नारद उवाच-
विश्वास-प्रस्तुतिः
भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना
हुङ्कारितास्तु देवेन दानवाः प्रलयं गताः ॥ १ ॥
मूलम्

तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते
शुक्लतीर्थस्य चोत्पत्तिं शृणु त्वं पाण्डुनन्दन ॥ २ ॥

हिमवच्छिखरे रम्ये नानाधातुविचित्रिते
तरुणादित्यसङ्काशे तप्तकाञ्चनसन्निभे ॥ ३ ॥

वज्रस्फटिकसोपाने चित्रपट्टशिलातले
जाम्बूनदमये दिव्ये नाना पद्मोपशोभिते ॥ ४ ॥

तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम्
लोकानुग्राहकं शान्तं गणवृन्दैः समावृतम् ॥ ५ ॥

स्कन्दनन्दिमहाकालैर्वीरभद्र गणादिभिः
उमया सहितं देवं मार्कण्डः परिपृच्छति ॥ ६ ॥

देवदेव महादेव इन्द्र कामादि संस्तुत
संसारभवभीतोहं सुखोपायं ब्रवीहि मे ॥ ७ ॥
मूलम्
देवदेव महादेव इन्द्र कामादि संस्तुत
संसारभवभीतोहं सुखोपायं ब्रवीहि मे ॥ ७ ॥
विश्वास-प्रस्तुतिः
भगवन्भूतभव्येश सर्वपापप्रणाशनम्
तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर ॥ ८ ॥

ईश्वर उवाच-
शृणुविप्र महाभाग सर्वशास्त्रविशारद
स्नानादि कुरु गच्छ त्वं ऋषिसङ्घैस्समावृतः ॥ ९ ॥

मन्वत्रि याज्ञवल्क्याश्च काश्यपश्चैव अङ्गिराः
यमापस्तम्ब संवर्ताः कात्यायनबृहस्पती ॥ १० ॥

नारदो गौतमश्चैव पृच्छन्ति धर्मकाङ्क्षिणः
गङ्गाकनखले पुण्या प्रयागं पुष्करं गया ॥ ११ ॥

कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे
दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् ॥ १२ ॥

दर्शनात्स्पर्शनाच्चैव स्नानाद्ध्यानात्तपोर्जनात्
होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महत् ॥ १३ ॥

शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितम्
चाणिक्योनाम राजर्षिः सिद्धिं तत्र समागतः ॥ १४ ॥

एतत्क्षेत्रं समुत्पन्नं योजनावृत्तिसंस्थितम्
शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ १५ ॥

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति
अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह ॥ १६ ॥

वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी
कैलासाच्चापि निर्गत्य तत्र सन्निहितो ह्यहम् ॥ १७ ॥

देवकिन्नरगन्धर्वाः सिद्धविद्याधरास्तथा
गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः ॥ १८ ॥

गगनस्थास्तु तिष्ठन्ति विमानैः सर्वकामकैः
शुक्लतीर्थे तु राजेन्द्र आगता धर्मकाङ्क्षिणः ॥ १९ ॥

रजकेन यथा वस्त्रं शुक्लं भवति वारिणा
आजन्मसञ्चितं पापं शुक्लतीर्थे व्यपोहति ॥ २० ॥

स्नानं दानं महापुण्यं मार्कण्ड ऋषिसत्तम
शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति ॥ २१ ॥

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ २२ ॥

तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः
देवदानेन या पुष्टिर्न सा क्रतुशतैरपि ॥ २३ ॥

कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी
घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् ॥ २४ ॥

एकविंशत्कुलोपेतो न च्यवेच्चैश्वरात्पदात्
शुक्लतीर्थं परं तीर्थमृषिसिद्धनिषेवितम् ॥ २५ ॥

तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते
स्नात्वा वै शुक्लतीर्थेपि अर्चयेद्वृषभध्वजम् ॥ २६ ॥

जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः
प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् ॥ २७ ॥

आचार्यं भोजयेत्पश्चाच्छिवव्रतपरः शुचिः
भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत् ॥ २८ ॥

प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेत्
एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु ॥ २९ ॥

दिव्ययानसमारूढस्तूयमानोऽप्सरोगणैः
शिवतुल्यबलोपेतस्तिष्ठत्याभूतसम्प्लवम् ॥ ३० ॥

शुक्लतीर्थे तु या नारी ददाति कनकं शुभम्
घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत् ॥ ३१ ॥

एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु
मोदते देवलोकस्था यावदिन्द्राश्चतुर्दश ॥ ३२ ॥

अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा
स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः ॥ ३३ ॥

दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशङ्करौ
शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ ३४ ॥

अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा
उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ ३५ ॥

यावत्तद्रोमसङ्ख्या तु तत्प्रसूतिकुलेषु च
तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ३६ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे ऊनविंशोध्यायः १९