०१६

ऋषिरुवाच-

विश्वास-प्रस्तुतिः

पृच्छन्ति ते महात्मानो नारदं हि महाजनाः
युधिष्ठिरपराः सर्वे ऋषयश्च तपोधनाः ॥ १ ॥

मूलम्

पृच्छन्ति ते महात्मानो नारदं हि महाजनाः
युधिष्ठिरपराः सर्वे ऋषयश्च तपोधनाः ॥ १ ॥

विश्वास-प्रस्तुतिः

आख्याहि भगवंस्तथ्यं कावेरीसङ्गमे महत्
लोकानां च हितार्थाय अस्माकं च विवृद्धये ॥ २ ॥

मूलम्

आख्याहि भगवंस्तथ्यं कावेरीसङ्गमे महत्
लोकानां च हितार्थाय अस्माकं च विवृद्धये ॥ २ ॥

विश्वास-प्रस्तुतिः

सदा पापरता ये तु नरा दुष्कृतिकारिणः
मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम्
एतदिच्छामि विज्ञातुं भगवन्वक्तुमर्हसि ॥ ३ ॥

मूलम्

सदा पापरता ये तु नरा दुष्कृतिकारिणः
मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम्
एतदिच्छामि विज्ञातुं भगवन्वक्तुमर्हसि ॥ ३ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
शृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः
अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः
इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् ॥ ४ ॥

मूलम्

नारद उवाच-
शृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः
अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः
इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

सिद्धिं प्राप्तो महाराज तन्मे निगदतः शृणु
कावेरी नर्मदां यत्र सङ्गता लोकविश्रुताम् ॥ ५ ॥

मूलम्

सिद्धिं प्राप्तो महाराज तन्मे निगदतः शृणु
कावेरी नर्मदां यत्र सङ्गता लोकविश्रुताम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः
तपस्तप्यति यक्षेन्द्रो दिव्यं वर्षशतं महत् ॥ ६ ॥

मूलम्

तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः
तपस्तप्यति यक्षेन्द्रो दिव्यं वर्षशतं महत् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम्
भो भो यक्ष महासत्व वरं ब्रूहि यथेप्सितम्
ब्रूहि कार्यं यथेष्टं तु यद्वा मनसि वर्त्तते ॥ ७ ॥

मूलम्

तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम्
भो भो यक्ष महासत्व वरं ब्रूहि यथेप्सितम्
ब्रूहि कार्यं यथेष्टं तु यद्वा मनसि वर्त्तते ॥ ७ ॥

विश्वास-प्रस्तुतिः

कुबेर उवाच-
यदि तुष्टोसि देवेश यदि देयो वरो मम
आदिकृच्चैव सर्वेषां यक्षाणामधिपो भवेत् ॥ ८ ॥

मूलम्

कुबेर उवाच-
यदि तुष्टोसि देवेश यदि देयो वरो मम
आदिकृच्चैव सर्वेषां यक्षाणामधिपो भवेत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः
एवमस्तु ततश्चोक्त्वा तत्रैवान्तरधीयत ॥ ९ ॥

मूलम्

कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः
एवमस्तु ततश्चोक्त्वा तत्रैवान्तरधीयत ॥ ९ ॥

विश्वास-प्रस्तुतिः

सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः
पूजितः सर्वयक्षेन्द्रैरभिषिक्तस्तु पार्थिवः ॥ १० ॥

मूलम्

सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः
पूजितः सर्वयक्षेन्द्रैरभिषिक्तस्तु पार्थिवः ॥ १० ॥

विश्वास-प्रस्तुतिः

कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम्
ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः ॥ ११ ॥

मूलम्

कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम्
ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः
कावेरी च महापुण्या नर्मदा च महानदी ॥ १२ ॥

मूलम्

तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः
कावेरी च महापुण्या नर्मदा च महानदी ॥ १२ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा तु राजेन्द्र अर्चयेद्वृषभध्वजम्
अश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ १३ ॥

मूलम्

तत्र स्नात्वा तु राजेन्द्र अर्चयेद्वृषभध्वजम्
अश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ १३ ॥

विश्वास-प्रस्तुतिः

अग्निप्रवेशं यः कुर्याद्यश्च कुर्य्यादनाशनम्
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १४ ॥

मूलम्

अग्निप्रवेशं यः कुर्याद्यश्च कुर्य्यादनाशनम्
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत्
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापरे ॥ १५ ॥

मूलम्

सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत्
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापरे ॥ १५ ॥

विश्वास-प्रस्तुतिः

मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति
पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः ॥ १६ ॥

मूलम्

मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति
पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः ॥ १६ ॥

विश्वास-प्रस्तुतिः

भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः
तत्र पीत्वा जलं सम्यक्चान्द्रायणफलं लभेत् ॥ १७ ॥

मूलम्

भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः
तत्र पीत्वा जलं सम्यक्चान्द्रायणफलं लभेत् ॥ १७ ॥

विश्वास-प्रस्तुतिः

स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति जलं शुभम्
गङ्गायमुनयोर्मध्ये यत्फलं यान्ति मानवाः ॥ १८ ॥

मूलम्

स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति जलं शुभम्
गङ्गायमुनयोर्मध्ये यत्फलं यान्ति मानवाः ॥ १८ ॥

विश्वास-प्रस्तुतिः

कावेरीसङ्गमे स्नात्वा तत्फलं तस्य जायते
एवं तु तस्य राजेन्द्र कावेरीसङ्गमं महत्
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥ १९ ॥

मूलम्

कावेरीसङ्गमे स्नात्वा तत्फलं तस्य जायते
एवं तु तस्य राजेन्द्र कावेरीसङ्गमं महत्
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥ १९ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे षोडशोऽध्यायः १६