०२७

नारद उवाच-

विश्वास-प्रस्तुतिः

ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम्
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ १ ॥

मूलम्

ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम्
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ॥ २ ॥

ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम्
ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम् ॥ ३ ॥

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ॥ ४ ॥

यत्र मङ्कणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः
पुरा मङ्कणको राजन्कुशाग्रेणेति विश्रुतम् ॥ ५ ॥

क्षतः किल करे राजन्तस्य शाकरसोऽस्रवत्
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः ॥ ६ ॥

ननर्त किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ॥ ७ ॥

प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्
ब्रह्मादिभिस्ततो देवैर्ऋषिभिश्च तपोधनैः ॥ ८ ॥

विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ ९ ॥

ततो देवो मुनिं दृष्ट्वा हर्षाविष्टेन चेतसा
नृत्यन्तमब्रवीच्चैनं स्थिराणां हितकाम्यया ॥ १० ॥

अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥ ११ ॥

ऋषिरुवाच-
तपस्विनो धर्मपथस्थितस्य द्विजसत्तम
किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम् ॥ १२ ॥

यं दृष्ट्वा सम्प्रनृत्तोऽहं हर्षेण महता वृतः
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् ॥ १३ ॥

अहं तु विस्मयं विप्र न गच्छामीह पश्य माम्
एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा ॥ १४ ॥

अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ
तस्य भस्मक्षताद्राजन्निःसृतं हिमसन्निभम् ॥ १५ ॥

यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ॥ १६ ॥

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् ॥ १७ ॥

त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ॥ १८ ॥

त्वयि सर्वेश दृश्यन्ते सुराः शक्रादयोऽनघ
सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम् ॥ १९ ॥

त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् ॥ २० ॥

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ॥ २१ ॥

तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा
आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने ॥ २२ ॥

सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्
न तेषां दुर्लभं किञ्चिदिह लोके परत्र वा ॥ २३ ॥

गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥ २४ ॥

ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम्
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ २५ ॥

कार्तिकेयश्च भगवांस्त्रिसन्ध्यां किल भारत
सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया ॥ २६ ॥

कपालमोचनं तीर्थं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ २७ ॥

अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ
अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ २८ ॥

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ॥ २९ ॥

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ ३० ॥

पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ ३१ ॥

पृथूदकमिति ख्यातं कार्तिकेयस्य व्नृप
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ ३२ ॥

अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥ ३३ ॥

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत
अश्वमेधफलं चापि लभते स्वर्गमेव च ॥ ३४ ॥

मूलम्

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत
अश्वमेधफलं चापि लभते स्वर्गमेव च ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम्
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥ ३५ ॥

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नैव संसरणं लभेत् ॥ ३६ ॥

गीतं सनत्कुमारेण व्यासेन च महात्मना
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ॥ ३७ ॥

पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम
एतन्मेध्यं पवित्रं च पावनं च न संशयः ॥ ३८ ॥

तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः
पृथूदके नरश्रेष्ठमाहुरेवं मनीषिणः ॥ ३९ ॥

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ४० ॥

ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम्
सरस्वत्यारुणायाश्च सङ्गमं लोकविश्रुतम् ॥ ४१ ॥

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया
अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते ॥ ४२ ॥

पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः
अवकीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ ४३ ॥

विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा
व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः ॥ ४४ ॥

क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ॥ ४५ ॥

चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम्
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा ॥ ४६ ॥

तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात्
फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥ ४७ ॥

ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम्
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥ ४८ ॥

उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत्
दानं वाप्युपवासो वा सहस्रगुणितो भवेत् ॥ ४९ ॥

ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम्
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ ५० ॥

सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्
विमोचन उपस्पृश्य जितमन्युर्जितेन्द्रियः ॥ ५१ ॥

प्रतिग्रहकृतैः पापैः सर्वैः सम्परिमुच्यते
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः ॥ ५२ ॥

पुण्येन महता युक्तः स्वर्गलोके महीयते
यत्र योगीश्वरः स्थाणुः स्वयमेव वृषध्वजः ॥ ५३ ॥

तमर्चयित्वा देवेशं गमनादेव सिध्यति
तैजसं वारुणं तीर्थं दीप्यते स्वेन तेजसा ॥ ५४ ॥

यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः
सैनापत्ये च देवानामभिषिक्तो गुहस्तदा ॥ ५५ ॥

तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ ५६ ॥

सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ॥ ५७ ॥

अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति
ततो गच्छेदनरकं तीर्थसेवी नराधिप ॥ ५८ ॥

मूलम्

अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति
ततो गच्छेदनरकं तीर्थसेवी नराधिप ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्
तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीयते ॥ ५९ ॥

अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः
सान्निध्यं चैव राजेन्द्र रुद्रवेद्यां कुरुद्वह ॥ ६० ॥

अभिगम्य तु तां देवीं न दुर्गतिमवाप्नुयात्
तत्रैव च महाराज विश्वेश्वरमुमापतिम् ॥ ६१ ॥

अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः
नारायणं चाभिगम्य पद्मनाभमरिन्दम ॥ ६२ ॥

मूलम्

अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः
नारायणं चाभिगम्य पद्मनाभमरिन्दम ॥ ६२ ॥

विश्वास-प्रस्तुतिः

शोभमानो महाराज विष्णुलोकं प्रपद्यते
तीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप ॥ ६३ ॥

सर्वदुःखपरित्यक्तो द्योतते शिववत्सदा
ततस्त्वस्थिपुरं गच्छेत्तीर्थसेवी नराधिप ॥ ६४ ॥

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः
अग्निष्टोमस्य यज्ञस्य फलमाप्नोति भारत ॥ ६५ ॥

गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीयते ॥ ६६ ॥

तत्र स्नात्वा नरो राजन्ब्रह्मलोके प्रपद्यते
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥ ६७ ॥

गतिं परामवाप्नोति कुलं चैव समुद्धरेत्
ततः स्थाणुवटं गछेत्त्रिषुलोकेषु विश्रुतम् ॥ ६८ ॥

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात्
बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः ॥ ६९ ॥

बदरी भक्ष्यते यत्र त्रिरात्रोपोषितो नरः
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ॥ ७० ॥

त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥ ७१ ॥

अहोरात्रोपवासेन स्वर्गलोके महीयते
एकरात्रं समासाद्य एकरात्रोषितो नरः ॥ ७२ ॥

नियतः सत्यवादी च ब्रह्मलोके महीयते
तथा गछेच्च राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ ७३ ॥

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ॥ ७४ ॥

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ॥ ७५ ॥

सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः
ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप ॥ ७६ ॥

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्
यत्र सारस्वतो यातः सिद्धिं स तपसोनिधिः ॥ ७७ ॥

तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत्
सारस्वतीं मतिं चैव लभते नात्र संशयः ॥ ७८ ॥

ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया
त्रिरात्रमुषितो राजन्नुपवासपरायणः ॥ ७९ ॥

लभेत्कन्याशतं दिव्यं बह्मलोकं च गच्छति
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहितीमपि ॥ ८० ॥

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
मासि मासि समेष्यन्ति पुण्येन महतान्विताः ॥ ८१ ॥

सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे
अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ ८२ ॥

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च
उदपानाश्च विप्राश्च पुण्यान्यायतनानि च ॥ ८३ ॥

निःसंशयममावास्यां समेष्यन्ति नराधिप
मासिमासि नरव्याघ्र सन्निहित्यां जनेश्वर ॥ ८४ ॥

तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ॥ ८५ ॥

अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ॥ ८६ ॥

अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम्
स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः ॥ ८७ ॥

यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ॥ ८८ ॥

पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति
अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकम् ॥ ८९ ॥

गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम
तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ॥ ९० ॥

राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् ॥ ९१ ॥

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
पांसवोऽपि कुरुक्षेत्रे वायुनाति समीरिताः ॥ ९२ ॥

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्
दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीम् ॥ ९३ ॥

ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ॥ ९४ ॥

अप्येकां वाचमुत्मृज्य स्वर्गलोके महीयते
ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ॥ ९५ ॥

तस्मिन्वसन्ति ये राजन्न ते शोच्याः कथञ्चन
तरण्डकारण्डकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च
एतत्कुरुक्षेत्र समन्तपञ्चकं पितामहस्योत्तर वेदिरुच्यते ॥ ९६ ॥

इति श्रीपाद्मेमहापुराणे स्वर्गखण्डे सप्तविंशोऽध्यायः २७