०२०

नारद उवाच-

विश्वास-प्रस्तुतिः

ततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति ॥ १ ॥

मूलम्

अस्यतीर्थस्य माहात्म्यं शृणु त्वं पाण्डुनन्दन
तस्मिंस्तीर्थे तु राजेन्द्र यान्यस्थीनि विनिक्षिपेत् ॥ २ ॥

विलयं यान्ति सर्वाणि रूपवान्जायते नरः
गोतीर्थं तु ततो गच्छेद्दृष्ट्वा पापात्प्रमुच्यते ॥ ३ ॥

ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ४ ॥

ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः
तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ॥ ५ ॥

घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम्
सघृतं श्रीफलं दत्वा कृत्वा चान्ते प्रदक्षिणम् ॥ ६ ॥

घण्टाभरणसंयुक्तां कपिलां यः प्रयच्छति
शिवतुल्यो नरो भूत्वा न चेह जायते पुनः ॥ ७ ॥

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः
स्नापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम् ॥ ८ ॥

अङ्गारकनवम्यां तु अमावस्यां तथैव च
स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत् ॥ ९ ॥

घृतेन स्नापयेल्लिङ्गं पूजयेद्भक्तितो द्विजान्
पुष्पकेण विमानेन सहस्रैः परिवारितः ॥ १० ॥

शैवं पदमवाप्नोति नात्र चाभिगतं भवेत्
अक्षयं मोदते कालं यथा रुद्रस्तथैव च ॥ ११ ॥

यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः
राजा भवति धर्मिष्ठो रूपवान्जायते बली ॥ १२ ॥

ततो गच्छेत राजेन्द्र ऋषितीर्थमनुत्तमम्
तृणबिन्दुऋषिर्नाम शापदग्धो व्यवस्थितः ॥ १३ ॥

तस्यतीर्थप्रभावेण पापमुक्तोऽभवद्द्विजः
ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ १४ ॥

श्रावणेमासि सम्प्राप्ते कृष्णपक्षे चतुर्दशीम्
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ १५ ॥

पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात्
गणेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ १६ ॥

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ १७ ॥

सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत्
पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ॥ १८ ॥

प्रयागे यत्फलं दृष्टं शङ्करेण महात्मना
तदेव निखिलं पुण्यं गङ्गाराह्वर्कसङ्गमे ॥ १९ ॥

तस्यैवं पश्चिमे स्थाने समीपेनातिदूरतः
दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम् ॥ २० ॥

उपोष्य रजनीमेकां मासि भाद्रपदे तथा
अमावस्यां नरः स्नात्वा व्रजेद्वै यत्र शङ्करः ॥ २१ ॥

मूलम्

उपोष्य रजनीमेकां मासि भाद्रपदे तथा
अमावस्यां नरः स्नात्वा व्रजेद्वै यत्र शङ्करः ॥ २१ ॥

विश्वास-प्रस्तुतिः

सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत्
पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत् ॥ २२ ॥

दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः
दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासत ॥ २३ ॥

वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम्
आश्चर्यं च महज्जातमुमायाः शङ्करस्य च ॥ २४ ॥

गौरी तु पृच्छते देवं कोयमत्र तु संस्थितः
देवो वा दानवो वाथ कथयस्व महेश्वर ॥ २५ ॥

ईश्वर उवाच-
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः
ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये ॥ २६ ॥

तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत
धूमावर्तशिखा जाता ततोऽद्यापि न तुष्यसि
दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा ॥ २७ ॥

देव उवाच-
न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः
दर्शयामि यथातथ्यं प्रियं ते च करोम्यहम् ॥ २८ ॥

स्मारितो देवदेवेन धर्मरूपो वृषस्तदा
स्मरणादेव देवस्य वृषः शीघ्रमुपस्थितः ॥ २९ ॥

प्राहासौ मानुषीं वाचमादेशो दीयतां प्रभो
वल्मीकैश्छादितो विप्र एनं भूमौ निपातय ॥ ३० ॥

योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः
तत्क्षणात्क्रोधसन्तप्तो हस्तमुत्क्षिप्तवान्वृषम् ॥ ३१ ॥

एवं सम्भाषमाणस्तु कुत्र गच्छसि भो वृष
अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष ॥ ३२ ॥

धर्षितस्तु तदा विप्रो ह्यन्तरिक्षं गतं वृषम्
आकाशे प्रेक्षते भूय एतदद्भुतमुत्तमम् ॥ ३३ ॥

ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः
तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि ॥ ३४ ॥

प्रणम्य दण्डवद्भूमौ स्तुवते परमेश्वरम्
प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम्
भवभीतो भुवनपते भूतं विज्ञापये किञ्चित् ॥ ३५ ॥

त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ
वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य ॥ ३६ ॥

भक्त्या तवापि शङ्करभुवनपते त्वत्स्तुतौ तु मुखरस्य
वन्द्य क्षमस्व भवन्प्रसीद मे तव चरणपतितस्य ॥ ३७ ॥

सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव
त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किञ्चित् ॥ ३८ ॥

यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगात्
त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन ॥ ३९ ॥

उत्कृष्टरसरसायनखड्गाञ्जनपादुकादि सिद्धिर्वा
चिह्नानि भवत्प्रणतानां दृश्यन्त इह जन्मनि प्रकटम् ॥ ४० ॥

शाठ्येन नमति यद्यपि ददासि त्वं धर्ममिच्छतां देव
भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ ॥ ४१ ॥

परदारपरस्वरतं परिभवपरिदुःखशोकसन्तप्तम्
परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥ ४२ ॥

अलीकाभिमानदग्धं क्षणभङ्गुरविभवविलसितं देव
क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश ॥ ४३ ॥

दीनेन्द्रियगणसार्थैर्बन्धुजनैरेव पूरिता आशा
तुच्छा तथापि शङ्कर किं मूढं मां विडम्बयसि ॥ ४४ ॥

तृष्णां हरस्व शीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्याम्
छिन्धि मदमोहपाशानुत्तारय मां महादेव ॥ ४५ ॥

करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यम्
यः पठति भक्तियुक्तस्तस्य तु तुष्येद्भृगोर्यथाहि शिवः ॥ ४६ ॥

अहं तुष्टोस्मि ते विप्र वरं प्रार्थय स्वेप्सितम्
उमया सहितो देवो वरं तस्य हि दापयेत् ॥ ४७ ॥

भृगुरुवाच-
यदि तुष्टोसि देवेश यदि देयो वरो मम
रुद्रवेदी भवेदेवमेतत्सम्पादयस्व मे ॥ ४८ ॥

एवं भवतु विप्रेन्द्र क्रोधस्थानं भविष्यति
न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति ॥ ४९ ॥

तदाप्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः
उपासन्तो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ॥ ५० ॥

दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते
अवशाः स्ववशाश्चापि म्रियन्ते तत्र जन्तवः ॥ ५१ ॥

गुह्यातिगुह्यस्य गतिस्तेषां निःसंशया भवेत्
एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ ५२ ॥

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
औपानहं तदा छत्रं देयमन्नं च काञ्चनम् ॥ ५३ ॥

भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत्
सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया ॥ ५४ ॥

तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेत्
चन्द्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमम् ॥ ५५ ॥

न जानन्ति नरा मूढा विष्णुमायाविमोहिताः
नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप ॥ ५६ ॥

भृगुतीर्थस्य माहात्म्यं यः शृणोति नरः सकृत्
विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ५७ ॥

ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम्
तत्र स्नात्वा नरो राजन्नुपवासपरायणः ॥ ५८ ॥

काञ्चनेन विमानेन ब्रह्मलोके महीयते
धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ॥ ५९ ॥

नर्मदायां स्थितं राजन्सर्वपातकनाशनम्
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ६० ॥

तस्मिन्तीर्थे महाराज प्राणत्यागं करोति यः
चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेत् ॥ ६१ ॥

वसेत्कल्पायुतं साग्रं रुद्रतुल्यपराक्रमः
कालेन महता प्राप्तः पृथिव्यामेकराड्भवेत् ॥ ६२ ॥

ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम्
प्रयागे यत्फलं दृष्टं मार्कण्डेयेन भाषितम् ॥ ६३ ॥

तत्फलं लभते राजन्स्नातमात्रस्तु मानवः
मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम् ॥ ६४ ॥

उपोष्य रजनीमेकां तत्र स्नानं समाचरेत्
यमदूतैर्न बाध्येत इन्द्रलोकं स गच्छति ॥ ६५ ॥

ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः
हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम् ॥ ६६ ॥

तत्र स्नात्वा नरो राजन्धनवान्रूपवान्भवेत्
ततो गच्छेत राजेन्द्र तीर्थं कनखलं महत् ॥ ६७ ॥

गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप
विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति ॥ ६८ ॥

क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति
तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ॥ ६९ ॥

ततो गच्छेत राजेन्द्र ईशतीर्थमनुत्तमम्
ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः ॥ ७० ॥

मूलम्

ततो गच्छेत राजेन्द्र ईशतीर्थमनुत्तमम्
ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः ॥ ७० ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः
वाराहं रूपमास्थाय अचिन्त्यः परमेश्वरः ॥ ७१ ॥

वराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः
विष्णुलोकमवाप्नोति नरकं तु न गच्छति ॥ ७२ ॥

ततो गच्छेत राजेन्द्र सोमतीर्थमनुत्तमम्
पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेत् ॥ ७३ ॥

प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति
हरिश्चन्द्रपुरं दिव्यमन्तरिक्षे तु दृश्यते ॥ ७४ ॥

चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने
नर्मदातोयवेगेन रुरुकच्छोपसेवितम् ॥ ७५ ॥

मूलम्

चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने
नर्मदातोयवेगेन रुरुकच्छोपसेवितम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तस्मिन्स्थाने निवासं च विष्णुः शङ्करमब्रवीत्
द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥ ७६ ॥

ततो गच्छेत राजेन्द्र रुद्रकन्यां तु सङ्गमे
स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात् ॥ ७७ ॥

देवतीर्थं ततो गच्छेत्सर्वदेवनमस्कृतम्
तत्र स्नात्वा तु राजेन्द्र दैवतैः सह मोदते ॥ ७८ ॥

ततो गच्छेत राजेन्द्र शिखितीर्थमनुत्तमम्
तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत् ॥ ७९ ॥

अपरपक्षे अमावास्यां स्नानं तत्र समाचरेत्
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥ ८० ॥

भृगुतीर्थे तु राजेन्द्र तीर्थकोटिर्व्यवस्थिता
अकामो वा सकामो वा तत्र स्नायीत मानवः ॥ ८१ ॥

अश्वमेधमवाप्नोति दैवतैः सह मोदते
तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुङ्गवः
अवतारः कृतस्तेन शङ्करेण महात्मना ॥ ८२ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे विंशतितमोऽध्यायः २०