००२

सूत उवाच-

विश्वास-प्रस्तुतिः

आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः
ज्ञायते येन भगवान्परमात्मा सनातनः ॥ १ ॥

मूलम्

आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः
ज्ञायते येन भगवान्परमात्मा सनातनः ॥ १ ॥

विश्वास-प्रस्तुतिः

सृष्टेषु प्रलयादूर्ध्वं नासीत्किञ्चिद्द्विजोत्तमाः
ब्रह्मसञ्ज्ञमभूदेकं ज्योतिर्वै सर्वकारकम् ॥ २ ॥

नित्यं निरञ्जनं शान्तं निर्मलं नित्यनिर्मलम्
आनन्दसागरंस्वच्छं यत्काङ्क्षन्ति मुमुक्षवः ॥ ३ ॥

सर्वज्ञं ज्ञानरूपत्वादनन्तमजमव्ययम्
अविनाशि सदास्वच्छमच्युतं व्यापकं महत् ॥ ४ ॥

सर्गकाले तु सम्प्राप्ते ज्ञात्वा तं ज्ञानरूपकम्
आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे ॥ ५ ॥

तस्मात्प्रधानमुद्भूतं ततश्चापि महानभूत्
सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ ६ ॥

प्रधानेनावृतो ह्येव त्वचा बीजमिवावृतम्
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ ७ ॥

त्रिविधोयमहङ्कारो महत्तत्वादजायत
यथा प्रधानेन महान्महता स तथा वृतः ॥ ८ ॥

मूलम्

त्रिविधोयमहङ्कारो महत्तत्वादजायत
यथा प्रधानेन महान्महता स तथा वृतः ॥ ८ ॥

विश्वास-प्रस्तुतिः

भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥ ९ ॥

शब्दमात्रं तथाकाशं भूतादिः सममावृणोत्
शब्दमात्रं तथाकाशं स्पर्शमात्रं ससर्ज ह ॥ १० ॥

बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥ ११ ॥

ततो वायुविकुर्वाणो रूपमात्रं ससर्ज ह
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ १२ ॥

स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत्
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ १३ ॥

सम्भवन्ति ततोम्भांसि रसमात्राणि तानि तु
रसमात्राणिचाम्भांसि रूपमात्रं समावृणोत् ॥ १४ ॥

विकुर्वाणानिचाम्भांसिगन्धमात्रंससर्जिरे
तस्माज्जाता मही चेयं सर्वभूतगुणाधिका ॥ १५ ॥

ससङ्घातो यतस्तस्मात्तस्य गन्धो गुणो मतः
तस्मिंस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता ॥ १६ ॥

तन्मात्राण्यविशेषाणि विशेषाः क्रमशो पराः
भूततन्मात्रसर्गोयमहङ्कारात्तु तामसात् ॥ १७ ॥

कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ॥ १८ ॥

एकादशं मनश्चात्र कीर्तितं तत्त्वचिन्तकैः
ज्ञानेन्द्रियाणि पञ्चात्र पञ्चकर्मेन्द्रियाणि च ॥ १९ ॥

तानि वक्ष्यामि तेषां च कर्माणि कुलपावनाः
श्रवणं त्वक्चक्षुर्जिह्वा नासिका चैव पञ्चमी ॥ २० ॥

शब्दादिज्ञानसिद्ध्यर्थं बुद्धियुक्तानि पञ्च वै
पायूपस्थं हस्तपादौ कीर्तिता वाक्चपञ्चमी ॥ २१ ॥

विसर्गानन्दनादानगत्युक्तिकर्मतत्स्मृतम्
आकाशवायुतेजांसि सलिलं पृथिवी तथा ॥ २२ ॥

मूलम्

विसर्गानन्दनादानगत्युक्तिकर्मतत्स्मृतम्
आकाशवायुतेजांसि सलिलं पृथिवी तथा ॥ २२ ॥

विश्वास-प्रस्तुतिः

शब्दादिभिर्गुणैर्विप्राः संयुक्ता उत्तरोत्तरैः
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ॥ २३ ॥

नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः
समेत्यान्योन्यसंयोगं परस्परमथाश्रयात् ॥ २४ ॥

एकसङ्घास्सलक्ष्याश्च सम्प्राप्यैक्यमशेषतः
पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च ॥ २५ ॥

महदादयो विशेषान्ता अण्डमुत्पादयन्ति ते
तत्क्रमेण विवृद्धं तु जलबुद्बुदवत्सदा ॥ २६ ॥

भूतेभ्योण्डं महाप्राज्ञा वृद्धं तदुदकेशयम्
प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ २७ ॥

तत्राव्यक्तस्वरूपोसौ विष्णुर्विश्वेश्वरः प्रभुः
ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः ॥ २८ ॥

स्वेदजाण्डमभूत्तस्य जरायुश्च महीधराः
गर्भोदकं समुद्राश्च तस्याभून्महदात्मनः ॥ २९ ॥

साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसङ्ग्रहः
तस्मिन्नण्डेभवत्सर्वं सदेवासुरमानुषम् ॥ ३० ॥

अनादिनिधनस्यैव विष्णोर्नाभेः समुत्थितम्
यत्पद्मं तद्धैममण्डमभूच्छ्रीकेशवेच्छया ॥ ३१ ॥

रजोगुणधरो देवः स्वयमेव हरिः परः
ब्रह्मरूपंसमास्थाय जगत्स्रष्टुं प्रवर्तते ॥ ३२ ॥

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना
नारसिंहादिरूपेण रुद्ररुपेण संहरेत् ॥ ३३ ॥

सब्रह्मरूपं विसृजन्महात्मा जगत्समस्तं परिपातुमिच्छन्
रामादिरूपं स तु गृह्य याति बभूव रुद्रो जगदेतदत्तुम् ॥ ३४ ॥

इति श्रीपाद्मेमहापुराणेस्वर्गखण्डेद्वितीयोऽध्यायः २