नारद उवाच-
विश्वास-प्रस्तुतिः
एवं ते कथितं राजन्नर्मदातीर्थमुत्तमम्
पुरा गन्धर्वकन्यानां शापजं भयमुल्बणम् ॥ १ ॥
मूलम्

नाशितं तन्महाराज रेवाजलकणाग्निना
रेवाजलकणस्पर्शान्मुक्तो भवति मानवः ॥ २ ॥

युधिष्ठिर उवाच-
भगवन्बहुकन्याभिः शापो लम्भि कथं कुतः
कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ॥ ३ ॥

कथं रेवाजलस्पर्शाद्विपाकाच्छापसम्भवात्
विमुक्ताः कुत्र ताः सस्नुः सर्वं मे कथय प्रभो ॥ ४ ॥

नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत्
श्रवणादपि पापानां मलनाशनमुच्यते ॥ ५ ॥
मूलम्
नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत्
श्रवणादपि पापानां मलनाशनमुच्यते ॥ ५ ॥
विश्वास-प्रस्तुतिः
नर्मदानर्मदाशब्दो येन केनचिदुच्यते
तस्य स्याच्छाश्वती मुक्तिर्यावदाचन्द्र तारकम् ॥ ६ ॥

व्याहृतं भवता पूर्वं रेवामाहात्म्यमुत्तमम्
तथापि चरितं साधो यदेतत्तन्निगद्यताम् ॥ ७ ॥

अथ चोत्तमवार्ताया सेवितव्या मनीषिभिः
अतः पृच्छामि विप्रेन्द्र रेवामाहात्म्यमुत्तमम्
इतिहासं वद विभो कन्यानां चरितोज्ज्वलम् ॥ ८ ॥

श्रूयतां राजशार्दूल धर्मगर्भापरा कथा
यथारणिर्वह्निगर्भा धर्मस्तु ब्रह्मसूरिव ॥ ९ ॥

गन्धर्वः शुकसङ्गीतिस्तस्य कन्या प्रमोहिनी
सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः ॥ १० ॥

सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च
इमानि वरनामानि तासामप्सरसां नृप ॥ ११ ॥

कुमार्यः पञ्च सर्वास्ता वयसा सुभगाः पुनः
भाषन्ते च मिथस्तास्तु भगिन्य इव सर्वदा ॥ १२ ॥

चन्द्रादिव विनिष्क्रान्ताश्चन्द्रिका इव सोज्ज्वलाः
चन्द्राननाः सुकेश्यश्च चन्द्रकान्ताइवोज्ज्वलाः ॥ १३ ॥

देवेष्वेता विलासिन्यः कौमुद्यः कैरवेष्विव
लावण्यपिण्डसम्भूता दिव्यरूपा मनोहराः ॥ १४ ॥

उद्भिन्नकुचपद्मिन्यः केतक्य इव माधवे
उत्पन्नयौवनैः कान्ता वल्लीव नवपल्लवैः ॥ १५ ॥

हेमगौराश्च हेमाभा हेमाभरणभूषिताः
हेमचम्पकमालिन्यो हेमच्छविसुवाससः ॥ १६ ॥
मूलम्
हेमगौराश्च हेमाभा हेमाभरणभूषिताः
हेमचम्पकमालिन्यो हेमच्छविसुवाससः ॥ १६ ॥
विश्वास-प्रस्तुतिः
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च
तालवाद्यविनोदेषु वेणुवीणाप्रवादने ॥ १७ ॥

मृदङ्गनादसम्भिन्नलास्यमध्यलयेषु च
चित्रादिषु विनोदेषु कलासु च विशारदाः ॥ १८ ॥

एवम्भूताश्च ताः कन्या मुमुहुः क्रीडनैर्वरैः
पितृभिर्लालिताः सर्वाश्चेरुश्च धनदालये ॥ १९ ॥

कौतुकादेकदा पञ्च मिलित्वा मासि माधवे
कन्या मन्दारपुष्पाणि विचिन्वन्त्यो वनाद्वनम् ॥ २० ॥

गौरीं समाराधयितुं स्वराङ्गनाः कदाचिदच्छोदसरोवरं ययुः
हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह ॥ २१ ॥

वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा तु घट्टे परिधाय चाम्बरम्
मौनेन च स्थण्डिलपिण्डिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः ॥ २२ ॥

समर्चितां चन्दनगन्धकुङ्कुमैरभ्यर्च्य गौरीं वरपङ्कजादिभिः
नानोपहारैः शुभभक्तिभाविता लास्यप्रयोगैर्ननृतुः कुमारिकाः ॥ २३ ॥

गान्धर्वमाश्रित्य परं स्वरं ततो गेयं स्वभावध्वनिभिः समूर्छनम्
एणीदृशस्ताः प्रजगुः कलाक्षरं तारप्रवृद्धं गतिभिश्च सुस्वरम् ॥ २४ ॥

तस्मिन्सुभावे रसवर्षहर्षं कन्यास्वलं निर्भरचित्तवृत्तिषु
अच्छोदतीर्थे प्रवरे तदागतः स्नातुं मुनेर्वेदनिधेः सुतोग्रजः ॥ २५ ॥

रूपेण निःसीमतरो वराननः प्रफुल्लपद्मायतलोचनो युवा
विस्तीर्णवक्षाः सुभुजोऽतिसुन्दरः श्यामच्छविः कामइवापरो हि सः ॥ २६ ॥

स ब्रह्मचारी सुशिखो हि शोभते दण्डेन युक्तो धनुषेव मन्मथः
एणाजिनप्रावरणः समुद्रधृग्हेमाभमौञ्जीकटिमेखलः परः ॥ २७ ॥

तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे
जहृषुः कौतुकाविष्टा अयं नो भवितातिथिः ॥ २८ ॥

सन्त्यक्तगीतनृत्यास्तास्तस्यालोकनलालसाः
हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः ॥ २९ ॥

पश्यपश्येति जल्पन्त्यो मुग्धाः पञ्च ससम्भ्रमम्
तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ॥ ३० ॥

पुनःपुनस्तमभ्यर्च्य नयनैः पङ्कजैरिव
पश्चाद्विचारमारब्धमप्सरोभिः परस्परम् ॥ ३१ ॥

यद्ययं कामदेवो हि रतिहीनः कथं भवेत्
अथवाह्यश्विनौ देवौ तावुभौ युगचारिणौ ॥ ३२ ॥

गन्धर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक्
ऋषिपुत्रोऽथवा कश्चित्कश्चिद्वा मनुजोत्तमः ॥ ३३ ॥

अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते
यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ॥ ३४ ॥

तथास्माकं कुमारीणां गौर्यानीतो वरोत्तमः
करुणाजलकल्लोल लब्धाद्री र्कृ!तचित्तया ॥ ३५ ॥

मया वृतस्त्वया चायं त्वया वृतस्तथानया
एवं पञ्चसुकन्यासु वदन्तीषु नृपोत्तम ॥ ३६ ॥

श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः
चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेत् ॥ ३७ ॥

गाधिसम्भवपराशरादयः कण्डुदेवलमुखाश्च ये द्विजाः
तेऽपि योगि बलिनो विमोहिताः लीलया तदबलाभिरद्भुतम् ॥ ३८ ॥

योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः
धन्विना मकरकेतुना हतः कस्य नो पतति वामनो मृगः ॥ ३९ ॥

तावदेव नयधीर्विराजते तावदेव जनताभयं भवेत्
तावदेव धृतचित्तता भृशं तावदेव गणना कुलस्य च ॥ ४० ॥

तावदेव तपसः प्रगल्भता तावदेव शमसेवनं नृणाम्
यावदेव ललनेक्षणा स वैर्माद्यते द्रुतमदैर्न पूरुषः ॥ ४१ ॥

मोहयन्ति मदयन्ति रागिणं योषितः स्वललितैर्मनोहरैः
मोदयन्ति मदयन्ति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः ॥ ४२ ॥

मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ
कामिनस्तु परिकल्प्य चारुतामाविशन्ति सुविमूढचेतसः ॥ ४३ ॥

दारुणा हि परिकीर्तिताङ्गना साधुभिर्विमलबुद्धिभिर्बुधैः
यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ॥ ४४ ॥

समीपं तस्य यावन्न आगच्छन्ति वरस्त्रियः
वैष्णवेन प्रभावेण तावदन्तर्दधे द्विजः ॥ ४५ ॥

तस्य योगबलाद्भूप गतस्यादर्शनं तदा
दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः ॥ ४६ ॥

वित्रस्तनयना बाला कुरङ्ग्य इव कातराः
सङ्क्रान्तनयनाः शून्या ददृशुस्ता दिशोदश ॥ ४७ ॥

कन्या ऊचुः-
इन्द्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः
दृष्टोऽप्यदृष्टरूपोभूदित्यूचुस्ताः परस्परम् ॥ ४८ ॥

व्याप्तं च हृदयं तासां तदैव विरहाग्निना
ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम् ॥ ४९ ॥

त्यजेन्द्रजालिकां विद्यां कान्त दर्शय सत्वरम्
आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम् ॥ ५० ॥

हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः
ज्ञातं महानुसन्तापहेतुर्नः स्वं विनिर्मितः ॥ ५१ ॥

कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः
कच्चित्क्रूरोऽसि हे कान्त कच्चिन्मुष्णासि नो मनः ॥ ५२ ॥

कच्चिन्न प्रत्ययोस्मा सु कच्चिदस्मान्परीक्षसे
कच्चिन्निर्ममता शीलः कच्चिन्मायाविशारदः ॥ ५३ ॥

कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम्
कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ॥ ५४ ॥

कच्चिद्विनापराधं तु किमस्मासु प्रकुप्यसे
कच्चिद्दुःखं न जानासि परेषां विप्रलम्भनम् ॥ ५५ ॥

त्वद्दर्शनं विना नष्टा हृदयेश्वर साम्प्रतम्
न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ॥ ५६ ॥

वयं च नीयतां तत्र शीघ्रं यत्र गतो भवान्
त्वद्दर्शनहरो धाता व्यधान्मोदाङ्कुरच्छिदाम् ॥ ५७ ॥

सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा
पर्य्यन्तं न प्रपश्यन्ति कस्य चित्सुजना जनाः ॥ ५८ ॥

इत्थं विलप्यताः कन्याः प्रतीक्ष्य च बहुक्षणम्
पितुर्भयाद्गृहं गन्तुं शीघ्रमारेभिरे ततः ॥ ५९ ॥

तत्प्रेमनिगडैर्बद्धा भृशं विरहविक्लवाः
कथञ्चिद्धैर्यमालम्ब्य ताः स्वंस्वं गृहमागताः ॥ ६० ॥

आगत्य पतिताः सर्वा मातॄणां तु समीपतः
किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ॥ ६१ ॥

क्रीडन्त्यः किन्नरीभिस्तु सार्द्धं सङ्गतकं यदा
संस्थितास्तेन न ज्ञातो दिवसोऽच्छोदसरोवरे ॥ ६२ ॥

पथि श्रान्ता वयं मातः सन्तापस्तेन नस्तनौ
मोहेन महता वक्तुं न केनाप्युत्सहामहे ॥ ६३ ॥

इत्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः
आकारं गोपयन्त्यस्ता मुग्धा जल्पन्ति मातृभिः ॥ ६४ ॥

काचिन्नर्तयति क्रीडामयूरं न मुदा तदा
न पाठयति तं कीरं पञ्जरेऽन्या कुतूहलात् ॥ ६५ ॥

लालयेन्नकुलं नान्या नोल्लापयति सारिकाम्
अपरातीव सम्मुग्धा नैव खेलति सारसैः ॥ ६६ ॥

भेजिरे न विनोदं ता रेमिरे नैव मन्दिरे
ऊचिरे बान्धवैर्नालं वीणावाद्यं न चक्रिरे ॥ ६७ ॥

कल्पद्रुमप्रसूनं यत्सर्वं तच्चानलोपमम्
मन्दारकुसुमामोदि न पपुर्मधुरं मधु ॥ ६८ ॥

योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः
अलक्ष्यध्यानसन्तानाः पुरुषोत्तममानसाः ॥ ६९ ॥

चन्द्रकान्तमणिच्छन्ने स्रवद्वारिणि कन्दरे
क्षणं वातायने स्थित्वा जलयन्त्रगृहेक्षणम् ॥ ७० ॥

रचयन्ति क्षणं शय्यां दीर्घिकां भोजिनीदलैः
वीज्यमानाः सखीभिस्ताः शीतलैर्नलिनीदलैः ॥ ७१ ॥

इत्थं युगसमां रात्रिमनयंस्ता वरस्त्रियः
कथञ्चिद्धारणं कृत्वा विह्वलाः सज्वरा इव ॥ ७२ ॥

प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम्
विज्ञाप्य मातरं स्वांस्वां गौरीं पूजयितुं गताः ॥ ७३ ॥

स्नात्वा तेन विधानेन पुष्पैर्धूपैस्तथा पुनः
विधाय पूजनं देव्या गायन्त्यस्तत्र ताः स्थिताः ॥ ७४ ॥

एतस्मिन्नन्तरे विप्रः स्नातुं सोऽपि समागतः
पितुराश्रमतस्तस्मादच्छोदेऽत्र सरोवरे ॥ ७५ ॥

मित्रं दृष्ट्वैव रात्र्यन्ते पद्मिन्य इव कन्यकाः
तत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ॥ ७६ ॥

गत्वा तत्रैव ताः कन्या समीपं ब्रह्मचारिणः
सव्यापसव्यबन्धेन भुजपाशं च चक्रिरे ॥ ७७ ॥

गतोऽसि प्रिय पूर्वेद्युर्गन्तुमद्य न लभ्यते
वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्ति विचारणा ॥ ७८ ॥

इत्युक्तो ब्राह्मणः प्राह प्रहसन्बाहुपाशगः
युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ॥ ७९ ॥

प्रथमाश्रमनिष्ठस्य किन्तु नश्येत मे व्रतम्
विद्याभ्यसनशीलस्य नाभूत्पारं गुरोः कुले ॥ ८० ॥

आश्रमे यत्र यो धर्मो रक्षणीयः सुपण्डितैः
विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ॥ ८१ ॥

आकर्ण्य विप्रवाक्यानि विप्रमूचुर्वरस्त्रियः
सकलध्वनिसोत्कण्ठ्यो कोकिलाइव माधवे ॥ ८२ ॥

धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः
इत्येवं निश्चयज्ञास्ते वर्णयन्ति विपश्चितः ॥ ८३ ॥

सकामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः
सेव्यतां विविधैर्भोगैः स्वच्छाभूमिरियं यतः ॥ ८४ ॥

श्रुत्वा तद्वचनं तासां प्राह गम्भीरया गिरा
तथ्यं वो वचनं किन्तु ममाप्यावश्यकं व्रतम् ॥ ८५ ॥

प्राप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा
इत्युक्ताः पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दर ॥ ८६ ॥

सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिर्निधिः साधुकुला वराङ्गनाः
मन्त्रस्तथा सिद्धरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः ॥ ८७ ॥

कार्यं नु दैवाद्यदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यान्ति नीतिगाः
यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ॥ ८८ ॥

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ ८९ ॥

सान्द्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ता सुगिरः स्वयंवराः
कन्या सुरूपाः खलु चारुयौवना धन्या लभन्तेऽत्र नरास्तु नेतरे ॥ ९० ॥

क्व वयं सुरसुन्दर्य्यः क्व भवांस्तापसो बटुः
दुर्घटस्य विधानेन मन्ये धातैव पण्डितः ॥ ९१ ॥

तस्मादस्मानिदानीं तु स्वीकुर्य्यात्मङ्गलं भवान्
गान्धर्वेण विवाहेन अन्यथा नोपजीवनम् ॥ ९२ ॥

श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः
भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः ॥ ९३ ॥

धर्मश्चार्थश्चकामश्च मोक्षश्चैतच्चतुष्टयम्
यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम् ॥ ९४ ॥

नाकालेऽहं व्रती कुर्यामतो दारपरिग्रहम्
न क्रिया फलमाप्नोति क्रियाकालं न वेत्ति यः ॥ ९५ ॥

यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम्
तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् ॥ ९६ ॥

एवं ज्ञात्वाशयं तस्य समीक्ष्यैव परस्परम्
करात्करं विमुच्याथ जग्राहाङ्घ्रिं प्रमोहिनी ॥ ९७ ॥

भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा
आलिलिङ्ग सुतारा च वक्त्रं चुम्बति चन्द्रिका ॥ ९८ ॥

तथापि निर्विकारोऽसौ प्रलयानलसन्निभः
शशाप ब्रह्मचारी ताः क्रोधेनात्यन्तमूर्छितः ॥ ९९ ॥

पिशाच्य इव मां लग्ना तत्पिशाच्यो भविष्यथ
एवं तेनाशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः १००
किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया
प्रियङ्कृतोऽप्रियङ्कृत्वा धिक्त्वां धर्मकृतान्तकम् १०१
अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः
पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम् १०२
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम्
इत्युक्त्वापि च ता बाला निःश्वसन्त्यः क्रुधाकुलाः १०३
तदेवान्योन्यसंरम्भात्तस्मिन्सरसि पार्थिव
ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः १०४
स पिशाचः पिशाच्यस्ताः क्रन्दमानाः सुदारुणम्
क्षपयन्ति विपाकांस्तान्पूर्वोपात्तस्य कर्मणः १०५
स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम्
स्वच्छायामिव दुर्वारं देवानामपि पार्थिव १०६
क्रन्दन्ति पितरस्तासां मातरस्तत्र तत्र च
भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम् १०७
अतऊर्ध्वं पिशाचास्ते आहारार्थं सुदुःखिताः
इतस्ततश्च धावन्तो वसन्ति सरसस्तटे १०८
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्वाविंशोध्यायः २२