वसिष्ठ उवाच-
विश्वास-प्रस्तुतिः
प्रदक्षिणमुपावृत्तो जम्बूमार्गे समाविशेत्
जम्बूमार्गं समाविश्य पितृदेवर्षिपूजितम् ॥ १ ॥
मूलम्

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
तत्रोष्य रजनीः पञ्च षष्ठकालेश्नुवन्नरः ॥ २ ॥

न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम्
जम्बुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम् ॥ ३ ॥

न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते
अगस्त्याश्रममासाद्य पितृदेवार्चने रतः ॥ ४ ॥

त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्
शाकवृत्तिः फलैर्वापि कौमारं विन्दते परम् ॥ ५ ॥

कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम्
धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ ॥ ६ ॥

यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते
अर्चयित्वा पितॄन्देवान्प्रयतो नियताशनः ॥ ७ ॥

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
प्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत् ॥ ८ ॥

हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै
महाकालमतो गच्छेन्नियतो नियताशनः ॥ ९ ॥
मूलम्
हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै
महाकालमतो गच्छेन्नियतो नियताशनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्
ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः ॥ १० ॥

नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ॥ ११ ॥

महादेवप्रसादाच्च गाणपत्यमवाप्नुयात्
समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम ॥ १२ ॥

नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम्
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ १३ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्वादशोऽध्यायः १२