नारद उवाच-
विश्वास-प्रस्तुतिः
उत्तरे नर्मदाकूले तीर्थं योजनविस्तृतम्
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥ १ ॥
मूलम्

तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते
पञ्चवर्षसहस्राणि क्रीडते कामरूपधृक् ॥ २ ॥

गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः
इन्द्रजिन्नाम सम्प्राप्तं तस्य तीर्थप्रभावतः ॥ ३ ॥

मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम्
मेघनादो गणस्तत्र वरसम्पन्नतां गतः ॥ ४ ॥
मूलम्
मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम्
मेघनादो गणस्तत्र वरसम्पन्नतां गतः ॥ ४ ॥
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र ब्रह्मावर्तमिति स्मृतम्
तत्र सन्निहितो ब्रह्मा नित्यमेव युधिष्ठिर ॥ ५ ॥

तत्र स्नात्वा तु राजेन्द्र ब्रह्मलोके महीयते
ततोंऽगारेश्वरे तीर्थे नियतो नियमाशनः ॥ ६ ॥

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ॥ ७ ॥

तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत्
काञ्चीतीर्थं ततो गच्छेद्देवर्षिगणसेवितम् ॥ ८ ॥

तत्र स्नात्वा नरो राजन्गोलोकं समवाप्नुयात्
ततो गच्छेत्तु राजेन्द्र कुण्डलेश्वरमुत्तमम् ॥ ९ ॥

तत्र सन्निहितो रुद्रस्तिष्ठते उमया सह
तत्र स्नात्वा तु राजेन्द्र अवध्यस्त्रिदशैरपि ॥ १० ॥

पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम्
तत्र गत्वा तु राजेन्द्र रुद्रलोके महीयते ॥ ११ ॥

ततो गच्छेत्तु राजेन्द्र विमलं विमलेश्वरम्
तत्र देवशिखा रम्या ईश्वरेण निपातिता ॥ १२ ॥

तत्र प्राणान्परित्यज्य रुद्रलोकमवाप्नुयाम्
ततः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत् ॥ १३ ॥

स्नानमात्रे नरस्तत्र इन्द्रस्यार्द्धासनं लभेत्
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ॥ १४ ॥

तारयेत्सर्वभूतानि स्थावराणि चराणि च
सर्वदेवातिदेवेन ईश्वरेण महात्मना ॥ १५ ॥
मूलम्
तारयेत्सर्वभूतानि स्थावराणि चराणि च
सर्वदेवातिदेवेन ईश्वरेण महात्मना ॥ १५ ॥
विश्वास-प्रस्तुतिः
कथिता ऋषिसङ्घेभ्यो ह्यस्माकं च विशेषतः
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ॥ १६ ॥

रुद्रदेहाद्विनिष्क्रान्ता लोकानां हितकाम्यया
सर्वपापहरा नित्यं सर्वप्राणिनमस्कृता ॥ १७ ॥

संस्तुता देवगन्धर्वैरप्सरोभिस्तथैव च
नमः पुण्यजले आद्ये नमः सागरगामिनि ॥ १८ ॥

नमोस्तु ते ऋषिगणैः शङ्करदेहनिःसृते
नमोस्तु ते धर्मवृते वरानने नमोस्तु ते देवगणैकवन्दिते ॥ १९ ॥

नमोस्तु ते सर्वपवित्रपावने नमोस्तु ते सर्वजगत्सुपूजिते
यश्चेदं पठते स्तोत्रं नित्यं शुद्धेन मानवः ॥ २० ॥

ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत्
वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम् ॥ २१ ॥

अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः
नर्मदां सेव्यते नित्यं स्वयं देवो महेश्वरः
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ २२ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे सप्तदशोऽध्यायः १७