल्लकान्गोधान्श्वापदांश्चेतरान्बहून्
महाबलौ भिल्लसङ्गावाखेटकभुजौ सदा ॥ ३३ ॥
मूलम्
शशकाञ्छल्लकान्गोधान्श्वापदांश्चेतरान्बहून्
महाबलौ भिल्लसङ्गावाखेटकभुजौ सदा ॥ ३३ ॥
विश्वास-प्रस्तुतिः
एवं मांसमयाहारौ पापाहारौ परन्तप
कदाचिद्भूधरं प्राप्तो ह्येकोऽन्यश्च वनं गतः ॥ ३४ ॥
मूलम्
एवं मांसमयाहारौ पापाहारौ परन्तप
कदाचिद्भूधरं प्राप्तो ह्येकोऽन्यश्च वनं गतः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः
एकस्मिन्दिवसे राजन्पापिष्ठौ निधनं गतौ ॥ ३५ ॥
मूलम्
शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः
एकस्मिन्दिवसे राजन्पापिष्ठौ निधनं गतौ ॥ ३५ ॥
विश्वास-प्रस्तुतिः
यमदूतैस्ततोबद्ध्वा पापैर्नीतौ यमालयम्
गत्वाभिजगदुःसर्वे ते दूताः पापिनावुभौ ॥ ३६ ॥
मूलम्
यमदूतैस्ततोबद्ध्वा पापैर्नीतौ यमालयम्
गत्वाभिजगदुःसर्वे ते दूताः पापिनावुभौ ॥ ३६ ॥
विश्वास-प्रस्तुतिः
धर्मराज नरावेतावानीतौ तव शासनात्
आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् ॥ ३७ ॥
मूलम्
धर्मराज नरावेतावानीतौ तव शासनात्
आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
आलोच्य चित्रगुप्तेन तदा दूताञ्जगौ यमः
एकस्तु नीयतां वीर निरयं तीव्रवेदनम् ॥ ३८ ॥
मूलम्
आलोच्य चित्रगुप्तेन तदा दूताञ्जगौ यमः
एकस्तु नीयतां वीर निरयं तीव्रवेदनम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अपरः स्थाप्यतां स्वर्गेयत्र भोगा ह्यनुत्तमाः
कृतान्ताज्ञां ततः श्रुत्वा दूतैश्च क्षिप्रकारिभिः ॥ ३९ ॥
मूलम्
अपरः स्थाप्यतां स्वर्गेयत्र भोगा ह्यनुत्तमाः
कृतान्ताज्ञां ततः श्रुत्वा दूतैश्च क्षिप्रकारिभिः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
निक्षिप्तो रौरवे घोरे यो ज्येष्ठो हि नराधिप
तेषां दूतवरः कश्चिदुवाच मधुरं वचः ॥ ४० ॥
मूलम्
निक्षिप्तो रौरवे घोरे यो ज्येष्ठो हि नराधिप
तेषां दूतवरः कश्चिदुवाच मधुरं वचः ॥ ४० ॥
विश्वास-प्रस्तुतिः
विकुण्डल मया सार्द्धमेहि स्वर्गं ददामि ते
भुङ्क्ष्व भोगान्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा ॥ ४१ ॥
मूलम्
विकुण्डल मया सार्द्धमेहि स्वर्गं ददामि ते
भुङ्क्ष्व भोगान्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा ॥ ४१ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे त्रिंशोऽध्यायः ३०