००८

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सत्तमः
विष्कम्भस्य च प्रब्रूहि परिमाणं हि तत्त्वतः ॥ १ ॥

मूलम्

समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शनः
शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकम् ॥ २ ॥

शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च
सूत उवाच-
विप्राः सुबहवो द्वीपाः यैरिदं सन्ततं जगत्
सप्तद्वीपान्प्रवक्ष्यामि शृणुध्वं द्विजपुङ्गवाः ॥ ३ ॥

अष्टादशसहस्राणि योजनानि द्विजोत्तमाः
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ ४ ॥

लवणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ ५ ॥

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः
सिद्धचारणसङ्कीर्णैः सागरः परिमण्डलः ॥ ६ ॥

शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः
शृणुताद्य यथान्यायं ब्रुवतो मम धार्मिकाः ॥ ७ ॥

जम्बुद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः
विष्कम्भेन महाभागाः सागरोऽपि विभागशः ॥ ८ ॥

क्षीरोदो मुनिशार्दूला येन सम्परिवारितः
तत्र पुण्याजनपदास्तत्र न म्रियते जनः ॥ ९ ॥

कुत एव हि दुर्भिक्षं क्षमा तेजोयुता हि ते
शाकद्वीपस्य सङ्क्षेपो यथावन्मुनिसत्तमाः
उक्त एष महाभागाः किमन्यत्कथयामि वः ॥ १० ॥

शाकद्वीपस्य सङ्क्षेपो यथावदिह धार्मिक
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ॥ ११ ॥

तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः
रत्नाकरास्तथा नद्यस्तेषां नामानि वर्णये ॥ १२ ॥

अतीवगुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते ॥ १३ ॥

प्रागायतो महाभागा मलयोनाम पर्वतः
ततो मेघाः प्रवर्त्तन्ते प्रभवन्ति च सर्वशः ॥ १४ ॥

ततः परेण मुनयो जलधारो महागिरिः
ततो नित्यमुपादत्ते वासवः परमं जलम् ॥ १५ ॥

ततो वर्षं प्रभवति वर्षाकाले द्विजोत्तमाः
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितम् ॥ १६ ॥

रेवती दिवि नक्षत्रं पितामहकृतो विधिः
उत्तरेण तु विप्रेन्द्राः श्यामो नाम महागिरिः ॥ १७ ॥

नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः
यतः श्यामत्वमापन्नाः प्रजा मुदितमानसाः ॥ १८ ॥

सुमहान्संशयोऽस्माकं प्राप्तोयं सूत यत्त्वया
प्रजाः कथं सूत सम्यक्सम्प्राप्ताः श्यामतामिह ॥ १९ ॥

सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुङ्गवाः
गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे द्विजाः ॥ २० ॥

श्यामो यस्मात्प्रवृत्तो वै तस्मात्श्यामगिरिः स्मृतः
ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः ॥ २१ ॥

केशरी केशरयुतो यतो वातः प्रवर्त्तते
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः ॥ २२ ॥

वर्षाणि तेषु विप्रेन्द्राः सम्प्रोक्तानि मनीषिभिः
महामेरुर्महाकाशो जलदः कुमुदोत्तरम् ॥ २३ ॥

जलधारो महाप्राज्ञः सुकुमार इति स्मृतः
रेवतस्य तु कौमारः श्यामश्च मणिकाञ्चनः ॥ २४ ॥

केशरस्याथ मौदाकी परेण तु महान्पुमान्
परिवार्य्यं तु विप्रेन्द्रा दैर्घ्यं ह्रस्वत्वमेव च ॥ २५ ॥

जम्बूद्वीपेन सङ्ख्यातस्तस्य मध्ये महाद्रुमः
शाको नाम महाप्राज्ञाः प्रजास्तस्य सहानुगाः ॥ २६ ॥

तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च ॥ २७ ॥

धार्मिकाश्च प्रजाः सर्वाः चत्वारो गतमत्सराः
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ॥ २८ ॥

दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः
प्रजास्तत्र विवर्द्धन्ते वर्षास्विव समुद्रगाः ॥ २९ ॥

नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता
सुकुमारी कुमारी च शीता शीतोदका तथा ॥ ३० ॥

महानदी च भो विप्रास्तथा मणिजला नदी
इक्षुवर्द्धनिका चैव नदी मुनिवराः स्मृताः ॥ ३१ ॥

ततः प्रवृत्ताः पुण्योदा नद्यः परमशोभनाः
सहस्राणां शतान्येव यतो वर्षति वासवः ॥ ३२ ॥

न तासां नामधेयानि परिस्मर्तुं तथैव च
शक्यन्ते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ॥ ३३ ॥

ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः
मृगाश्च मशकाश्चैव मानसा मल्लकास्तथा ॥ ३४ ॥

मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥ ३५ ॥

मानसाश्च महाभागा वैश्यधर्मोपजीविनः
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ॥ ३६ ॥

शूद्रास्तु मल्लका नित्यं पुरुषा धर्मशीलिनः
न तत्र राजा विप्रेन्द्रा न दण्डो न च दण्डिकाः ॥ ३७ ॥

स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम्
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् ॥ ३८ ॥

एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ॥ ३९ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डेऽष्टमोऽध्यायः ८