नारद उवाच-
विश्वास-प्रस्तुतिः
नर्मदा तु नदीश्रेष्ठा पुण्या पुण्यतमा त्रिषु
मुनिभिस्तु महाभागैर्विभक्ता धर्मकाङ्क्षिभिः ॥ १ ॥
मूलम्

यज्ञोपवीतमात्राणि प्रविभक्तानि पाण्डव
तेषु स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते ॥ २ ॥

जलेश्वरं च यत्तीर्थं त्रिषु लोकेषु विश्रुतम्
तस्योत्पत्तिं कथयतः शृणु पाण्डवनन्दन ॥ ३ ॥

पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः
स्तुवन्ति ते महात्मानं देवदेवं महेश्वरम् ॥ ४ ॥

स्तुवमानास्तु सम्प्राप्ता यत्र देवो महेश्वरः
विज्ञापयन्ति देवेशं सेन्द्राश्चैव मरुद्गणाः
भयोद्विग्नान्विरूपाक्ष परित्रायस्व नः प्रभो ॥ ५ ॥

ईश्वर उवाच-
स्वागतं तु मुनिश्रेष्ठाः किमर्थमिह चागताः
किं दुःखं कोऽनुसन्तापः कुतो वा भयमागतम् ॥ ६ ॥

कथयध्वं महाभागा एतदिच्छामि वेदितुम्
एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः ॥ ७ ॥

ऋषय ऊचुः-
अपि घोरो महावीर्यो दानवो बलदर्पितः
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ॥ ८ ॥

गगने तु वसद्दिव्यं भ्रमते तस्य तेजसा
तस्माद्भीता विरूपाक्ष त्वामेव शरणं गताः ॥ ९ ॥

त्रायस्व महतो दुःखाद्देवत्वं हि परा गतिः
एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥ १० ॥

येन देवाः सुप्रसन्नाः सुखमेधन्ति शङ्कर
परां निर्वृतिमायान्ति तत्प्रभो कर्तुमर्हसि ॥ ११ ॥

देव उवाच-
एतत्सर्वं करिष्यामि मा विषादं करिष्यथ
अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् ॥ १२ ॥

आश्वासयित्वा तान्सर्वान्नर्मदातटमास्थितः
चिन्तयामास सर्वेशस्तद्वधं प्रति पाण्डव ॥ १३ ॥

कथं केन प्रकारेण हन्तव्यस्त्रिपुरो मया
एवं सञ्चिन्त्य भगवान्नारदं स्मरते तदा
स्मरणादेव सम्प्राप्तो नारदः समुपस्थितः ॥ १४ ॥

आज्ञापय महादेव किमर्थं संस्मृतो ह्यहम्
किं कार्यं तु मया देव कर्तव्यं कथयस्व मे ॥ १५ ॥

गच्छ नारद तत्रैव यत्र तत्त्रिपुरं पुरम्
बाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु ॥ १६ ॥

भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाः
तासां वै तेजसा विप्र भ्रमते त्रिपुरं दिवि ॥ १७ ॥

तत्र गत्वा तु विप्रेन्द्र मन्त्रमन्यं प्रचोदय
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः ॥ १८ ॥

स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रति
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् ॥ १९ ॥

शतयोजनविस्तीर्णं ततो द्विगुणमायतम्
ततः पश्यति तत्रैव बाणं तु बलदर्पितम् ॥ २० ॥

मालाकुण्डलकेयूरैर्मुकुटेन विराजितम्
हाररत्नैश्च सञ्छन्नं चन्द्रकान्तिविभूषितम् ॥ २१ ॥

ललनास्तस्य रत्नाढ्याः नराः कनकमण्डिताः
उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ॥ २२ ॥

बाण उवाच-
स देवर्षिः स्वयं प्राप्तो मद्गृहं प्रति सम्प्रति
अर्घं पाद्यं यथान्यायं क्रियतां द्विजसत्तम ॥ २३ ॥

चिरात्समागतो विप्र स्थीयतामिदमासनम्
एवं सम्भावयित्वा तु नारदं समुपस्थितम् ॥ २४ ॥

तस्य भार्या महादेवी अनौपम्या तु नामतः ॥ २५ ॥

अनौपम्योवाच-
भगवन्मानुषे लोके देवास्तुष्यन्ति केन वै
व्रतेन नियमेनापि दानेन तपसाथवा ॥ २६ ॥
मूलम्
अनौपम्योवाच-
भगवन्मानुषे लोके देवास्तुष्यन्ति केन वै
व्रतेन नियमेनापि दानेन तपसाथवा ॥ २६ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगे
ससागरा नवद्वीपा दत्ता भवति मेदिनी ॥ २७ ॥

सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः
मोदते चाक्षयं कालं सुचिरं कृतशासनः ॥ २८ ॥

आम्रातककपित्थानि कदलीवनमेव च
कदम्ब चम्पकाशोका अनेक विविधद्रुमाः ॥ २९ ॥

अष्टमी च चतुर्थी च द्वादशी च तथा उभे
सङ्क्रान्तिर्विषुवं चैव दिनच्छिद्रमुखं तथा ॥ ३० ॥

पुण्यान्येतानि सर्वाणि उपवासन्ति याः स्त्रियः
तासां तु धर्मयुक्तानां स्वर्गे वासो न संशयः ॥ ३१ ॥

कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः
उपवासरता नार्यो नोपसर्पन्ति तापसाः ॥ ३२ ॥

एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ॥ ३३ ॥

प्रसादं कुरु विप्रेन्द्र दानं गृह्ण यथेप्सितम्
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥ ३४ ॥

तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्ल्लभम्
प्रतिगृह्ण द्विजश्रेष्ठ प्रीयेतां हरिशङ्करौ ॥ ३५ ॥

अन्यस्मै दीयतां भद्रे क्षीणवृतिश्च यो द्विजः
वयं तु शीलसम्पन्ना भक्तिस्तु क्रियते मया ॥ ३६ ॥

एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा
जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः ॥ ३७ ॥

अत्राकृष्टमनास्तास्तु अन्यत्रगतमानसाः
पुरि छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ॥ ३८ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चतुर्दशोऽध्यायः १४