०१३

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम्
नर्मदेति च विख्यातं पापपर्वतदारणम् ॥ १ ॥

मूलम्

वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम्
नर्मदेति च विख्यातं पापपर्वतदारणम् ॥ १ ॥

विश्वास-प्रस्तुतिः

भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद
नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम ॥ २ ॥

मूलम्

भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद
नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम ॥ २ ॥

विश्वास-प्रस्तुतिः

कथमेषा महापुण्या नदी सर्वत्र विश्रुता
नर्मदानाम विख्याता तन्मम ब्रूहिनारद ॥ ३ ॥

मूलम्

कथमेषा महापुण्या नदी सर्वत्र विश्रुता
नर्मदानाम विख्याता तन्मम ब्रूहिनारद ॥ ३ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी
तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ ४ ॥

मूलम्

नारद उवाच-
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी
तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ ४ ॥

विश्वास-प्रस्तुतिः

नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतम्
तदेतद्धि महाराज सर्वं हि कथयामि ते ॥ ५ ॥

मूलम्

नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतम्
तदेतद्धि महाराज सर्वं हि कथयामि ते ॥ ५ ॥

विश्वास-प्रस्तुतिः

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ ६ ॥

मूलम्

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ ६ ॥

विश्वास-प्रस्तुतिः

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ७ ॥

मूलम्

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम्
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

कलिङ्ग देशे पश्चार्द्धे पर्वतेऽमरकण्टके
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ ८ ॥

मूलम्

कलिङ्ग देशे पश्चार्द्धे पर्वतेऽमरकण्टके
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ ८ ॥

विश्वास-प्रस्तुतिः

सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः
तपस्तप्त्वा महाराज सिद्धिं च परमां गताः ॥ ९ ॥

मूलम्

सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः
तपस्तप्त्वा महाराज सिद्धिं च परमां गताः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा महाराज नियमस्थो जितेन्द्रियः
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १० ॥

मूलम्

तत्र स्नात्वा महाराज नियमस्थो जितेन्द्रियः
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १० ॥

विश्वास-प्रस्तुतिः

जनेश्वरे नरः स्नात्वा पिण्डं दत्वा यथाविधि
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ ११ ॥

मूलम्

जनेश्वरे नरः स्नात्वा पिण्डं दत्वा यथाविधि
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता
स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनम् ॥ १२ ॥

मूलम्

पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता
स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

प्रीता तस्य भवेत्सर्वा रुद्रकोटिर्न संशयः
पर्वते पश्चिमस्यान्ते स्वयं देवो महेश्वरः ॥ १३ ॥

मूलम्

प्रीता तस्य भवेत्सर्वा रुद्रकोटिर्न संशयः
पर्वते पश्चिमस्यान्ते स्वयं देवो महेश्वरः ॥ १३ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः
पितृकार्यं तु कुर्वीत विधिदृष्टेन कर्मणा ॥ १४ ॥

मूलम्

तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः
पितृकार्यं तु कुर्वीत विधिदृष्टेन कर्मणा ॥ १४ ॥

विश्वास-प्रस्तुतिः

तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः
आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पाण्डव ॥ १५ ॥

मूलम्

तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः
आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पाण्डव ॥ १५ ॥

विश्वास-प्रस्तुतिः

षष्टिवर्षसहस्राणि स्वर्गलोके महीयते
अप्सरोगणसङ्कीर्णो दिव्यस्त्रीपरिवारितः ॥ १६ ॥

मूलम्

षष्टिवर्षसहस्राणि स्वर्गलोके महीयते
अप्सरोगणसङ्कीर्णो दिव्यस्त्रीपरिवारितः ॥ १६ ॥

विश्वास-प्रस्तुतिः

दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १७ ॥

मूलम्

दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले ॥ १७ ॥

विश्वास-प्रस्तुतिः

धनवान्दानशीलश्च धार्मिकश्चैव जायते
पुनः स्मरति तत्तीर्थं गमनं तत्र कुर्वते ॥ १८ ॥

मूलम्

धनवान्दानशीलश्च धार्मिकश्चैव जायते
पुनः स्मरति तत्तीर्थं गमनं तत्र कुर्वते ॥ १८ ॥

विश्वास-प्रस्तुतिः

तारयित्वा कुलशतं रुद्रलोकं स गच्छति
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १९ ॥

मूलम्

तारयित्वा कुलशतं रुद्रलोकं स गच्छति
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ १९ ॥

विश्वास-प्रस्तुतिः

विस्तारेण तु राजेन्द्र योजनद्वयमन्तरम्
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ २० ॥

मूलम्

विस्तारेण तु राजेन्द्र योजनद्वयमन्तरम्
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ २० ॥

विश्वास-प्रस्तुतिः

पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ २१ ॥

मूलम्

पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ॥ २१ ॥

विश्वास-प्रस्तुतिः

सर्वहिंसानिवृत्तश्च सर्वभूतहिते रतः
एवं सर्वसमाचारः क्षेत्रपालान्परिव्रजेत् ॥ २२ ॥

मूलम्

सर्वहिंसानिवृत्तश्च सर्वभूतहिते रतः
एवं सर्वसमाचारः क्षेत्रपालान्परिव्रजेत् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तस्य पुण्यफलं राजन्शृणुष्वावहितो हि मे
शतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव ॥ २३ ॥

मूलम्

तस्य पुण्यफलं राजन्शृणुष्वावहितो हि मे
शतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव ॥ २३ ॥

विश्वास-प्रस्तुतिः

अप्सरोगणसङ्कीर्णे दिव्यस्त्रीपरिचारिते
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः ॥ २४ ॥

मूलम्

अप्सरोगणसङ्कीर्णे दिव्यस्त्रीपरिचारिते
दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः ॥ २४ ॥

क्रीडते देवलोके तु दैवतैः सह मोदते
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् २५