०२६

नारदउवाच-

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ १ ॥

मूलम्

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
य एवं सततं ब्रूयात्सर्वपापैः प्रमुच्यते ॥ २ ॥

तत्र मासं वसेद्धीरः सरस्वत्यां नराधिप
यत्र ब्रह्मादयो देवा यत्र ब्रह्मर्षिचारणाः ॥ ३ ॥

गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ ४ ॥

मनसाप्यभिकामस्य कुरुक्षेत्रे युधिष्ठिर
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥ ५ ॥

गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह
वाजपेयाश्वमेध्याभ्यां फलं प्राप्नोति मानवः ॥ ६ ॥

ततो मत्तर्णकं राजन्द्वारपालं महाबलम्
यं वै समभिवाद्यैव गोसहस्रफलं लभेत् ॥ ७ ॥

ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम्
सततं नाम राजेन्द्र यत्र सन्निहितो हरिः ॥ ८ ॥

तत्र स्नात्वा च दृष्ट्वा च त्रिलोकप्रभवं हरिम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ९ ॥

ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ १० ॥

पृथिव्यां तीर्थमासाद्य गोसहस्रफलं लभेत्
ततः शाल्विकिनीं गत्वा तीर्थसेवी नराधिप ॥ ११ ॥

दशाश्वमेधिके स्नात्वा तदेव लभते फलम्
सर्पनीविं समासाद्य नागानां तीर्थमुत्तमम् ॥ १२ ॥

अग्निष्टोममवाप्नोति नागलोकं च गच्छति
ततो गच्छेत धर्मज्ञ द्वारपालमतर्णकम् ॥ १३ ॥

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
ततःपञ्चनदङ्गत्वानियतोनियताशनः ॥ १४ ॥

मूलम्

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
ततःपञ्चनदङ्गत्वानियतोनियताशनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
अश्विनीतीर्थमागम्य रूपवानभिजायते ॥ १५ ॥

मूलम्

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
अश्विनीतीर्थमागम्य रूपवानभिजायते ॥ १५ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्
विष्णुर्वाराहरूपेण पुरा यत्र स्थितोऽभवत् ॥ १६ ॥

तत्र स्थित्वा नरव्याघ्र अग्निष्टोमफलं लभेत्
ततो जयिन्यां राजेन्द्र सोमतीर्थं समाविशेत् ॥ १७ ॥

स्नात्वा फलमवाप्नोति राजसूयस्य मानवः
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ १८ ॥

कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह
पुण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ॥ १९ ॥

ततो मुञ्जावटं नाम महादेवस्य धीमतः
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥ २० ॥

तत्रैव च महाराज जयां लोकपरिश्रुताम्
स्नात्वाभिगम्य राजेन्द्र सर्वकाममवाप्नुयात् ॥ २१ ॥

कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ
प्रदक्षिणमुपावृत्य तीर्थसेवी समावृतः ॥ २२ ॥

संस्मृते पुष्कराणां तु स्नात्वार्च्य पितृदेवताः
जामदग्न्येन रामेण आहूते वै महात्मना ॥ २३ ॥

कृतकृत्योभवेद्राजन्नश्वमेधं च विन्दति
ततो रामह्रदं गच्छेत्तीर्थसेवी नराधिप ॥ २४ ॥

यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा
क्षत्रमुत्सार्य वीर्येण ह्रदाः पञ्च निषेविताः
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥ २५ ॥

पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः
ततस्ते पितरः प्रीताः राममूचुर्महीपते ॥ २६ ॥

रामराम महाभाग प्रीताः स्म तव भार्गव
अनया पितृभक्त्या च विक्रमेण च तेऽनघ ॥ २७ ॥

वरं वृणीष्व भद्रं ते किमिच्छसि महामते
एवमुक्तः स राजेन्द्र रामः प्रवदतां वरः ॥ २८ ॥

अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान्
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ॥ २९ ॥

पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ॥ ३० ॥

ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम्
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥ ३१ ॥

एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा
प्रत्यूचुः परमप्रीता रामं तोषसमन्विताः ॥ ३२ ॥

तपस्ते वर्द्धतां भूयः पितृभक्त्या विशेषतः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ ३३ ॥

ततश्च पापान्मुक्तस्त्वं निहतास्ते स्वकर्मणा
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥ ३४ ॥

ह्रदेष्वेतेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्ल्लभम् ॥ ३५ ॥

ईप्सितं मनसः कामं स्वर्गलोकं सशाश्वतम्
एवं दत्त्वा वरं राजन्रामस्य पितरस्तदा
आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्ततः ॥ ३६ ॥

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ॥ ३७ ॥

राममभ्यर्च्य राजेन्द्र लभेद्बहुसुवर्णकम्
वंशमूलं समासाद्य तीर्थसेवी कुरूद्वह ॥ ३८ ॥

स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके
कायशोधनमासाद्य तीर्थं भरतसत्तम ॥ ३९ ॥

शरीरशुद्धिमाप्नोति स्नातस्तस्मिन्न संशयः
शुद्धदेहस्तु संयाति शुभाल्ँलोकाननुत्तमान् ॥ ४० ॥

ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यदुर्लभम्
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥ ४१ ॥

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम्
स्नात्वा तीर्थवरे राजन्लोकानुद्धरते स्वकान् ॥ ४२ ॥

श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम्
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ॥ ४३ ॥

तत्र स्नात्वार्चयित्वा च देवानिह पितॄंस्तथा
कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ ४४ ॥

सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः
अर्चयित्वा पितॄन्देवानुपवासपरायणः ॥ ४५ ॥

अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति
गवाम्भवनमासाद्य तीर्थसेवी यथाक्रमम् ॥ ४६ ॥

तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्
गङ्गातीर्थं समासाद्य तीर्थसेवी नराधिप ॥ ४७ ॥

केव्यास्तीर्थे नरः स्नात्वा लभते वीर्यमुत्तमम् (केव्या पाठभेदाः – कन्या, कोट्या, कोत्या, कोन्या)
ततो गच्छेत राजेन्द्र द्वारपालं लवर्णकम् ॥ ४८ ॥

तस्य तीर्थे सरस्वत्यां यथेन्द्रस्य महात्मनः
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥ ४९ ॥

ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥ ५० ॥

ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम्
यत्र सन्निहिता नित्यं पितरो दैवतैः सह ॥ ५१ ॥

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
अश्वमेधमवाप्नोति पितृलोकं च गच्छति ॥ ५२ ॥

ततोऽन्यतीर्थं धर्मज्ञ समासाद्य यथाक्रमम्
काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ॥ ५३ ॥

सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते
मातृतीर्थं च तत्रैव यत्र स्नातस्य पार्थिव ॥ ५४ ॥

प्रजा विवर्द्धते राजन्स्वर्गतिं समवाप्नुयात्
ततः शीतवनं गच्छेन्नियतो नियताशनः ॥ ५५ ॥

तीर्थं तत्र महाराज महदन्यत्र दुर्लभम्
पुनाति दर्शनादेव दण्डेनैकं नराधिप ॥ ५६ ॥

केशानावप्य वै तस्मिन्पूतो भवति भारत
तत्र तीर्थवरं चान्यत्स्नात लोकार्तिहं स्मृतम् ॥ ५७ ॥

तत्र विप्रा नरव्याघ्र विद्वांसस्तत्र तत्पराः
गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम ॥ ५८ ॥

स्वर्णलोमापनयने तीर्थे भरतसत्तम
प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः ॥ ५९ ॥

पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम्
दशाश्वमेधिके चैव तस्मिंस्तीर्थे महीपते ॥ ६० ॥

तत्र स्नात्वा नरव्याघ्र गच्छन्ति परमां गतिम्
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ॥ ६१ ॥

तत्र कृष्णामृगा राजन्व्याधेन शरपीडिताः
विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ॥ ६२ ॥

तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ६३ ॥

मानुषस्य तु पूर्वेण क्रोशमात्रं महीपते
आपगा नाम विख्याता नदी सिद्धनिषेविता ॥ ६४ ॥

श्यामाक भोजनं तत्र यः प्रयच्छति मानवः
देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ॥ ६५ ॥

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ॥ ६६ ॥

उषित्वा रजनीमेकामग्निष्टोमफलं लभेत्
ततो गच्छेत धर्मज्ञ ब्रह्मणः स्थानमुत्तमम् ॥ ६७ ॥

ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत
तत्र सप्तर्षिकुण्डेषु स्नातस्य भरतर्षभ ॥ ६८ ॥

केदारे चैव राजेन्द्र कपिलस्य महात्मनः
ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ॥ ६९ ॥

सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ॥ ७० ॥

अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः
ततो गच्छेत राजेन्द्र सर्वकं लोकविश्रुतम् ॥ ७१ ॥

कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजं
लभते सर्वकामान्हि स्वर्गलोकं च गच्छति
तिस्रःकोट्यश्च तीर्थानां प्रवरं कुरुनन्दन ॥ ७२ ॥

रुद्रकोटी तथा कूपे ह्रदेषु च समन्तकः
इलास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ ७३ ॥

तत्र स्नात्वार्चयित्वा च दैवतानि पितॄनपि
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ ७४ ॥

किन्दाने च नरः स्नात्वा किञ्जपे च महीपते
अप्रमेयमवाप्नोति दानं यज्ञं तथैव च
कलश्यां वार्य्युपस्पृश्य श्रद्दधानो जितेन्द्रियः ॥ ७५ ॥

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः
सरकस्य तु पूर्वेण नारदस्य महात्मनः ॥ ७६ ॥

कुरुश्रेष्ठ शुभं तीर्थं रामजन्मेति विश्रुतम्
तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत ॥ ७७ ॥

नारदेनाभ्यनुज्ञातो लोकानाप्नोति दुर्ल्लभान्
शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् ॥ ७८ ॥

तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत्
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥ ७९ ॥

तत्र वैतरणी पुण्या नदी पापप्रमोचनी
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ॥ ८० ॥

सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् ॥ ८१ ॥

तत्र देवाः सदा राजन्फलकीवनमाश्रिताः
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ॥ ८२ ॥

दृषत्पाने नरः स्नात्वा तर्पयित्वा च देवताः
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ ८३ ॥

तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम
गोसहस्रस्य राजेन्द्र फलमाप्नोति मानवः ॥ ८४ ॥

पाणिख्याते नरः स्नात्वा तर्पयित्वा च देवताः
अवाप्नुते राजसूयमृषिलोकं च गच्छति ॥ ८५ ॥

ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम्
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ ८६ ॥

व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ ८७ ॥

ततो व्यासवनं गच्छेन्नियतो नियताशनः
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ८८ ॥

गत्वा मधुवनीं चापि देव्याः स्थानं नरः शुचिः
तत्र स्नात्वार्चयेद्देवान्पितॄंश्च नियतः शुचिः ॥ ८९ ॥

सदेव्या समनुज्ञातो गोसहस्रफलं लभेत्
कौशिक्याः सङ्गमे यस्तु दृषद्वत्याश्च भारत ॥ ९० ॥

स्नातो वै नियताहारः सर्वपापैः प्रमुच्यते
ततो व्यासस्थली नाम यत्र व्यासेन धीमता ॥ ९१ ॥

पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः
कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तथा ॥ ९२ ॥

अभिगम्य स्थलद्यं तस्य गोसहस्रफलं लभेत्
ऋणान्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ॥ ९३ ॥

गच्छेत परमां सिद्धिमृणैर्मुक्तो नरेश्वर
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ९४ ॥

अहश्च सुदिनश्चैव द्वे तीर्थे नृप दुर्लभे
तयोः स्नात्वा नरः श्रेष्ठ सूर्यलोकमवाप्नुयात् ॥ ९५ ॥

मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः ॥ ९६ ॥

शूलपाणिं महात्मानमश्वमेधफलं लभेत्
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ९७ ॥

अथ वामनकं गत्वा त्रिषु लोकेषु विश्रुतम्
तत्र विष्णुपदे स्नात्वा समभ्यर्च्य च वामनम् ॥ ९८ ॥

सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात्
कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं नरः ॥ ९९ ॥

पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम्
तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते १००
अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम्
अमराणां प्रभावेण स्वर्गलोके महीयते १०१
शालिहोत्रस्य राजेन्द्र शालिसूर्ये यथाविधि
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् १०२
श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् १०३
ततो नैमिषिकुञ्जं च समासाद्य सुदुर्लभम्
ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः १०४
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रे गताः पुरा
ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम १०५
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान्
तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् १०६
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे षड्विंशोऽध्यायः २६