नारदउवाच-
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र कालिन्दीतीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ १ ॥
मूलम्

पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्त्ते पृथूदके
अविमुक्ते सुवर्णाख्ये यत्फलं लभते नरः ॥ २ ॥

तत्फलं समवाप्नोति यमुनायां नरोत्तम
स्वर्गभोगेतिरागो वै येषां मनसि वर्तते ॥ ३ ॥

यमुनायां विशेषेण स्नानदानेन सत्तम
आयुरारोग्यसम्पत्तौ रूपयौवनता गुणे ॥ ४ ॥
मूलम्
यमुनायां विशेषेण स्नानदानेन सत्तम
आयुरारोग्यसम्पत्तौ रूपयौवनता गुणे ॥ ४ ॥
विश्वास-प्रस्तुतिः
येषां मनोरथस्तैस्तु न त्याज्यं यमुनाजलम्
ये बिभ्यति नरकादेर्दारिद्र्योऽत्र सन्ति च ॥ ५ ॥

सर्वथा तैः प्रयत्नेन तत्र कार्यं निमज्जनम्
दारिद्र्य पाप दौर्भाग्य पङ्क प्रक्षालनाय वै ॥ ६ ॥

ऋते वै यामुनं तोयं न चान्योस्ति युधिष्ठिर
श्रद्धाहीनानि कर्माणि मतान्यर्धफलानि वै
फलं ददाति सम्पूर्णं यामुनं स्नानमात्रतः ॥ ७ ॥

अकामो वा सकामो वा यामुने सलिले नृप
इहामुत्र च दुःखानि मज्जनान्नैव पश्यति ॥ ८ ॥

पक्षद्वये यथा चन्द्र क्षीःयते वर्द्धते तथा
पातकं नश्यते तत्र स्नानात्पुण्यं विवर्द्धते ॥ ९ ॥

यथाब्धौ सुखमायान्ति रत्नानि विविधानि च
आयुर्वित्तं कलत्राणि सम्पदः सम्भवन्ति च ॥ १० ॥

कामधेनुर्यथा कामं चिन्तामणिर्विचिन्तितम्
ददाति यमुनास्नानं तद्वत्सर्वं मनोरथम् ॥ ११ ॥

कृते तपः परं ज्ञानं त्रेतायां यजनं तथा
द्वापरे च कलौ दानं कालिन्दी सर्वदा शुभा ॥ १२ ॥

सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते
यामुने मज्जनं धर्मं धाराभिः खलु वर्षति ॥ १३ ॥

अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः
कालिन्द्यस्नायिनां नॄणां निष्फलं जन्मकीर्त्तितम् ॥ १४ ॥

नैश्वर्यं गगने यद्वच्चान्द्रे ऽमायां तु मण्डले
तद्वन्न भाति सत्कर्म यमुनामज्जनं विना ॥ १५ ॥

व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः
तत्र मज्जनमात्रेण यथा प्रीणाति केशवः ॥ १६ ॥

न समं विद्यते किञ्चित्तेजः सौरेण तेजसा
तद्वन्न यमुनास्नानं समानाः क्रतुजाः क्रियाः ॥ १७ ॥

प्रीतये वासुदेवस्य सर्वपापापनुत्तये
कालिन्द्या मज्जनं कुर्य्यात्स्वर्गलाभाय मानवः ॥ १८ ॥

किं रक्षितेन देहेन सुपुष्टेन बलीयसा
अध्रुवेण सुदेहेन यमुना मज्जनं विना ॥ १९ ॥

अस्थिस्तम्भं स्नायुबन्धं मांसक्षतज लेपनम्
चर्मावनद्ध दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥ २० ॥

जराशोक विपद्व्याप्तं रोगमन्दिरमातुरम्
रागमूलमनित्यं च सर्वदोषसमाश्रयम् ॥ २१ ॥
मूलम्
जराशोक विपद्व्याप्तं रोगमन्दिरमातुरम्
रागमूलमनित्यं च सर्वदोषसमाश्रयम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
परोपकारपापार्ति परद्रोहपरेर्षिकम्
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ॥ २२ ॥

निष्ठुरं दुर्धरं दुष्टं दोषत्रयविदूषितम्
अशुचितापि दुर्गन्धि तापत्रयविमोहितम् ॥ २३ ॥

निसर्गतो ऽधर्मरतं तृष्णाशतसमाकुलम्
कामक्रोधमहालोभ नरकद्वारसंस्थितम् ॥ २४ ॥
मूलम्
निसर्गतो ऽधर्मरतं तृष्णाशतसमाकुलम्
कामक्रोधमहालोभ नरकद्वारसंस्थितम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
कृमिवर्चस्तु भस्मादि परिणामगुणावहम्
ईदृक्शरीरं व्यर्थं हि यमुनामज्जनं विना ॥ २५ ॥

बुद्बुदा इव तोयेषु प्रत्यण्डा इव पक्षिषु
जायन्ते मरणायैव यमुनास्नान वर्जिताः ॥ २६ ॥

अवैष्णवो हतो विप्रो हतं श्राद्धमपिण्डकम्
अब्रह्मण्यं हतं क्षत्रमनाचार हतं कुलम् ॥ २७ ॥

सदम्भश्च हतो धर्मः क्रोधेनैव हतं तपः
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ २८ ॥

परभक्त्या हता नारी ब्रह्मचारी स्त्रिया हतः
अदीप्तेऽग्नौ हतो होमो हता भक्तिः समायिका ॥ २९ ॥

उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता
शूद्र भक्षो हतो योगः कृपणस्य हतं धनम् ॥ ३० ॥

अनभ्यासहता विद्या हतो बोधो विरोधकृत्
जीवितार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥ ३१ ॥

असत्या च हता वाणी तथा पैशुन्यवादिनी
षट्कर्णगो हतो मन्त्रो व्यग्रचित्तो हतो जपः ॥ ३२ ॥

हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः
अश्रद्धया हतं सर्वं यत्कृतं पारलौकिकम् ॥ ३३ ॥

इह लोको हतो नॄणां दरिद्राणां यथा नृप
मनुष्याणां हतं जन्म कालिदीमज्जनं विना ॥ ३४ ॥

उपपातक सर्वाणि पातकानि महान्ति च
भस्मी भवन्ति सर्वाणि यमुनामज्जनान्नृप ॥ ३५ ॥

वेपन्ते सर्वपापानि यमुनायां गते नरे
नाशके सर्वपापानां यदि स्नास्यति वारिणि ॥ ३६ ॥

पावका इव दीप्यन्ते यमुनायां नरोत्तमाः
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥ ३७ ॥

आर्द्र शुष्कलघुस्थूलं वाङ्मनः कर्मभिः कृतम्
तत्र स्नानं दहेत्पापं पावकः समिधो यथा ॥ ३८ ॥

प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत्
स्नानमात्रेण नश्येत यमुनायां नृपोत्तम ॥ ३९ ॥

निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धताम्
सन्देहो नात्र कर्तव्यः स्नाने वै यमुनाजले ॥ ४० ॥

सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ तथा नृप
सर्वेषां सर्वदा देवी यमुना पापनाशिका ॥ ४१ ॥

एष एव परो मन्त्र एतच्च परमं तपः
प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम् ॥ ४२ ॥

नृणां जन्मान्तराभ्यासात्कालिन्दी मज्जने मतिः
अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ॥ ४३ ॥

संसारकर्दमालेप प्रक्षालन विशारदम्
पावनं पावनानां च यमुनास्नानमुत्तमम् ॥ ४४ ॥

स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे
शुभांश्च भुञ्जते भोगांश्चन्द्र सूर्यग्रहोपमान् ॥ ४५ ॥

यमुना मोक्षदा प्रोक्ता मथुरासङ्गता यदि
मथुरायां च कालिन्दी पुण्याधिकविवर्द्धिनी ॥ ४६ ॥

अन्यत्र यमुना पुण्या महापातकहारिणी
विष्णुभक्तिप्रदा देवी मथुरा सङ्गता भवेत् ॥ ४७ ॥

भक्तिभावेन संयुक्ता कालिन्द्यां यदि मज्जयेत्
कल्पकोटिसहस्राणि वसते सन्निधौ हरेः ॥ ४८ ॥

मुक्तिं प्रयान्ति मनुजाः नूनं साङ्ख्येन वर्जिताः
पितरस्तस्य तृप्यन्ति तृप्ताः कल्पशतैर्दिवि ॥ ४९ ॥

ये पिबन्ति नरा राजन्यमुनासलिलं शुभम्
पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥ ५० ॥

कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम्
तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत् ॥ ५१ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे ऊनत्रिंशोऽध्यायः २९