००९

सूत उवाच-

विश्वास-प्रस्तुतिः

उत्तरेषु च भो विप्रा द्वीपेषु श्रूयते कथा
एवं तत्र महाभागा ब्रुवतस्तन्निबोधत ॥ १ ॥

मूलम्

घृततोयः समुद्रोथ दधिमण्डोदकोपरः
सुरोदसागरश्चैव तथान्यो दुग्धसागरः ॥ २ ॥

मूलम्

घृततोयः समुद्रोथ दधिमण्डोदकोपरः
सुरोदसागरश्चैव तथान्यो दुग्धसागरः ॥ २ ॥

विश्वास-प्रस्तुतिः

परस्परेण द्विगुणाः सर्वे द्वीपा द्विजर्षभाः
पर्वताश्च महाप्राज्ञाः समुद्रैः परिवारिताः ॥ ३ ॥

गौरस्तु मध्यमे द्वीपे गिरिर्मनःशिलो महान्
पर्वतः पश्चिमे कृष्णो नारायणसखो द्विजाः ॥ ४ ॥

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधात्सुखम् ॥ ५ ॥

शरद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह
सम्पूज्यते शाल्मलिश्च द्वीपे शाल्मलिके द्विजाः ॥ ६ ॥

क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः
सम्पूज्यते भो विप्रेन्द्राश्चातुर्वर्ण्येन नित्यदा ॥ ७ ॥

गोमन्तः पर्वतो विप्राः सुमहान्सर्वधातुकः
यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ ८ ॥

मोक्षिभिः सङ्गतो नित्यं प्रभुर्नारायणोहरिः
कुशद्वीपे तु विप्रेन्द्राः पर्वतो विद्रुमैश्चितः ॥ ९ ॥

सुनामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः
द्युतिमान्नाम विप्रेन्द्रास्तृतीयः कुमुदो गिरिः ॥ १० ॥

चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः
षष्टो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥ ११ ॥

तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः
औद्भिदं प्रथमं वर्षं द्वितीयं रेणुमण्डलम् ॥ १२ ॥

तृतीयं सुरथं नाम चतुर्थं लम्बनं स्मृतम्
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् ॥ १३ ॥

सप्तमं कापिलं वर्षं सप्तैते वर्षलम्बकाः
एतेषु देवगन्धर्वाः प्रजाश्च मुदिता द्विजाः
विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥ १४ ॥

न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा द्विजाः
गौरप्रायो जनः सर्वः सुकुमारश्च सत्तमाः ॥ १५ ॥

अवशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुङ्गवाः
यथा श्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः ॥ १६ ॥

क्रौञ्चद्वीपे महाभागाः क्रौञ्चो नाम महागिरिः
क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ १७ ॥

अन्धकारात्परो विप्रा मैनाकः पर्वतोत्तमः
मैनाकात्परतो विप्रा गोविन्दो गिरिरुत्तमः ॥ १८ ॥

गोविन्दात्परतश्चैव पुण्डरीको महागिरिः
पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ॥ १९ ॥

पुरस्ताद्द्विगुणस्तेषां विष्कम्भो मुनिपुङ्गवाः
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ २० ॥

क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः
मनोनुगात्परो देश उष्णो नाम तपोधनाः ॥ २१ ॥

उष्णात्परः प्रावरकः प्रावरादन्धकारकः
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ २२ ॥

मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः
सिद्धचारणसङ्कीर्णो गौरः प्रायोजनः स्मृतः ॥ २३ ॥

एते देशाः समाख्याता देवगन्धर्वसेविताः
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥ २४ ॥

तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः
पर्युपासन्ति तं नित्यं देवाः सर्वे महर्षयः ॥ २५ ॥

वाग्भिर्मनोनुकूलाभिः पूजयन्ति द्विजोत्तमाः
जम्बूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च ॥ २६ ॥

द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च ॥ २७ ॥

आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः
एते जनपदा विप्रा द्वीपेषु तेषु सत्तमाः ॥ २८ ॥

उक्ता जनपदा येषु धर्मश्चैकः प्रवर्त्तते
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः ॥ २९ ॥

द्वीपानेतान्मुनिवरा रक्षंस्तिष्ठति सर्वदा
स राजा स शिवो विप्राः स पिता स पितामहः ॥ ३० ॥

गोपायति द्विजश्रेष्ठाः प्रजाः स द्विजपण्डिताः
भोजनं चात्र विप्रेन्द्राः प्रजाः स्वयमुपस्थितम् ॥ ३१ ॥

सिद्धमेव महाभागा भुञ्जते तद्धि नित्यदा
ततः परं महाशैलो दृश्यते लोकसंस्थितिः ॥ ३२ ॥

चतुरस्रो महाप्राज्ञः सर्वतः परिमण्डलः
तत्र तिष्ठन्ति विप्रेन्द्राश्चत्वारो लोकसम्मताः ॥ ३३ ॥

दिग्गजा हि मुनिश्रेष्ठा वामनैरावतां जनाः
सुप्रतीकस्तथा विप्राः प्रभिन्नकरटामुखाः ॥ ३४ ॥

तस्याहं परिमाणं न सङ्ख्यातुमिहमुत्सहे
असङ्ख्यातः सुनित्यं हि तिर्यगूर्द्ध्वमधस्तथा ॥ ३५ ॥

तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च
असम्बन्धा मुनिश्रेष्ठास्तान्निगृह्णन्ति ते द्विजाः ॥ ३६ ॥

पुष्करैः पद्मसङ्काशैर्विकर्षन्ति महाप्रभैः
शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः ॥ ३७ ॥

श्वसद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः
आगच्छन्ति द्विजश्रेष्ठास्तत्र तिष्ठन्ति वै प्रजाः ॥ ३८ ॥

यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत्
श्रुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगम् ॥ ३९ ॥

श्रीमांस्तरति विप्रेन्द्राः सिद्धार्थः साधुसम्मतः
आयुर्बलं च कीर्त्तिश्च तस्य तेजश्च वर्द्धते ॥ ४० ॥

यः शृणोति समाख्यातुं पर्वणीदं धृतव्रतः
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ ४१ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे नवमोऽध्यायः ९