नारद उवाच-
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र विहगेश्वरमुत्तमम्
दर्शनात्तस्यराजेन्द्र मुच्यते सर्वपातकैः ॥ १ ॥
मूलम्

ततो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम्
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ २ ॥

अश्वतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
सुभगो दर्शनीयश्च भोगवान्जायते नरः ॥ ३ ॥

पितामहं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा
तत्र स्नात्वा नरो भक्त्या पितृपिण्डं तु दापयेत् ॥ ४ ॥

तिलदर्भविमिश्रं तु उदकं तु प्रदापयेत्
तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ ५ ॥

सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत्
विधूय सर्वपापानि ब्रह्मलोके महीयते ॥ ६ ॥

मनोहरं च तत्रैव तीर्थं परमशोभनम्
तत्र स्नात्वा नरो राजन्पितृलोके महीयते ॥ ७ ॥

ततो गच्छेत राजेन्द्र मानसं तीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ॥ ८ ॥

ततो गच्छेत राजेन्द्र क्रतुतीर्थमनुत्तमम्
विख्यातं सर्वलोकेषु सर्वपापप्रणाशनम् ॥ ९ ॥

यान्यान्प्रार्थयते कामान्पशुपुत्रधनानि च
प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप ॥ १० ॥

ततो गच्छेत राजेन्द्र त्रिदशद्योति विश्रुतम्
तत्र ता ऋषिकन्यास्तु तपस्तप्यन्ति सुव्रताः ॥ ११ ॥

भर्त्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः
प्रीतस्तेषां महादेवश्चण्डरूपधरो हरः ॥ १२ ॥

विकृतानन बीभत्सस्तच्च तीर्थमुपागतः
तत्र कन्या महाराज वराय परमेश्वरः ॥ १३ ॥
मूलम्
विकृतानन बीभत्सस्तच्च तीर्थमुपागतः
तत्र कन्या महाराज वराय परमेश्वरः ॥ १३ ॥
विश्वास-प्रस्तुतिः
कन्याऋद्धिं च यः सेवेत्कन्यादानं प्रयच्छति
तीर्थं तत्र महाराज दशकन्येति विश्रुतम् ॥ १४ ॥

तत्र स्नात्वार्च्चयेद्देवं सर्वपापैः प्रमुच्यते
ततो गच्छेत राजेन्द्र स्वर्गबिन्दुरिति श्रुतम् ॥ १५ ॥

तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति
अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥ १६ ॥

क्रीडते नागलोकस्थोऽप्सरोभिः सह मोदते
ततो गच्छेत राजेन्द्र नरकं तीर्थमुत्तमम् ॥ १७ ॥

तत्र स्नात्वार्च्चयेद्देवं नरकं च न गच्छति
भारभूतं ततो गच्छेदुपवासपरायणः ॥ १८ ॥

एतत्तीर्थं समासाद्य अवतारं तु शाम्भवम्
अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते ॥ १९ ॥

तस्मिंस्तीर्थे नरः स्नात्वा भारभूते महात्मनः
यत्रतत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥ २० ॥

कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम्
अश्वमेधाच्छतगुणं प्रवदन्ति मनीषिणः ॥ २१ ॥

दीपकानां शतं कृत्वा घृतपूर्णं तु दापयेत्
विमानैः सूर्यसङ्काशैर्व्रजते यत्र शङ्करः ॥ २२ ॥

वृषभं यः प्रयच्छेत शङ्खकुन्देन्दु सन्निभम्
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ २३ ॥

चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप
पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च ॥ २४ ॥

यथाशक्त्यनुराजेन्द्र भोजयेत्सहदक्षिणम्
तस्यतीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ॥ २५ ॥

नर्मदाया जलं सिक्त्वा अर्चयित्वा वृषध्वजम्
दुर्गतिं च न पंश्यन्ति तस्य तीर्थप्रभावतः ॥ २६ ॥

एतत्तीर्थं समासाद्य यस्तुप्राणान्परित्यजेत्
सर्वपापविशुद्धात्मा व्रजते यत्र शङ्करः ॥ २७ ॥

जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप
हंसयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ २८ ॥

यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः
गङ्गाद्याः सरितो यावत्तावत्स्वर्गे महीयते ॥ २९ ॥

अनाशनं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप
गर्भवासे तु राजेन्द्र न पुनर्जायते नरः ॥ ३० ॥

ततो गच्छेत राजेन्द्र अटवीतीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्निन्द्रस्यार्द्धासनंलभेत् ॥ ३१ ॥

शृङ्गतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्
तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः ॥ ३२ ॥

एरण्डीनर्मदायाश्च सङ्गमं लोकविश्रुतम्
तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ ३३ ॥

उपवासपरो भूत्वा नित्यं ब्रह्मपरायणः
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ३४ ॥

ततो गच्छेत राजेन्द्र नर्मदोदधिसङ्गमम्
जमदग्निरिति ख्यातं सिद्धो यत्र जनार्दनः ॥ ३५ ॥

यत्रेष्ट्वा बहुभिर्यज्ञैरिन्द्रो देवाधिपोभवत्
तत्र स्नात्वा नरो राजन्नर्मदोदधिसङ्गमे ॥ ३६ ॥

त्रिगुणस्याश्वमेधस्य फलं प्राप्नोति मानवः
पश्चिमोदधिसायुज्यं मुक्तिद्वारविघाटनम् ॥ ३७ ॥

तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः
आराधयन्ति देवेशं त्रिसन्ध्यं विमलेश्वरम् ॥ ३८ ॥

सर्वपापविशुद्धात्मा रुद्रलोके महीयते
विमलेश्वरपरं तीर्थं न भूतं न भविष्यति ॥ ३९ ॥

तत्रोपवासं कृत्वा ये पश्यन्ति विमलेश्वरम्
सर्वपापविशुद्धात्मा रुद्रलोकं व्रजन्ति ते ॥ ४० ॥

ततो गच्छेत राजेन्द्र केशिनीतीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्नुपवासपरायणः ॥ ४१ ॥

उपोष्य रजनीमेकां नियतो नियताशनः
तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया ॥ ४२ ॥

सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरम्
योजनाभ्यन्तरे तिष्ठेदावर्ते संस्थितः शिवः ॥ ४३ ॥

तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्न संशयः
सर्वपापविनिर्मुक्तो यत्र रुद्र सः गच्छति ॥ ४४ ॥

नर्मदासङ्गमं यावद्यावच्चामरकण्टकम्
तत्रान्तरे महाराजन्तीर्थकोट्योदकस्थिताः ॥ ४५ ॥

तीर्थात्तीर्थाटनं चर्या ऋषिकोटिनिषेविता
अग्निहोत्रैश्च दिव्यांशैः सर्वैर्ज्ञानपरायणैः ॥ ४६ ॥

सेवितास्तेन राजेन्द्र ईप्सितार्थप्रदायिकाः
यश्चेदं वै पठेन्नित्यं शृणुयाद्वापि भक्तितः ॥ ४७ ॥

तं तु तीर्थानि सर्वाणि अभिषिञ्चन्ति पाण्डव
नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः ॥ ४८ ॥

प्रीतस्तस्य भवेद्रुद्रो मार्कण्डेयो महामुनिः
वन्ध्या च लभते पुत्रान्दुर्भगा सुभगाभवेत् ॥ ४९ ॥

कुमारीं लभते भर्त्ता यच्च यो वाञ्छते फलम्
तदेव लभते सर्वं नात्र कार्या विचारणा ॥ ५० ॥

ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत्
वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिम् ॥ ५१ ॥

मूर्खस्तु लभते विद्यां त्रिसन्ध्यं यः पठेन्नरः
नरकं च न पश्येत वियोनिं च न गच्छति ५२