०१८

स्कन्दतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्

विश्वास-प्रस्तुतिः

आजन्मनः कृतं पापं स्नानमात्राद्व्यपोहति ॥ ५१ ॥

मूलम्

आजन्मनः कृतं पापं स्नानमात्राद्व्यपोहति ॥ ५१ ॥

विश्वास-प्रस्तुतिः

आङ्गिरसं ततो गच्छेत्स्नानं तत्र समाचरेत्
गोसहस्रफलं तस्य रुद्रलोके महीयते ॥ ५२ ॥

मूलम्

आङ्गिरसं ततो गच्छेत्स्नानं तत्र समाचरेत्
गोसहस्रफलं तस्य रुद्रलोके महीयते ॥ ५२ ॥

विश्वास-प्रस्तुतिः

लाङ्गलतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्
तत्र गत्वा तु राजेन्द्र स्नानं तत्र समाचरेत् ॥ ५३ ॥

मूलम्

लाङ्गलतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्
तत्र गत्वा तु राजेन्द्र स्नानं तत्र समाचरेत् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः
वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् ॥ ५४ ॥

मूलम्

सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः
वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
सङ्गमेश्वरं ततो गच्छेत्सर्वपापहरं परम् ॥ ५५ ॥

मूलम्

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
सङ्गमेश्वरं ततो गच्छेत्सर्वपापहरं परम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः
भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः ॥ ५६ ॥

मूलम्

तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः
भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत्
अथ नारी भवेत्कापि तत्र स्नानं समाचरेत् ॥ ५७ ॥

मूलम्

तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत्
अथ नारी भवेत्कापि तत्र स्नानं समाचरेत् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

गौरीतुल्या भवेत्सा तु इन्द्रं याति न संशयः
अङ्गारेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥ ५८ ॥

मूलम्

गौरीतुल्या भवेत्सा तु इन्द्रं याति न संशयः
अङ्गारेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते
अङ्गारक्यां चतुर्थ्यां तु स्नानं तत्र समाचरेत् ॥ ५९ ॥

मूलम्

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते
अङ्गारक्यां चतुर्थ्यां तु स्नानं तत्र समाचरेत् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

अक्षयं मोदते कालं मुरारिकृतशासनः
अयोनिसङ्गमे स्नात्वा न पश्येद्योनिमन्दिरम् ॥ ६० ॥

मूलम्

अक्षयं मोदते कालं मुरारिकृतशासनः
अयोनिसङ्गमे स्नात्वा न पश्येद्योनिमन्दिरम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

पाण्डवेश्वरकं गत्वा स्नानं तत्र समाचरेत्
अक्षयं मोदते कालमवध्यस्तु सुरासुरैः ॥ ६१ ॥

मूलम्

पाण्डवेश्वरकं गत्वा स्नानं तत्र समाचरेत्
अक्षयं मोदते कालमवध्यस्तु सुरासुरैः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः
तत्र भुक्त्वा महाभोगान्मर्त्ये राजाभिजायते ॥ ६२ ॥

मूलम्

विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः
तत्र भुक्त्वा महाभोगान्मर्त्ये राजाभिजायते ॥ ६२ ॥

विश्वास-प्रस्तुतिः

कम्बोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत्
उत्तरायणे तु सम्प्राप्ते यदिच्छेत्तस्य तद्भवेत् ॥ ६३ ॥

मूलम्

कम्बोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत्
उत्तरायणे तु सम्प्राप्ते यदिच्छेत्तस्य तद्भवेत् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

चन्द्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ६४ ॥

मूलम्

चन्द्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ६४ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र तीर्थं शक्रस्य विश्रुतम्
पूजितं देवराजेन देवैरपि नमस्कृतम् ॥ ६५ ॥

मूलम्

ततो गच्छेत राजेन्द्र तीर्थं शक्रस्य विश्रुतम्
पूजितं देवराजेन देवैरपि नमस्कृतम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा नरो राजन्दानं दत्वा च काञ्चनम्
अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ॥ ६६ ॥

मूलम्

तत्र स्नात्वा नरो राजन्दानं दत्वा च काञ्चनम्
अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च
तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ॥ ६७ ॥

मूलम्

वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च
तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान्
अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ॥ ६८ ॥

मूलम्

ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान्
अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ॥ ६८ ॥

विश्वास-प्रस्तुतिः

स्वामी भवति मर्त्येषु तस्य तीर्थ प्रभावतः
ततो गच्छेत राजेन्द्र ब्रह्मावर्त्तमनुत्तमम् ॥ ६९ ॥

मूलम्

स्वामी भवति मर्त्येषु तस्य तीर्थ प्रभावतः
ततो गच्छेत राजेन्द्र ब्रह्मावर्त्तमनुत्तमम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा नरो राजंस्तर्पयेत्पितृदेवताः
उपोष्य रजनीमेकां पिण्डं दत्वा यथाविधि ॥ ७० ॥

मूलम्

तत्र स्नात्वा नरो राजंस्तर्पयेत्पितृदेवताः
उपोष्य रजनीमेकां पिण्डं दत्वा यथाविधि ॥ ७० ॥

विश्वास-प्रस्तुतिः

कन्यागते यथाऽदित्ये अक्षयं सञ्चितं भवेत्
ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ॥ ७१ ॥

मूलम्

कन्यागते यथाऽदित्ये अक्षयं सञ्चितं भवेत्
ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति
सम्पूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात् ॥ ७२ ॥

मूलम्

तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति
सम्पूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ॥ ७३ ॥

मूलम्

नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तत्र सर्वगतो राजा पृथिव्यामभिजायते
सर्वलक्षणसम्पूर्णः सर्वव्याधिविवर्जितः ॥ ७४ ॥

मूलम्

तत्र सर्वगतो राजा पृथिव्यामभिजायते
सर्वलक्षणसम्पूर्णः सर्वव्याधिविवर्जितः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

नार्मदीयोत्तरेकूले तीर्थं परमशोभनम्
आदित्यायतनं रम्यमीश्वरेण तु भावितम् ॥ ७५ ॥

मूलम्

नार्मदीयोत्तरेकूले तीर्थं परमशोभनम्
आदित्यायतनं रम्यमीश्वरेण तु भावितम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा तु राजेन्द्र दानं दत्वा च शक्तितः
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ॥ ७६ ॥

मूलम्

तत्र स्नात्वा तु राजेन्द्र दानं दत्वा च शक्तितः
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥ ७७ ॥

मूलम्

दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥ ७७ ॥

विश्वास-प्रस्तुतिः

माघमासे तु सम्प्राप्ते शुक्लपक्षस्य सप्तमीम्
वसेदायतने यस्तु निरात्मा यो जितेन्द्रियः ॥ ७८ ॥

मूलम्

माघमासे तु सम्प्राप्ते शुक्लपक्षस्य सप्तमीम्
वसेदायतने यस्तु निरात्मा यो जितेन्द्रियः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

न जायते व्याधितश्च कालेन्धो बधिरस्तथा
सुभगो रूपसम्पन्नः स्त्रीणां भवति वल्लभः ॥ ७९ ॥

मूलम्

न जायते व्याधितश्च कालेन्धो बधिरस्तथा
सुभगो रूपसम्पन्नः स्त्रीणां भवति वल्लभः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

इदं तीर्थं महापुण्यं मार्कण्डेयेन भाषितम्
ये प्रयान्ति न राजेन्द्र वञ्चितास्ते न संशयः ॥ ८० ॥

मूलम्

इदं तीर्थं महापुण्यं मार्कण्डेयेन भाषितम्
ये प्रयान्ति न राजेन्द्र वञ्चितास्ते न संशयः ॥ ८० ॥

विश्वास-प्रस्तुतिः

मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ ८१ ॥

मूलम्

मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

मोदते सर्वलोकस्थो यावदिन्द्राश्चतुर्दश
ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ॥ ८२ ॥

मूलम्

मोदते सर्वलोकस्थो यावदिन्द्राश्चतुर्दश
ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः
बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ॥ ८३ ॥

मूलम्

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः
बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः
कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ॥ ८४ ॥

मूलम्

कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः
कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

यत्र स्नात्वा तु राजेन्द्र सर्वसम्पदमाप्नुयात्
ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् ॥ ८५ ॥

मूलम्

यत्र स्नात्वा तु राजेन्द्र सर्वसम्पदमाप्नुयात्
ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः
काञ्चनं तु ततो दद्यादन्नशक्त्या तु बुद्धिमान् ॥ ८६ ॥

मूलम्

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः
काञ्चनं तु ततो दद्यादन्नशक्त्या तु बुद्धिमान् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

पुष्पकेण विमानेन वायुलोकं स गच्छति
मम तीर्थं ततो गच्छेन्माघमासे युधिष्ठिर ॥ ८७ ॥

मूलम्

पुष्पकेण विमानेन वायुलोकं स गच्छति
मम तीर्थं ततो गच्छेन्माघमासे युधिष्ठिर ॥ ८७ ॥

विश्वास-प्रस्तुतिः

कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत्
नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसङ्कटम् ॥ ८८ ॥

मूलम्

कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत्
नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसङ्कटम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र अप्सरोभिः प्रमोदते ॥ ८९ ॥

मूलम्

अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र अप्सरोभिः प्रमोदते ॥ ८९ ॥

विश्वास-प्रस्तुतिः

पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत्
चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ॥ ९० ॥

मूलम्

पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत्
चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ॥ ९० ॥

विश्वास-प्रस्तुतिः

कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत्
यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् ॥ ९१ ॥

मूलम्

कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत्
यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ॥ ९२ ॥

मूलम्

स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

स्नातमात्रो नरस्तत्र गोसहस्र फलं लभेत्
सोमतीर्थं ततो गच्छेत्स्नानमात्रं समाचरेत् ॥ ९३ ॥

मूलम्

स्नातमात्रो नरस्तत्र गोसहस्र फलं लभेत्
सोमतीर्थं ततो गच्छेत्स्नानमात्रं समाचरेत् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते
सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ॥ ९४ ॥

मूलम्

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते
सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम्
यस्तु चान्द्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ९५ ॥

मूलम्

त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम्
यस्तु चान्द्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ९५ ॥

विश्वास-प्रस्तुतिः

सर्वपापविशुद्धात्मा सोमलोकं स गच्छति
अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने ॥ ९६ ॥

मूलम्

सर्वपापविशुद्धात्मा सोमलोकं स गच्छति
अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने ॥ ९६ ॥

विश्वास-प्रस्तुतिः

सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते
स्तम्भतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥ ९७ ॥

मूलम्

सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते
स्तम्भतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

स्नातमात्रो नरस्तत्र सोमलोके महीयते
ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ॥ ९८ ॥

मूलम्

स्नातमात्रो नरस्तत्र सोमलोके महीयते
ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम्
असुरा योधितास्तत्र वासुदेवेन कोटिशः ॥ ९९ ॥

मूलम्

योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम्
असुरा योधितास्तत्र वासुदेवेन कोटिशः ॥ ९९ ॥

तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति १००
ततो गच्छेत्तु राजेन्द्र तापसेश्वरमुत्तमम्
अमोहकमिति ख्यातं पितॄन्यस्तत्र तर्पयेत् १०१
पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि
तत्र स्नात्वा नरो राजन्पितृपिण्डं तु दापयेत् १०२
गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः
तस्मिंस्तु दापयेत्पिण्डं वैशाखे तु विशेषतः १०३
तृप्यन्ति पितरस्तावद्यावत्तिष्ठति मेदिनी
ततो गच्छेत राजेन्द्र सिद्धेश्वरमनुत्तमम् १०४
तत्र गत्वा तु राजेन्द्र गणपत्यन्तिकं व्रजेत्
ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः १०५
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते
नर्मदादक्षिणेकूले तीर्थं परमशोभनम् १०६
कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान्
दिव्यं वर्षसहस्रं तु शङ्करं पर्युपासते १०७
समाधिपर्वदग्धस्तु शङ्करेण महात्मना
श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि १०८
एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः
दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः १०९
उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः
विमोक्षयित्वा तान्सर्वान्नर्मदातटमास्थितान् ११०
तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः
त्वत्प्रसादान्महादेव तीर्थं च भवतूत्तमम् १११
अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समन्ततः
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ११२
कुसुमायुधरूपेण रुद्रलोके महीयते
वैश्वानरे यमेनैव कामदेवेन वायवे ११३
तपस्तप्त्वा तु राजेन्द्र तत्रैव च पुरागतैः
अन्धोनस्य समीपे तु नातिदूरे तु तस्य वै ११४
स्नानं दानं च तत्रैव भोजनं पिण्डपातनम्
अग्निवेशे जले वापि अथवापि अनाशने ११५
अनिवर्तिका गतिस्तस्य मृतस्याप्यर्द्धयोजने
त्रैयम्बकेण तोयेन स्नापयेन्नरपुङ्गवः ११६
अन्धोनमूले दत्वा तु पिण्डं चैव यथाविधि
पितरस्तस्य तृप्यन्ति यावच्चन्द्र दिवाकरौ ११७
उत्तरायणे तु सम्प्राप्ते तत्र स्नानं करोति यः
पुरुषो वापि स्त्री वापि वसेदायतने शुचिः ११८
सिद्धेश्वरस्य देवस्य प्रभाते पूजनान्नरः
स तां गतिमवाप्नोति न तां सर्वैर्महामखैः ११९
यदा च तीर्थकालेन रूपवान्सुभगो भवेत्
मर्त्ये भवति राजासावासमुद्रान्तगोचरे १२०
क्षेत्रपालं न पश्येच्च दण्डपालं महाबलम्
वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुण्डलम् १२१
एतत्तीर्थफलं ज्ञात्वा सर्वेदेवाः समागताः
मुञ्चन्ति पुष्पवृष्टिं तु स्तुवन्ति कुसुमेश्वरम् १२२