०२४

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

अथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद
श्रुत्वा यानि च पापानि विलयं यान्ति नारद ॥ १ ॥

मूलम्

अथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद
श्रुत्वा यानि च पापानि विलयं यान्ति नारद ॥ १ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
शृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ॥ २ ॥

मूलम्

नारद उवाच-
शृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ॥ २ ॥

विश्वास-प्रस्तुतिः

अग्निष्टोममवाप्नोति विमानं चाधिरोहति
चर्मण्वतीं समासाद्य नियतो नियताशनः ॥ ३ ॥

मूलम्

अग्निष्टोममवाप्नोति विमानं चाधिरोहति
चर्मण्वतीं समासाद्य नियतो नियताशनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत्
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ॥ ४ ॥

मूलम्

रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत्
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

पृथिव्या यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतं ॥ ५ ॥

मूलम्

पृथिव्या यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतं ॥ ५ ॥

विश्वास-प्रस्तुतिः

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप ॥ ६ ॥

मूलम्

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप ॥ ६ ॥

विश्वास-प्रस्तुतिः

कपिलानां नरव्याघ्र शतस्य फलमाप्नुयात्
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ॥ ७ ॥

मूलम्

कपिलानां नरव्याघ्र शतस्य फलमाप्नुयात्
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

यत्र सन्निहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर अनलोऽनिलसारथिः ॥ ८ ॥

मूलम्

यत्र सन्निहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर अनलोऽनिलसारथिः ॥ ८ ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ ९ ॥

मूलम्

तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ ९ ॥

विश्वास-प्रस्तुतिः

ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमम्
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ॥ १० ॥

मूलम्

ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमम्
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ॥ १० ॥

विश्वास-प्रस्तुतिः

दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ ११ ॥

मूलम्

दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ ११ ॥

विश्वास-प्रस्तुतिः

त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः
विराजति यथा सोमो वाजिमेधं च विन्दति ॥ १२ ॥

मूलम्

त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः
विराजति यथा सोमो वाजिमेधं च विन्दति ॥ १२ ॥

विश्वास-प्रस्तुतिः

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ १३ ॥

मूलम्

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ १३ ॥

विश्वास-प्रस्तुतिः

वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्
ततो द्वारवतीं गच्छेन्नियतो नियताशनः ॥ १४ ॥

मूलम्

वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्
ततो द्वारवतीं गच्छेन्नियतो नियताशनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

पिण्डारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥ १५ ॥

मूलम्

पिण्डारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तीर्थे महाराज पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिन्दम ॥ १६ ॥

मूलम्

तस्मिंस्तीर्थे महाराज पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिन्दम ॥ १६ ॥

विश्वास-प्रस्तुतिः

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
महादेवस्य सान्निध्यं तत्रैव भरतर्षभ ॥ १७ ॥

मूलम्

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
महादेवस्य सान्निध्यं तत्रैव भरतर्षभ ॥ १७ ॥

विश्वास-प्रस्तुतिः

सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ १८ ॥

मूलम्

सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ १८ ॥

विश्वास-प्रस्तुतिः

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥ १९ ॥

मूलम्

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥ १९ ॥

विश्वास-प्रस्तुतिः

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ २० ॥

मूलम्

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ २० ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ २१ ॥

मूलम्

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

तिमीति नाम्ना विख्यातं सर्वपापप्रमोचनम्
यत्र शक्रादयो देवा उपासन्ते महेश्वरम् ॥ २२ ॥

मूलम्

तिमीति नाम्ना विख्यातं सर्वपापप्रमोचनम्
यत्र शक्रादयो देवा उपासन्ते महेश्वरम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ २३ ॥

मूलम्

तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ २३ ॥

विश्वास-प्रस्तुतिः

तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः
तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात् ॥ २४ ॥

मूलम्

तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः
तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात् ॥ २४ ॥

विश्वास-प्रस्तुतिः

जित्वा तत्र महाप्राज्ञ विष्णुना दितिनन्दनम्
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥ २५ ॥

मूलम्

जित्वा तत्र महाप्राज्ञ विष्णुना दितिनन्दनम्
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥ २५ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥ २६ ॥

मूलम्

ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥ २६ ॥

विश्वास-प्रस्तुतिः

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः
तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते ॥ २७ ॥

मूलम्

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः
तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते ॥ २७ ॥

विश्वास-प्रस्तुतिः

तीर्थं चापि परं तत्र वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां सम्मतो भवेत् ॥ २८ ॥

मूलम्

तीर्थं चापि परं तत्र वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां सम्मतो भवेत् ॥ २८ ॥

विश्वास-प्रस्तुतिः

सिन्धुतममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥ २९ ॥

मूलम्

सिन्धुतममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥ ३० ॥

मूलम्

ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥ ३० ॥

विश्वास-प्रस्तुतिः

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात् ॥ ३१ ॥

मूलम्

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम्
स्नात्वा तत्र भवेद्विप्रो विमलश्चन्द्रमा इव ॥ ३२ ॥

मूलम्

रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम्
स्नात्वा तत्र भवेद्विप्रो विमलश्चन्द्रमा इव ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अथ पञ्चनदं गत्वा नियतो नियताशनः
पञ्चयज्ञानवाप्नोति क्रमशो ये तु कीर्तिताः ॥ ३३ ॥

मूलम्

अथ पञ्चनदं गत्वा नियतो नियताशनः
पञ्चयज्ञानवाप्नोति क्रमशो ये तु कीर्तिताः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम्
तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम ॥ ३४ ॥

मूलम्

ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम्
तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम ॥ ३४ ॥

विश्वास-प्रस्तुतिः

देव्याः पुत्रो भवेद्राजन्तत्र कुण्डलविग्रहः
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥ ३५ ॥

मूलम्

देव्याः पुत्रो भवेद्राजन्तत्र कुण्डलविग्रहः
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ ३६ ॥

मूलम्

गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ ३७ ॥

मूलम्

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ ३७ ॥

तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेत्परमिकां गतिम् ३८