०२८

नारद उवाच-

विश्वास-प्रस्तुतिः

ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम्
यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः ॥ १ ॥

मूलम्

तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम्
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ॥ २ ॥

आसप्तमं कुलं चैव पुनीते नात्र संशयः
ततो गच्छेत धर्मज्ञ कलाप वनमुत्तमम् ॥ ३ ॥

कृच्छ्रेण महता गत्वा तत्र स्नात्वा समाहितः
अग्निष्टोममवाप्नोति विष्णुलोकं च गच्छति ॥ ४ ॥

सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ५ ॥

सिद्धचारणगन्धर्वाः किन्नराः स महोरगाः
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥ ६ ॥

ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी
प्लक्षादेवी स्मृता राजन्महा पुण्या सरस्वती ॥ ७ ॥

तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥ ८ ॥

ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्
षड्गुणं यन्निपातेषु वल्मीकादिति निश्चयः ॥ ९ ॥

कपिलानां सहस्रं च वाजिमेधं च विन्दति
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः ॥ १० ॥

सुगन्धां शतकुम्भां च पञ्चयज्ञं च भारत
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ११ ॥

त्रिशूलपात्रं तत्रैव तीर्थमासाद्य दुर्लभम्
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ १२ ॥

गाणपत्यं च लभते देहं त्यक्त्वा न संशयः
ततो राजगृहं गच्छेद्देव्याः स्थानं सुदुर्लभम् ॥ १३ ॥

शाकम्भरीति विख्याता त्रिषुलोकेषु विश्रुता
दिव्यं वर्षसहस्रं च शाकेन किल भारत ॥ १४ ॥

आहारं सा कृतवती मासिमासि नराधिप
ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः ॥ १५ ॥

आतिथ्यं च कृतं तेषां शाकेन किल भारत
ततः शाकम्भरीत्येवं नाम तस्याः प्रतिष्ठितम् ॥ १६ ॥

शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः
त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः ॥ १७ ॥

शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम्
तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥ १८ ॥

ततो गच्छेत्सुवर्णाख्यं त्रिषुलोकेषु विश्रुतम्
यत्र कृष्णः प्रसादार्थं रुद्रमाराधयत्पुरा ॥ १९ ॥

वरांश्च सुबहूँल्लेभे देवैरपि स दुर्ल्लभान्
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥ २० ॥

अपि चात्माप्रियतरो लोके कृष्ण भविष्यसि
त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः ॥ २१ ॥

तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ २२ ॥

धूमावतीं ततो गच्छेत्त्रिरात्रमुषितो नरः
मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः ॥ २३ ॥

देव्यास्तु दक्षिणार्धे नरथावर्त्तो नराधिप
तत्रागत्य तु धर्मज्ञ श्रद्दधानो जितेन्द्रियः ॥ २४ ॥

महादेवप्रसादेन गच्छेत परमां गतिम्
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ २५