ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
मेरोरथोत्तरं पश्चात्पूर्वमाचक्ष्व सूततः
निखिलेन महाबुद्ध माल्यवन्तं च पर्वतम् ॥ १ ॥
मूलम्

सूत उवाच-
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे
उत्तराः कुरवो विप्राः पुण्याः सिद्धनिषेविताः ॥ २ ॥

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ ३ ॥

सर्वकामफलास्तत्र केचिद्वृत्या द्विजोत्तमाः
अपरे क्षीरिणो नाम वृक्षास्तत्र द्विजोत्तमाः ॥ ४ ॥

प्रक्षरन्ति सदा क्षीरं तत्र सर्वेऽमृतोपमम्
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ५ ॥

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
सर्वर्तुसुखसंस्पर्शा निष्फलाश्च तपोधनाः ॥ ६ ॥

देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः
शुक्लाभिजनसम्पन्नाः सर्वसुप्रियदर्शनाः ॥ ७ ॥

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥ ८ ॥

मिथुनं जायते काले समन्ताच्च प्रवर्द्धते
तुल्यरूपगुणोपेतं समवेशं तथैव च ॥ ९ ॥
मूलम्
मिथुनं जायते काले समन्ताच्च प्रवर्द्धते
तुल्यरूपगुणोपेतं समवेशं तथैव च ॥ ९ ॥
विश्वास-प्रस्तुतिः
एकमेवानुरूपं च चक्रवाकसमं द्विजाः
निरामयाश्च ते लोका नित्यं मुदितमानसाः ॥ १० ॥

दशवर्षसहस्राणि दशवर्षशतानि च
जीवन्ति ते महाभागा न चान्योन्यं जहत्युत ॥ ११ ॥

भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः
तान्निर्हरन्तीहमृतान्दरीषु प्रक्षिपन्ति च ॥ १२ ॥

उत्तराःकुरवो विप्रा व्याख्यातास्ते समासतः
मेरुपार्श्वमहं पूर्वं प्रवक्ष्यामि यथातथम् ॥ १३ ॥

तस्य मूर्द्धाभिषेकस्तु भद्राश्वस्य तपोधनाः
भद्रशालवनं यत्र कालाम्राश्च महाद्रुमाः ॥ १४ ॥

कालाम्रास्तु महाभागा नित्यम्पुष्पफलाः शुभाः
द्रुमाश्च योजनोत्सेधाः सिद्धचारणसेविताः ॥ १५ ॥

तत्र ते पुरुषाः श्वेतास्तेजोयुक्तमहाबलाः
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ १६ ॥

चन्द्रवर्णाश्चतुर्वर्णाः पूर्णचन्द्रनिभाननाः
चन्द्रशीतलगात्राश्च नृत्यगीतविशारदाः ॥ १७ ॥

दशवर्षसहस्राणि तत्रायुर्द्विजसत्तमाः
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ १८ ॥

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
सुदर्शनो नाम महान्जम्बूवृक्षः सनातनः ॥ १९ ॥

सर्वकामफलः पुण्यः सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ २० ॥

योजनानां सहस्रं च शतं च द्विजसत्तमाः
तथा माल्यवतः शृङ्गे पूर्वे पूर्वानुगान्तकाः ॥ २१ ॥

योजनानां सहस्राणि पञ्चाशन्माल्यवान्द्विजाः
महारजतसङ्काशा जायन्ते तत्र मानवाः ॥ २२ ॥

ब्रह्मलोकच्युताः सर्वे सर्वे च ब्रह्मवादिनः
तपस्तप्यन्ति ते दिव्यं भवन्ति ह्यूर्ध्वरेतसः ॥ २३ ॥

रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम्
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ॥ २४ ॥

अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्
षष्टिवर्षसहस्राणि षष्टिरेव शतानि च ॥ २५ ॥

आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥ २६ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चतुर्थोऽध्यायः ४