नारद उवाच-
विश्वास-प्रस्तुतिः
एवं बहुतिथे काले लोमशो मुनिसत्तमः
आगतश्च महाभागस्तत्र यादृच्छिको मुनि ॥ १ ॥
मूलम्

तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः
धावन्तो ह्यत्तुकामास्ते मिलित्वा यूथवर्तिनः ॥ २ ॥

दह्यमानास्तु तीव्रेण तेजसा लोमशस्य तु
असमर्थाः पुरः स्थातुं ते सर्वे दूरतः स्थिताः ॥ ३ ॥

तत्र पूर्वकर्मबलात्पिशाचः सह वै द्विजः
समीक्ष्य लोमशं राजन्साष्टाङ्गं प्रणिपत्य च ॥ ४ ॥

उवाच सूनृतां वाचं बद्ध्वा शिरसि चाञ्जलिम्
महाभाग्योदये विप्र साधूनां सङ्गतिर्भवेत् ॥ ५ ॥

गङ्गादिपुण्यतीर्थेषु यो नरः स्नाति सर्वथा
यः करोति सतां सङ्गं तयोः सत्सङ्गमो वरः ॥ ६ ॥

गुरूणां सङ्गमो विप्र दृष्टादृष्टफलो भुवि
स्वर्गदो रोगहारी च किं तमोपहरो मतः ॥ ७ ॥

इत्युक्त्वा कथयामास पूर्ववृत्तान्तमद्भुतम्
इमा गन्धर्वकन्यास्ता मुने सोऽहं द्विजात्मजः ॥ ८ ॥

सर्वे पिशाचरूपेण मिथः शापविमोहिताः
दीनाननास्सुतिष्ठामस्तवाग्रे मुनिसत्तम ॥ ९ ॥

त्वद्दर्शनेन बालानां निस्तारो नो भविष्यति
सूर्योदये तमस्तोमः किं नु लीयेत पुष्करे ॥ १० ॥

श्रुत्वैतल्लोमशो वाक्यं कृपार्द्रीकृतमानसः
प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम् ॥ ११ ॥

मत्प्रसादाच्च सर्वेषां स्मृतिः सपदि जायताम्
धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत् ॥ १२ ॥

पिशाच उवाच-
महर्षे कथ्यतां धर्मो मुच्येम येन किल्बिषात्
नायं कालो विलम्बस्य शापाग्निर्दारुणो यतः ॥ १३ ॥

लोमश उवाच-
मया सार्द्धं प्रकुर्वन्तु रेवास्नानं विधानतः
शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत् ॥ १४ ॥

शृणुष्वावहितो विप्र पापनाशो ध्रुवं नृणाम्
रेवास्नानेन जायेत इति मे निश्चिता मतिः ॥ १५ ॥

सप्तजन्मकृतं पापं वर्तमानं च पातकम्
रेवास्नानं दहेत्सर्वं तूलराशिमिवानलः ॥ १६ ॥

प्रायाश्चित्तं न पश्यन्ति यस्मिन्पापे पिशाचक
तत्सर्वं नर्मदातोये स्नानमात्रेण नश्यति ॥ १७ ॥

ज्ञानकृन्नर्मदास्नानमतो मोक्षफला हि सा
हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै ॥ १८ ॥

इन्द्रलोकप्रदं हीदं निर्मितं ब्रह्मवादिभिः
सर्वकामफला रेवा मोक्षदा परिकीर्तिता ॥ १९ ॥

पापघ्नी पापहारिणी सर्वकामफलप्रदा
विष्णुलोकदआप्लावो नार्मदः पापनाशनः ॥ २० ॥

यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः
सारस्वतोघविध्वंसी ब्रह्मलोकफलप्रदः ॥ २१ ॥

विशालफलदा प्रोक्ता विशाला हि पिशाचक
पापेन्धनदवाग्निस्तु गर्भहेतुक्रियापहः ॥ २२ ॥

विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः
सरयूगण्डकीसिन्धुश्चन्द्रभागा च कौशिकी ॥ २३ ॥

तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका
कावेरी तुङ्गभद्रा च अन्याश्चापि समुद्रगाः ॥ २४ ॥

तासु रेवा परा प्रोक्ता विष्णुलोकप्रदायिनी
रेवा तु प्राप्यते पुण्यैः पूर्वजन्मकृतैर्द्विज
अपुनर्भवदं तत्र मज्जनं मुनिपुत्रक ॥ २५ ॥

गायन्ति देवाः सततं दिविष्ठा रेवा कदा दृष्टिगता हि नो भवेत्
स्नाता नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णुसन्निधौ ॥ २६ ॥

मज्जन्ति ये प्रत्यहमत्र मानवा रेवासुतो ये बहुपापकञ्चुकाः
मज्जन्ति ते नो निरयेषु धर्मतः स्वर्गे तु ते चारुचरन्ति देववत् ॥ २७ ॥

तीव्रैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा
रेवापिशाचाशु तयोर्द्वयोरभूद्रेवा वरा तत्र च मोक्षसाधिका ॥ २८ ॥

एतच्छ्रुत्वा वचस्तस्य लोमशस्य पिशाचकाः
तेन सार्द्धं ययुः शीघ्रं रेवामज्जनहेतवे ॥ २९ ॥

ततो दैवात्समुत्पन्नो रेवारोधसि मारुतः
तेषां प्रवाहस्पृष्टानां गात्रे जलकणप्रदः ॥ ३० ॥

रेवाजलकणस्पर्शात्पैशाच्यात्ते विमोचिताः
तत्क्षणाद्दिव्यवपुषः प्रशशंसुश्च नर्मदाम् ॥ ३१ ॥

ततो लोमशवाक्येन ताश्च गन्धर्वकन्यकाः
परिणीताः सुखं तेन विप्रेण नर्मदातटे ॥ ३२ ॥

उवास सुचिरं कालं स्नानपानावगाहनैः
अर्चित्वा नर्मदामत्र विष्णुलोकं गताश्च ते ॥ ३३ ॥

एवं ते कथितो राजन्नर्मदागुणसंश्रयः
इतिहासो महापुण्यः श्रवणात्पापनाशनः ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे त्रयोविंशोऽध्यायः २३