०१०

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

पृथिव्या हि परीमाणं संस्थानं सरितस्तथा
त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च ॥ १ ॥

मूलम्

पृथिव्या हि परीमाणं संस्थानं सरितस्तथा
त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम्
आचक्ष्व तानि सर्वाणि यथाफलकराणि च
सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव ॥ २ ॥

मूलम्

तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम्
आचक्ष्व तानि सर्वाणि यथाफलकराणि च
सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव ॥ २ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः
यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ॥ ३ ॥

मूलम्

सूत उवाच-
धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः
यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि
युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः ॥ ४ ॥

मूलम्

पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि
युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः ॥ ४ ॥

विश्वास-प्रस्तुतिः

हृतराज्याः पाण्डुपुत्रा वने तस्मिन्महारथाः
न्यवसन्ति महाभागा द्रौपद्या सह पाण्डवाः ॥ ५ ॥

मूलम्

हृतराज्याः पाण्डुपुत्रा वने तस्मिन्महारथाः
न्यवसन्ति महाभागा द्रौपद्या सह पाण्डवाः ॥ ५ ॥

विश्वास-प्रस्तुतिः

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ ६ ॥

मूलम्

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनन्दनः
दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः ॥ ७ ॥

मूलम्

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनन्दनः
दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः ॥ ७ ॥

विश्वास-प्रस्तुतिः

यथा च देवान्सावित्री याज्ञसेनी तथा पतीन्
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ ८ ॥

मूलम्

यथा च देवान्सावित्री याज्ञसेनी तथा पतीन्
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य ततः पूजां नारदो भगवानृषिः
आश्वासयद्धर्मपुत्रं युक्तरूपप्रियेण च ॥ ९ ॥

मूलम्

प्रतिगृह्य ततः पूजां नारदो भगवानृषिः
आश्वासयद्धर्मपुत्रं युक्तरूपप्रियेण च ॥ ९ ॥

विश्वास-प्रस्तुतिः

उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते ॥ १० ॥

मूलम्

उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते ॥ १० ॥

विश्वास-प्रस्तुतिः

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसम्मितम् ॥ ११ ॥

मूलम्

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसम्मितम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत ॥ १२ ॥

मूलम्

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत ॥ १२ ॥

विश्वास-प्रस्तुतिः

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
सन्देहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि ॥ १३ ॥

मूलम्

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
सन्देहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि ॥ १३ ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥ १४ ॥

मूलम्

प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥ १४ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
शृणु राजन्नवहितो दिलीपेन यथा पुरा
वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ १५ ॥

मूलम्

नारद उवाच-
शृणु राजन्नवहितो दिलीपेन यथा पुरा
वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

पुरा भागीरथीतीरे दिलीपो राजसत्तमः
धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥ १६ ॥

मूलम्

पुरा भागीरथीतीरे दिलीपो राजसत्तमः
धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥ १६ ॥

विश्वास-प्रस्तुतिः

शुभेदेशे महाराजपुण्ये देवर्षिपूजिते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ १७ ॥

मूलम्

शुभेदेशे महाराजपुण्ये देवर्षिपूजिते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ १७ ॥

विश्वास-प्रस्तुतिः

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ १८ ॥

मूलम्

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ १८ ॥

विश्वास-प्रस्तुतिः

कस्यचित्त्वथ कालस्य जपन्नेव महामनाः
ददर्श भूतसङ्काशं वसिष्ठमृषिमुत्तमम् ॥ १९ ॥

मूलम्

कस्यचित्त्वथ कालस्य जपन्नेव महामनाः
ददर्श भूतसङ्काशं वसिष्ठमृषिमुत्तमम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥ २० ॥

मूलम्

पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥ २० ॥

विश्वास-प्रस्तुतिः

उपस्थितं महाराज पूजयामास भारत
स हि धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ २१ ॥

मूलम्

उपस्थितं महाराज पूजयामास भारत
स हि धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ २१ ॥

विश्वास-प्रस्तुतिः

शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नामसङ्कीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ २२ ॥

मूलम्

शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नामसङ्कीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ २२ ॥

विश्वास-प्रस्तुतिः

दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत
तव सन्दर्शनादेव मुक्तोहं सर्वकिल्बिषैः ॥ २३ ॥

मूलम्

दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत
तव सन्दर्शनादेव मुक्तोहं सर्वकिल्बिषैः ॥ २३ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा महाराज दिलीपो द्विपदां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ २४ ॥

मूलम्

एवमुक्त्वा महाराज दिलीपो द्विपदां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ २४ ॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम्
दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ २५ ॥

मूलम्

तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम्
दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ २५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे दशमोऽध्यायः १०