००३

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

नदीनां पर्वतानां च नामधेयानि सर्वशः
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ १ ॥

मूलम्

प्रमाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः
निखिलेन समाचक्ष्व काननानि च सत्तम ॥ २ ॥

सूत उवाच-
पञ्चेमानि महाप्राज्ञ महाभूतानि सङ्ग्रहात्
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥ ३ ॥

भूमिरापस्तथा वायुरग्निराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ ४ ॥

शब्दस्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
भूमेरेतेगुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥ ५ ॥

चत्वारोप्सुगुणा विप्रा गन्धस्तत्र न विद्यते
शब्दः स्पर्शश्च रूपं च तेजसोथ गुणास्त्रयः ॥ ६ ॥

शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च
एते पञ्च गुणा विप्रा महाभूतेषु पञ्चसु ॥ ७ ॥

वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः
अन्योन्यं नातिवर्तन्ते साम्यं भवति वै तदा ॥ ८ ॥

यदा तु विषमीभावमाविशन्ति परस्परम्
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ ९ ॥

आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥ १० ॥

यत्रयत्र हि दृश्यन्ते धावन्ति पाञ्चभौतिकाः
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ११ ॥

अचिन्त्याः खलु ये भावास्तान्न तर्केण साधयेत्
सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुङ्गवाः ॥ १२ ॥

परिमण्डलो महाभागा द्वीपोऽसौ चक्रसंस्थितः
नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः ॥ १३ ॥

पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैः सम्पन्नो धनधान्यवान् ॥ १४ ॥

लवणेन समुद्रेण समन्तात्परिवारितः
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः ॥ १५ ॥

एवं सुदर्शनो द्वीपो दृश्यते चक्रमण्डलः
द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् ॥ १६ ॥

सर्वौषधिं समादाय सर्वतः परिवारितः
आपस्ततोन्या विज्ञेयाः शेषः सङ्क्षेप उच्यते ॥ १७ ॥

उक्तो यस्य च सङ्क्षेपो बुद्धिमन्विधिवत्त्वया
तत्त्वज्ञश्चासि सर्वस्य विस्तरं सूत नो वद ॥ १८ ॥

यावान्भूम्यवकाशोयं दृश्यते शशलक्षणे
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ १९ ॥

एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत्
सूत उवाच-
प्रागायता महाप्राज्ञाः षडेते रत्नपर्वताः ॥ २० ॥

अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ
हिमवान्हिमकूटश्च निषधश्च नगोत्तमः ॥ २१ ॥

नीलश्च वैडूर्यमयः श्वेतश्च शशिसन्निभः
सर्वधातुपिनद्धश्च शृङ्गवान्नामपर्वतः ॥ २२ ॥

एते वै पर्वता विप्राः सिद्धचारणसेविताः
तेषामन्तरविष्कुम्भौ योजनानि सहस्रशः ॥ २३ ॥

तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः
वसन्ति तेषां सत्त्वानि नानाजातीनि सर्वशः ॥ २४ ॥

इदं तु भारतं वर्षं ततो हैमवतं परम्
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ २५ ॥

दक्षिणेन तु नीलस्य निषधस्योत्तरेण च
प्रागायतो महाभागा माल्यवान्नाम पर्वतः ॥ २६ ॥

ततः परं माल्यवतः पर्वतो गन्धमादनः
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ॥ २७ ॥

आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः ॥ २८ ॥

अधस्ताच्चतुरशीतिर्योजनानां द्विजोत्तमाः
ऊर्ध्वमधश्च तिर्यक्च लोकानावृत्य तिष्ठति ॥ २९ ॥

तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च सत्तमाः ॥ ३० ॥

उत्तराश्चैव कुरुवः कृतपुण्य प्रतिश्रयाः
विहङ्गसुमुखो यस्तु सुपार्श्वस्यात्मजः किल ॥ ३१ ॥

स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान्
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ॥ ३२ ॥

अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम्
तमादित्योनुपर्येति सततं ज्योतिषां वरः ॥ ३३ ॥

चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः
स पर्वतो महाप्राज्ञा दिव्यपुष्पसमन्वितः ॥ ३४ ॥

भवनैरावृतैः सर्वैः र्जाम्बूनदमयैः शुभैः
तत्र देवगणा विप्रा गन्धर्वासुरराक्षसाः ॥ ३५ ॥

अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ॥ ३६ ॥

समेत्य विविधैर्यज्ञैर्यजन्तेऽनेक दक्षिणैः
तुम्बुरुर्नारदश्चैव विश्वावसुर्हाहा हूहूः ॥ ३७ ॥

अभिगम्यामरश्रेष्ठं स्तुवन्ति विविधैः स्तवैः
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ॥ ३८ ॥

तत्र गच्छन्ति भद्रं वः सदा पर्वणि पर्वणि
तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते ॥ ३९ ॥

तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ॥ ४० ॥

ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति
पर्वतस्यान्तरे दिव्यं सर्वर्तुकुसुमैश्चितम् ॥ ४१ ॥

कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम्
तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः ॥ ४२ ॥

उमासहायोभगवान्रमते भूतभावनः
कर्णिकारमयीं मालां बिभ्रदापादलम्बिनीम् ॥ ४३ ॥

त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ॥ ४४ ॥

पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः
तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः ॥ ४५ ॥

विश्वरूपात्परमिता भीमनिर्घातनिस्वना
पुण्यापुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ॥ ४६ ॥

प्लवन्ती च प्रवेगेन ह्रदे चन्द्रमसः शुभे
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ॥ ४७ ॥

तां धारयामास तदा दुर्द्धरां पर्वतैरपि
शतं वर्षसहस्राणि शिरसैव पिनाकधृक् ॥ ४८ ॥

मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः
जम्बूखण्डे तु तत्रैव महाजनपदो द्विजाः ॥ ४९ ॥

आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः
सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसां समाः ॥ ५० ॥

अनामया वीतशोका नित्यं मुदितमानसाः
जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ॥ ५१ ॥

गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः
संवृतोप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ॥ ५२ ॥

गन्धमादनपार्श्वे तु परे विगतपातकाः
एकादशसहस्राणि वर्षाणां परमायुषः ॥ ५३ ॥

मूलम्

गन्धमादनपार्श्वे तु परे विगतपातकाः
एकादशसहस्राणि वर्षाणां परमायुषः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तत्र कृष्णा नरा विप्रास्तेजोयुक्ता महाबलाः
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ॥ ५४ ॥

नीलोत्पलधरं श्वेतं श्वेताद्धैरण्यकं वरम्
वर्षमैरावतं विप्रा नानाजनपदावृतम् ॥ ५५ ॥

धनुखण्डेः महाभागा द्वे वर्षे दक्षिणोत्तरे
इलावृत्तं मध्यगं तु पञ्चवर्षाणि चैव हि ॥ ५६ ॥

उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः
आयुः प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥ ५७ ॥

समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः
एवमेषा महाभागाः पर्वतैः पृथिवी चिता ॥ ५८ ॥

हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः
तत्र वैश्रवणो देवो गुह्यकैः सह मोदते ॥ ५९ ॥

अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ ६० ॥

तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम्
रम्यं विष्णुसरो नाम यत्र राजा भगीरथः ॥ ६१ ॥

दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः
यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः ॥ ६२ ॥

तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः
स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः ॥ ६३ ॥

उपास्यते तिग्मतेजा यत्र भूतः समन्ततः
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ ६४ ॥

तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता
ब्रह्मलोकादपाक्रान्ता सप्तधा प्रतिपद्यते ॥ ६५ ॥

वटोदका सा नलिनी पार्वती च सरस्वती
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥ ६६ ॥

अचिन्त्या दिव्यसञ्ज्ञा सा प्रभावैश्च समन्विता
उपास्यते यत्र सत्रं सहस्रयुगपर्यये ॥ ६७ ॥

दृश्यादृश्या च भवति तत्रतत्र सरस्वती
एता दिव्याः सप्तगङ्गास्त्रिषुलोकेषु विश्रुताः ॥ ६८ ॥

रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥ ६९ ॥

देवासुराणां सर्वेषां श्वेतः पर्वतमुच्यते
गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ॥ ७० ॥

शृङ्गवांस्तु महाभागा देवानां प्रतिसञ्चरः
इत्येतानि महाभागाः सप्तवर्षाणि भागशः ॥ ७१ ॥

भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च
तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा ॥ ७२ ॥

अशक्यं परिसङ्ख्यातुं श्रद्धे या तु विभूषिता
यां तु पृच्छथ मां विप्रा दिव्यमेनां शशाकृतिम् ॥ ७३ ॥

पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे
कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च ॥ ७४ ॥

कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः
एतद्द्वितीयं द्वीपस्य दृश्यते शशिसंस्थितम् ॥ ७५ ॥

इति श्रीपाद्मेमहापुराणे स्वर्गखण्डे तृतीयोऽध्यायः ३