००७

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

भारतस्यास्य वर्षस्य तथा हैमवतस्य च
प्रमाणमायुषः सूत बलं चापि शुभाशुभम् ॥ १ ॥

मूलम्

अनागतमतिक्रान्तं वर्तमानं च सत्तम
आचक्ष्व नो विस्तरेण हरिवर्षं तथैव च ॥ २ ॥

सूत उवाच-
चत्वारि भारते वर्षे युगानि मुनिपुङ्गवाः
कृतं त्रेता द्वापरं च तिष्यं च द्विजसत्तमाः ॥ ३ ॥

पूर्वे कृतयुगं नाम ततस्त्रेतायुगं द्विजाः
तत्पश्चाद्द्वापरं चाथ ततस्तिष्यः प्रवर्तते ॥ ४ ॥

चत्वारि तु सहस्राणि वर्षाणां मुनिपुङ्गवाः
आयुः सङ्ख्या कृतयुगे सङ्ख्याता हि तपोधनाः ॥ ५ ॥

तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुः
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति साम्प्रतम् ॥ ६ ॥

तत्प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुङ्गवाः
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥ ७ ॥

महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः
प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ ८ ॥

द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाः
प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः ॥ ९ ॥

महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः
प्रियदर्शा वपुष्मन्तो महावीर्य्या धनुर्धराः ॥ १० ॥

वीरा हि युधि जायन्ते क्षत्रियाः शूरसम्मताः
त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ॥ ११ ॥

सर्ववर्णाश्च जायन्ते सदैव द्वापरे युगे
महोत्साहा वीर्यवन्तः परस्परवधैषिणः ॥ १२ ॥

तेजसान्धेनसंयुक्ताः क्रोधनाः पुरुषाः किल
लुब्धाश्चानृतकाश्चैव तिष्ये जायन्ति भो द्विजाः ॥ १३ ॥

ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च
तिष्ये भवन्ति भूतानां रागो लोभश्च सत्तमाः ॥ १४ ॥

सङ्क्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगे
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥ १५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे सप्तमोऽध्यायः ७