००६

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम्
तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः ॥ १ ॥

मूलम्

सूत उवाच-
अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम्
प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ २ ॥

पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनः
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ ३ ॥

तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ ४ ॥

मूलम्

तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ ४ ॥

विश्वास-प्रस्तुतिः

कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः
सोमस्य चैव राजर्षेर्दिलीपस्य तथैव च ॥ ५ ॥

अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम्
सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ॥ ६ ॥

ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाः
महेन्द्रो मलयःसह्यः शुक्तिमानृक्षवानपि ॥ ७ ॥

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
तेषां सहस्रशो विप्रा पर्वतास्ते समीपतः ॥ ८ ॥

अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः
अन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥ ९ ॥

आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषा द्विजाः
नदीं पिबन्ति विमलां गङ्गां सिन्धुंसरस्वतीम् ॥ १० ॥

गोदावरीं नर्मदां च बहूदां च महानदीम्
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् ॥ ११ ॥

दृषद्वतीं वितस्तां च विपापां स्वच्छवालुकाम्
नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् ॥ १२ ॥

इरावतीं वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतिं वेदशिरां त्रिदिवां सिन्धुला कृमिम् ॥ १३ ॥

करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगाम्
गोमतीं धूतपापां च चन्दनां च महानदीम् ॥ १४ ॥

कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीम्
रहस्यां शतकुम्भां च सरयूं च द्विजोत्तमाः ॥ १५ ॥

चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा
शरावतीं पयोष्णीं च भीमां भीमरथीमपि ॥ १६ ॥

कावेरीं चुलुकां चापि तापीं शतमलामपि
नीवारां महितां चापि सुप्रयोगां तथा नदीम् ॥ १७ ॥

पवित्रां कृष्णलां सिन्धुं वाजिनीं पुरमालिनीम्
पूर्वाभिरामां वीरां च भीमां मालावतीं तथा ॥ १८ ॥

पलाशिनीं पापहरां महेन्द्रां पटलावतीम्
करीषिणीमसिक्नीं च कुशचीरीं महानदीम् ॥ १९ ॥

मरुतां प्रवरां मेनां हेमां घृतवतीं तथा
अनावतीमनुष्णां च सेव्यां कापीं च सत्तमाः ॥ २० ॥

सदावीरामधृष्यां च कुशचीरां महानदीम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ २१ ॥

चन्द्रावहफलद्यं चैव कुचीरामम्बुवाहिनीम्
वैनदीं पिङ्गलां वेणां तुङ्गवेगां महानदीम् ॥ २२ ॥

विदिशां कृष्णवेणां च ताम्रां च कपिलामपि
धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् ॥ २३ ॥

शिप्रां च पिच्छलां चैव भारद्वाजीं च निम्नगाम्
कौर्णिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम् ॥ २४ ॥

दुर्गामन्तः शिलां चैव ब्रह्ममेध्यां दृषद्वतीम्
परोक्षामथ रोहीं च तथा जम्बूनदीमपि ॥ २५ ॥

सुनासां तमसां दासीं सामान्यां वरणामसिम्
नीलां धृतिकरीं चैव पर्णाशां च महानदीम् ॥ २६ ॥

मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वतीम्
एताश्चान्याश्च बहुला महानद्यो द्विजर्षभाः ॥ २७ ॥

सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम्
ब्राह्मणीं च महागौरीं दुर्गामपि च सत्तमाः ॥ २८ ॥

चित्रोत्पलां चित्ररथामतुलां रोहिणीं तथा
मन्दाकिनीं वैतरणीं कोकां चापि महानदीम् ॥ २९ ॥

शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्
लोहित्यां करतोयां च तथैव वृषकात्वयाम् ॥ ३० ॥

कुमारीमृषितुल्यां च मारिषां च सरस्वतीम्
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च सत्तमाः ॥ ३१ ॥

विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः
तथा नद्यः सुप्रकाशाः शतशोथ सहस्रशः ॥ ३२ ॥

इत्येता सरितो विप्राः समाख्याता यथास्मृति
अतऊर्द्ध्वं जनपदान्निबोध गदतो मम ॥ ३३ ॥

तत्रेमे कुरुपाञ्चालाः शाल्वमात्रेय जाङ्गलाः
शूरसेनाः पुलिन्दाश्च बौधामालास्तथैव च ॥ ३४ ॥

मत्स्याः कुशट्टाः सौगन्ध्याः कुत्सपाः काशिकोशलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः ॥ ३५ ॥

उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चालाः कोशलाश्चैव नैकपृष्ठयुगन्धराः ॥ ३६ ॥

बोधा मद्राः कलिङ्गाश्च काशयो परकाशयः
जठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः ॥ ३७ ॥

कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मल्लकाः पुण्ड्राः विदर्भा नृपवाहिकाः ॥ ३८ ॥

अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः
अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ॥ ३९ ॥

मालवाश्चोपवास्याश्च चक्रावक्रालयाः शकाः
विदेहा मगधाः सद्मा मलजा विजयास्तथा ॥ ४० ॥

अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च
मल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा ॥ ४१ ॥

बाह्लिका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पङ्कलाश्चर्मचण्डिकाः ॥ ४२ ॥

अटवीशेखराश्चैव मेरुभूताश्च सत्तमाः
उपावृतानुपावृताः सुराष्ट्राः केकयास्तथा ॥ ४३ ॥

कुट्टापरान्ता माहेयाः कक्षाः सामुद्र निष्कुटाः
अन्धाश्च बहवो विप्रा अन्तर्गिर्यस्तथैव च ॥ ४४ ॥

बहिर्गिर्य्योङ्गमलदा मगधा मालवार्घटाः
सत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः ॥ ४५ ॥

पुण्ड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथा
शका निषादा निषधास्तथैवानर्त नैऋताः ॥ ४६ ॥

पूर्णलाः पूतिमत्स्याश्च कुन्तला कुशकास्तथा
तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः ॥ ४७ ॥

तिलभागामसाराश्च मधुमत्ताः ककुन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥ ४८ ॥

अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा
दर्वी च मालवा दर्वा वातजामरथोरगाः ॥ ४९ ॥

बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः
बन्धाकरीकषाश्चैव कुलिन्दा गन्धिकास्तथा ॥ ५० ॥

वनायवोदशाः पार्श्वरोमाणः कुशबिन्दवः
काच्छा गोपालकच्छाश्च जाङ्गलाः कुरुवर्णकाः ॥ ५१ ॥

किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाः
औड्रम्लेच्छाः ससैरिन्द्राः पार्वतीयाश्च सत्तमाः ॥ ५२ ॥

अथापरे जनपदा दक्षिणा मुनिपुङ्गवाः
द्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः ॥ ५३ ॥

कर्णाटका माहिषका विकन्धा मूषिकास्तथा
झल्लिकाः कुन्तलाश्चैव सौहृदानलकाननाः ॥ ५४ ॥

कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः
समङ्गा कनकाश्चैव कुङ्कुराङ्गारमारिषाः ॥ ५५ ॥

ध्वजिन्युत्सवसङ्केतास्त्रिवर्गा माल्यसेनयः
व्यूढकाः कोरकाः प्रोष्टाः सङ्गवेगधरास्तथा ॥ ५६ ॥

तथैव विन्द्यरुलिकाः पुलिन्दा बल्वलैः सह
मालवा मलराश्चैव तथैवापरवर्तकाः ॥ ५७ ॥

मूलम्

तथैव विन्द्यरुलिकाः पुलिन्दा बल्वलैः सह
मालवा मलराश्चैव तथैवापरवर्तकाः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

कुलिन्दाः कालदाश्चैव चण्डकाः कुरटास्तथा
मुशलास्तनवालाश्च सतीर्था पूतिसृञ्जयाः ॥ ५८ ॥

अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा
ऋषिकाश्च विदर्भाश्च स्तङ्गना परतङ्गकाः ॥ ५९ ॥

उत्तराश्चापरेम्लेच्छा जना हि मुनिपुङ्गवाः
जवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ॥ ६० ॥

सकृघृहाः कुलट्याश्च हूणा पारसिकैः सह
तथैव रमणाश्चान्यास्तथा च दशमालिकाः ॥ ६१ ॥

क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च
शूराभीराश्च दरदाः काश्मीराः पशुभिः सह ॥ ६२ ॥

खाण्डीकाश्च तुषाराश्च पद्मगा गिरिगह्वराः
आद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः ॥ ६३ ॥

द्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ ६४ ॥

मूलम्

द्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च
उद्देशमात्रेण मया देशाः सङ्कीर्तिता द्विजाः
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ॥ ६५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे षष्ठोऽध्यायः ६