०१५

नारद उवाच-

विश्वास-प्रस्तुतिः

यन्मां पृच्छसि कौन्तेय तन्निबोध च तच्छृणु
एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः ॥ १ ॥

मूलम्

नाम्ना हरेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम्
तस्मिन्स्थाने महादेवश्चिन्तयंस्त्रैपुरं वधम् ॥ २ ॥

गां(गा?)डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम्
स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ॥ ३ ॥

अग्रे चाग्निं प्रतिष्ठाप्य मुखे वायुः समर्पितः
हयाश्च चतुरो वेदाः सर्वदेवमयं रथम् ॥ ४ ॥

चक्रगौ चाश्विनौ देवावक्षं चक्रधरः स्वयम्
स्वयमिन्द्रश्च चापान्ते बाणे वैश्रवणः स्थितः ॥ ५ ॥

यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः
चक्राणामारके न्यस्ता गन्धर्वा लोकविश्रुताः ॥ ६ ॥

प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः
एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ॥ ७ ॥

सोतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान्
यदा त्रीणि समेतानि अन्तरिक्षचराणि च ॥ ८ ॥

त्रिपुराणि त्रिशल्येन तदा तानि बिभेद सः
शरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति ॥ ९ ॥

भ्रष्टतेजा स्त्रियो जाता बलं तेषां व्यशीर्यत
उत्पाताश्च पुरे तस्मिन्प्रादुर्भूता सहस्रशः ॥ १० ॥

त्रिपुरस्य विनाशाय कालरूपोभवत्तदा
अट्टहासं प्रमुञ्चन्ति रूपाः काष्ठमयास्तथा ॥ ११ ॥

निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मणा
स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितम् ॥ १२ ॥

स्वप्ने पश्यन्ति ते चैवं विपरीतानि यानि तु
एतान्पश्यति उत्पातांस्तत्र स्थाने तु ये जनाः ॥ १३ ॥

तेषां बलं च बुद्धिश्च हरक्रोधेन नाशितम्
संवर्तको नाम वायुर्युगान्तप्रतिमो महान् ॥ १४ ॥

समीरितोनलश्रेष्ठ उत्तमाङ्गेषु बाधते
ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च ॥ १५ ॥

सर्वं तद्व्याकुलीभूतं हाहाकारमचेतनम्
भग्नोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलन्ति च ॥ १६ ॥

तेनैव दीपितं सर्वं ज्वलते विशिखैः शिखैः
द्रुमा आरामगण्डानि गृहाणि विविधानि च ॥ १७ ॥

दशदिक्षु प्रवृत्तोयं समिद्धो हव्यवाहनः
ततः शिलाः प्रमुञ्चन्ति दिशो दश विभागशः ॥ १८ ॥

शिखासहस्रैरत्युग्रैः प्रज्वलन्ति हुताशनैः
सर्वं किंशुकसम्प्रख्यं ज्वलितन्दृश्यते पुरम् ॥ १९ ॥

गृहाद्गृहान्तरे नैव गन्तुं धूमैश्च शक्यते
हरकोपानलादग्धं क्रन्दमानं सुदुःखितम् ॥ २० ॥

प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम्
प्रासादशिखराग्राणि विशीर्यन्ति सहस्रशः ॥ २१ ॥

नानारत्नविचित्राणि विमानान्यप्यनेकधा
गृहाणि चैव रम्याणि दह्यन्ते दीप्तिवह्निना ॥ २२ ॥

बाधन्ते द्रुमखण्डेषु जनस्थाने तथैव च
देवागारेषु सर्वेषु प्रज्वलन्ते ज्वलन्त्यपि ॥ २३ ॥

सीदन्ति चानलस्पृष्टाः क्रन्दन्ति विविधै स्वरैः
गिरिकूटनिभास्तत्र दृश्यन्तेंऽगारराशयः ॥ २४ ॥

स्तुवन्ति देवदेवेशं परित्रायस्व मां प्रभो
अन्योन्यं च परिष्वज्य हुताशनप्रपीडिताः ॥ २५ ॥

दह्यन्ते दानवास्तत्र शतशोथ सहस्रशः
हंसकारण्डवाकीर्णा नलिनी सह पङ्कजा ॥ २६ ॥

दह्यन्तेनलदग्धानि पुरोद्यानानि दीर्घिकाः
अम्लानैः पङ्कजैश्छन्ना विस्तीर्णा योजनैः शतैः ॥ २७ ॥

गिरिकूटनिभास्तत्र प्रासादारत्नभूषिताः
पतन्त्यनलनिर्दग्धा निस्तोया जलदा इव ॥ २८ ॥

सह स्त्रीबालवृद्धेषु गोषु पक्षिषु वाजिषु
निर्दयो दहते वह्निर्हरकोपेन प्रेरितः ॥ २९ ॥

सपत्नीकाश्चैव सुप्ताः संसुप्ता बहवो जनाः
पुत्रमालिङ्ग्यते गाढं दह्यन्ते त्रिपुरारिणा ॥ ३० ॥

अथ तस्मिन्पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः
अग्निज्वालाहतास्तत्र पतन्ति धरणीतले ॥ ३१ ॥

काचिद्बाला विशालाक्षी मुक्तावलि विभूषिता
धूमेनाकुलिता सा तु प्रतिबुद्धा शिखार्द्दिता ॥ ३२ ॥

सुतं सञ्चिन्त्यमाना सा पतिता धरणीतले
काचित्सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ॥ ३३ ॥

धूमेनाकुलिता सा तु पतिता धरणीतले
अन्या गृहीतहस्ता तु सखी दहति बालकैः ॥ ३४ ॥

अनेन दिव्यरूपान्यादृष्टा मदविमोहिता
शिरसा प्राञ्जलिं कृत्वा विज्ञापयति पावकम् ॥ ३५ ॥

यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु
स्त्रियः किमपराध्यन्ते गृहपञ्जरकोकिलाः ॥ ३६ ॥

पापनिर्दय निर्ल्लज्ज कस्ते कोपः स्त्रियोपरि
न दाक्षिण्यं न ते लज्जा न सत्यं शौचवर्जितः ॥ ३७ ॥

अनेकरूपवर्णाढ्या उपलभ्या वदस्व ह
किं त्वया न श्रुतं लोके अवध्याः सर्वयोषितः ॥ ३८ ॥

किं तु तुभ्यं गुणा ह्येते दहनस्त्र्यर्दनं प्रति
न कारुण्यं दया वापि दाक्षिण्यं वा स्त्रियोपरि ॥ ३९ ॥

दयां कुर्वन्ति म्लेच्छापि दहनं प्रेक्ष्य योषितः
म्लेच्छानामपि कष्टोसि दुर्निवार्यो ह्यचेतनः ॥ ४० ॥

एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति
आसामपि दुराचार स्त्रीणां किं विनिपातसे ॥ ४१ ॥

दुष्ट निर्घृण निर्लज्ज हुताश मन्दभाग्यक
निराशस्त्वं दुराचार बालान्दहसि निर्दय ॥ ४२ ॥

एवं प्रलपमानास्ता जल्पमाना बहुस्वरम्
अन्याः क्रोशन्ति सङ्क्रुद्धा बालशोकेन मोहिताः ॥ ४३ ॥

दहते निर्दयो वह्निः सङ्क्रुद्धः सर्वशत्रुवत्
पुष्करिण्यां जले ज्वाला कूपेष्वपि तथैव च ॥ ४४ ॥

अस्मान्सन्दह्य म्लेच्छ त्वं कां गतिं प्रापयिष्यसि
एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ॥ ४५ ॥

वैश्वानर उवाच-
स्ववशो नैव युष्माकं विनाशं तु करोम्यहम्
अहमादेशकर्ता वै नाहं कर्त्तास्म्यनुग्रहम् ॥ ४६ ॥

अत्र क्रोधसमाविष्टो विचरामि यदृच्छया
ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् ॥ ४७ ॥

आसनस्थोऽब्रवीदेवमहं देवैर्विनाशितः
अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः ॥ ४८ ॥

अपरीक्ष्य ह्यहं दग्धः शङ्करेण महात्मना
नान्यः शत्रुस्तु मां हन्तुं वर्ज्जयित्वा महेश्वरम् ॥ ४९ ॥

उत्थितः शिरसा कृत्वा लिगं त्रिभुवनेश्वरम्
निर्गतः स पुरद्वारात्परित्यज्य सुहृत्स्वयम् ॥ ५० ॥

रत्नानि सुविचित्राणि स्त्रियो नानाविधास्तथा
गृहीत्वा शिरसा लिङ्गं न्यस्तं नगरमण्डले ॥ ५१ ॥

स्तुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम्
हर त्वयाहं निर्दग्धो यदि वध्योसि शङ्कर ॥ ५२ ॥

त्वत्प्रसादान्महादेव मा मे लिङ्गं विनश्यतु
अर्चितं हि महादेव भक्त्या परमया सदा ॥ ५३ ॥

त्वया यद्यपि वध्योहं मा मे लिङ्गं विनश्यतु
प्राप्यमेतन्महादेव त्वत्पादग्रहणं मम ॥ ५४ ॥

जन्मजन्म महादेव त्वत्पादनिरतो ह्यहम्
तोटकच्छन्दसा देवं स्तुत्वा तु परमेश्वरम् ॥ ५५ ॥

ॐशिवशङ्करसर्वकराय नमो भवभीममहेशशिवाय नमः
कुसुमायुध देहविनाशकर त्रिपुरान्तकरान्धक चूर्णकर ॥ ५६ ॥

प्रमदाप्रियकामविभक्त नमो हि नमः सुरसिद्धगणैर्नमितः
हयवानरसिंहगजेन्द्रमुखैरति ह्रस्वसुदीर्घमुखैश्च गणैः ॥ ५७ ॥

उपलब्धुमशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्बहुभिः
प्रणतो भगवन्बहुभक्तिमता चलचन्द्र कलाधर देव नमः ॥ ५८ ॥

सहपुत्रकलत्रकलापधनैः सततं जय देहि अनुस्मरणम्
व्यथितोस्मि शरीरशतैर्बहुभिर्गमिताद्य महानरकस्य गतिः ॥ ५९ ॥

न निवर्तति यन्ममपापगतिः शुचिकर्मविशुद्धमपि त्यजति
अनुकम्पति दिग्भ्रमति भ्रमति भ्रम एष कुबुद्धि निवारयति ॥ ६० ॥

यः पठेत्तोटकं दिव्यं प्रयतः शुचिमानसः
बाणस्यैव यथारुद्रस्तस्यैव वरदो भवेत् ॥ ६१ ॥

इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः
प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ॥ ६२ ॥

ईश्वर उवाच-
न भेतव्यं त्वया वत्स सौवर्णे तिष्ठ दानव
पुत्रपौत्रसपत्नीनां भार्याभृत्यजनैः सह ॥ ६३ ॥

अद्यप्रभृति बाण त्वमवध्यस्त्रिदशैरपि
भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव ॥ ६४ ॥

अक्षयश्चाव्ययो लोके विचचार ह निर्भयः
ततो निवारयामास रुद्र सप्तशिखं तथा ॥ ६५ ॥

तृतीयं रक्षितं तस्य शङ्करेण महात्मना
भ्रमते गगने नित्यं रुद्रतेजः प्रभावतः ॥ ६६ ॥

एवं तु त्रिपुरं दग्धं शङ्करेण महात्मना
ज्वालामालाप्रदीप्तं तु पतितं धरणीतले ॥ ६७ ॥

एकं निपातितं तस्य श्रीशैले त्रिपुरान्तके
द्वितीयं पातितं तत्र पर्वतेऽमरकण्टके ॥ ६८ ॥

दग्धे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता
ज्वलन्तं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ॥ ६९ ॥

ऊर्ध्वेन प्रस्थिता तस्य दिव्या ज्वाला दिवं गता
हाहाकारस्तदा जातो सदेवासुरकिन्नरान् ॥ ७० ॥

तं शरं स्तम्भयेद्रुद्रो माहेश्वरपुरोत्तमे
एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकण्टके ॥ ७१ ॥

चतुर्द्दशभुवनानि सुभुक्त्वा पाण्डुनन्दन
वर्षकोटिसहस्रं तु त्रिंशत्कोट्यस्तथा पराः ॥ ७२ ॥

ततो महीतलं प्राप्य राजा भवति धार्मिकः
पृथिव्यामेकच्छत्रेण भुङ्क्ते नास्त्यत्र संशयः ॥ ७३ ॥

एष पुण्यो महाराज सर्वतोऽमरकण्टकः
चन्द्र सूर्योपरागेषु गच्छेद्योऽमरकण्टकम् ॥ ७४ ॥

अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः
स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ॥ ७५ ॥

सन्निहत्या गमिष्यन्ति राहुग्रस्ते दिवाकरे
तदेव निखिलं पुण्यं पर्वतेऽमरकण्टके ॥ ७६ ॥

पुण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः
तत्र ज्वालेश्वरो नाम पर्वतेऽमरकण्टके ॥ ७७ ॥

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
ज्वालेश्वरे महाराज यस्तु प्राणान्परित्यजेत् ॥ ७८ ॥

चन्द्र सूर्योपरागे तु भक्त्यापि शृणु तत्फलम्
अमरा नाम देवास्ते पर्वतेऽमरकण्टके ॥ ७९ ॥

रुद्रलोकमवाप्नोति यावदाभूतसम्प्लवम्
अमरेश्वरस्य देवस्य पर्वतस्य तटे जले ॥ ८० ॥

कोटिश ऋषिमुख्यास्ते तपस्तप्यन्ति सुव्रताः
समन्ताद्योजनं राजन्क्षेत्रं चामरकण्टकम् ॥ ८१ ॥

अकामो वा सकामो वा नर्मदायां शुभे जले
स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति ८२