नारदउवाच-
विश्वास-प्रस्तुतिः
वितस्तां च समासाद्य सन्तर्प्य पितृदेवताः
नरः फलमवाप्नोति वाजपेयस्य भारत ॥ १ ॥
मूलम्

काश्मीरेष्वेव नागस्य भवनं तक्षक स्यच
वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥ २ ॥

तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ ३ ॥

ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम्
पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि ॥ ४ ॥

चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत्
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ ५ ॥

गवांशतसहस्रेण राजसूयशतेन च
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ॥ ६ ॥

ततो निवृत्तो राजेन्द्र रुद्रास्पदमथाविशेत्
अभिगम्य महादेवमश्वमेधफलं लभेत् ॥ ७ ॥

मणिमन्तं समासाद्य ब्रह्मचारी समाहितः
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥ ८ ॥

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ ९ ॥

त्रिशूलपाणेः स्थानं यत्त्रिषुलोकेषु विश्रुतम्
देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम् ॥ १० ॥

यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ ११ ॥

कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसम्मतम्
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ॥ १२ ॥

यजनं याजनं गत्वा तथैव ब्रह्मवालकम्
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ॥ १३ ॥

अर्द्धयोजनविस्तारां पञ्चयोजनमायताम्
एतावद्देविकामाहुः पुण्यां देवर्षिसम्मताम् ॥ १४ ॥

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ॥ १५ ॥

दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः
गमनादेव राजेन्द्र दीर्घसत्रमरिन्दम ॥ १६ ॥

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
ततो विनाशनं गच्छेन्नियतो नियताशनः ॥ १७ ॥

गच्छन्त्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥ १८ ॥

स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ १९ ॥

नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ २० ॥

शशरूपप्रतिच्छन्ना पुष्करा यत्र भारत
सरस्वत्यां महाभाग अनुसंवत्सरंहिते ॥ २१ ॥

स्नायन्ते भरतश्रेष्ठ वृत्ता वै कार्त्तिकीं सदा
तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा ॥ २२ ॥

गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ
कुमारकोटिमासाद्य नियतः कुरुनन्दन ॥ २३ ॥
मूलम्
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ
कुमारकोटिमासाद्य नियतः कुरुनन्दन ॥ २३ ॥
विश्वास-प्रस्तुतिः
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गवामयुतमाप्नोति कुलं चैव समुद्धरेत् ॥ २४ ॥

ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहिताः
पुरा यत्र महाराज ऋषिकोटिः समाहिता ॥ २५ ॥

वर्षेण च समाविष्टा देवदर्शनकाङ्क्षया
अहम्पूर्वमहम्पूर्वं द्रक्ष्यामि वृषभध्वजम् ॥ २६ ॥

एवं सम्प्रस्थिता राजनृषयः किलभारत
ततो योगीश्वरेणापि योगमास्थाय भूपते ॥ २७ ॥

तेषां मन्युप्रशान्त्यर्थमृषीणां भावितात्मनाम्
सृष्टा तु कोटिरुद्राणामृषीणामग्रतः स्थिता ॥ २८ ॥

मया पूर्वं हरो दृष्टो इति ते मेनिरे पृथक्
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् ॥ २९ ॥

भक्त्या परमया राजन्वरं तेषां प्रदत्तवान्
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ॥ ३० ॥

तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ३१ ॥

ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम्
सरस्वत्यां महापुण्यमुपासीत जनार्दनम् ॥ ३२ ॥

यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥ ३३ ॥

तत्र स्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम्
सर्वपापविशुद्धात्मा शिवलोकं च गच्छति ॥ ३४ ॥

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
तत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥ ३५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पञ्चविंशोऽध्यायः २५