ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
वर्षाणां चैव नामानि पर्वतानां च सत्तम
आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः ॥ १ ॥
मूलम्
वर्षाणां चैव नामानि पर्वतानां च सत्तम
आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः ॥ १ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २ ॥
मूलम्
सूत उवाच-
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २ ॥
विश्वास-प्रस्तुतिः
शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ ३ ॥
मूलम्
शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ ३ ॥
विश्वास-प्रस्तुतिः
दशवर्षसहस्राणि शतानि दशपञ्च च
जीवन्ति ते महाभागा नित्यं मुदितमानसाः ॥ ४ ॥
मूलम्
दशवर्षसहस्राणि शतानि दशपञ्च च
जीवन्ति ते महाभागा नित्यं मुदितमानसाः ॥ ४ ॥
विश्वास-प्रस्तुतिः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ ५ ॥
मूलम्
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ ५ ॥
विश्वास-प्रस्तुतिः
यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः
यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥ ६ ॥
मूलम्
यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः
यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥ ६ ॥
विश्वास-प्रस्तुतिः
महाबलास्तत्र जना विप्रा मुदितमानसाः
एकादशसहस्राणि वर्षाणां ते तपोधनाः ॥ ७ ॥
मूलम्
महाबलास्तत्र जना विप्रा मुदितमानसाः
एकादशसहस्राणि वर्षाणां ते तपोधनाः ॥ ७ ॥
विश्वास-प्रस्तुतिः
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च
शृङ्गाणि च पवित्राणि त्रीण्येव द्विजपुङ्गवाः ॥ ८ ॥
मूलम्
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च
शृङ्गाणि च पवित्राणि त्रीण्येव द्विजपुङ्गवाः ॥ ८ ॥
विश्वास-प्रस्तुतिः
एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम्
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ ९ ॥
मूलम्
एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम्
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तत्र स्वयं प्रभादेवी नित्यं वसति शण्डिनी
उत्तरेण तु शृङ्गस्य समुद्रान्ते द्विजोत्तमाः ॥ १० ॥
मूलम्
तत्र स्वयं प्रभादेवी नित्यं वसति शण्डिनी
उत्तरेण तु शृङ्गस्य समुद्रान्ते द्विजोत्तमाः ॥ १० ॥
विश्वास-प्रस्तुतिः
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम्
न तु तत्र सूर्यगतिर्जीर्यन्ते न च मानवाः ॥ ११ ॥
मूलम्
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम्
न तु तत्र सूर्यगतिर्जीर्यन्ते न च मानवाः ॥ ११ ॥
विश्वास-प्रस्तुतिः
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥ १२ ॥
मूलम्
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः ॥ १३ ॥
मूलम्
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः ॥ १३ ॥
विश्वास-प्रस्तुतिः
देवलोकच्युताः सर्वे तथा विरजसो द्विजाः
त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः ॥ १४ ॥
मूलम्
देवलोकच्युताः सर्वे तथा विरजसो द्विजाः
त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
आयुःप्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ॥ १५ ॥
मूलम्
आयुःप्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ॥ १५ ॥
विश्वास-प्रस्तुतिः
हरिस्तिष्ठति वैकुण्ठः शकटे कनकामये
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ॥ १६ ॥
मूलम्
हरिस्तिष्ठति वैकुण्ठः शकटे कनकामये
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अग्निवर्णं महातेजो जाम्बूनदविभूषितम्
स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः ॥ १७ ॥
मूलम्
अग्निवर्णं महातेजो जाम्बूनदविभूषितम्
स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
सङ्क्षेपे विस्तरे चैव कर्ता कारयिता तथा
पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः ॥ १८ ॥
मूलम्
सङ्क्षेपे विस्तरे चैव कर्ता कारयिता तथा
पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः ॥ १८ ॥
विश्वास-प्रस्तुतिः
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १९ ॥
मूलम्
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १९ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पञ्चमोऽध्यायः ५