०११

वसिष्ठ उवाच-

विश्वास-प्रस्तुतिः

अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग तुष्टोस्मि तव सर्वशः ॥ १ ॥

मूलम्

यस्येदृशस्ते धर्मोयं पितरस्तारितास्त्वया
तेन पश्यसि मां पुत्र याज्यश्चासि ममानघ ॥ २ ॥

प्रीतिर्मे वर्द्धते तेऽद्य ब्रूहि किं करवाणि ते
यद्वक्ष्यसि नरश्रेष्ठ तस्य दातास्मि तेनघ ॥ ३ ॥

दिलीप उवाच-
वेदवेदाङ्गतत्त्वज्ञ सर्वलोकाभिपूजित
कृतमित्येव मन्ये हि यदहं दृष्टवान्प्रभुम् ॥ ४ ॥

यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर
प्रक्ष्यामि हृत्स्थं सन्देहं तन्मे त्वं वक्तुमर्हसि ॥ ५ ॥

अस्ति मे भगवन्कश्चित्तीर्थे यो धर्मसंशयः
तदहं श्रोतुमिच्छामि पृथक्सङ्कीर्तनं त्वया ॥ ६ ॥

प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥ ७ ॥

कथयिष्यामि तदहमृषीणां मत्परायणम्
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥ ८ ॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ९ ॥

प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ॥ १० ॥

अकल्किको निराहारोऽलब्धाहारो जितेन्द्रियः
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥ ११ ॥

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ १२ ॥

ऋषिभिः क्रतवः प्रोक्ता देवेष्वपि यथाक्रमम्
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ १३ ॥

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥ १४ ॥

प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्
न निर्धनैर्नरगणैरेकात्मभिरसाधनैः ॥ १५ ॥

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपते ॥ १६ ॥

ऋषीणां परमं गुह्यमिदं धर्मभृतां वर
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ १७ ॥

अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च
अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ १८ ॥

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ १९ ॥

नृलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं तीर्थमासाद्य देवदेवसमो भवेत् ॥ २० ॥

दशकोटिसहस्राणि तीर्थानां वै महीपते
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं सूर्यवंशज ॥ २१ ॥

आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः
गन्धर्वाप्सरसश्चैव तत्र सन्निहिताः प्रभो ॥ २२ ॥

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्ययोगा महाराज पुण्येन महता द्विजाः ॥ २३ ॥

मनसाप्यभिकामस्य पुष्कराणि मनीषिणः
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ २४ ॥

अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसम्मतः ॥ २५ ॥

मूलम्

अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसम्मतः ॥ २५ ॥

विश्वास-प्रस्तुतिः

पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः
सिद्धिं परमिकां प्राप्ताः पुण्येन महतान्विताः ॥ २६ ॥

तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ २७ ॥

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
तेनैति पूजिताँल्लोकान्ब्रह्मणः सदने स्थितान् ॥ २८ ॥

सायम्प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव ॥ २९ ॥

जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा
पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति ॥ ३० ॥

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः
तथैव पुष्करो राजन्तीर्थानामादिरुच्यते ॥ ३१ ॥

उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥ ३२ ॥

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाश्नुते
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥ ३३ ॥

दुष्करं पुष्करे गन्तुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥ ३४ ॥

त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च
पुष्कराण्यादि तीर्थानि न विद्मस्तत्र कारणम् ॥ ३५ ॥

उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः
स मुक्तः सर्वपापेभ्यो सर्वक्रतुफलं लभेत् ॥ ३६ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पुष्करतीर्थमाहात्म्य-
वर्णनन्नाम एकादशोऽध्यायः ११