नमामि गोविन्दपदारविन्दं सदेन्दिरावन्दितमुत्तमाढ्यम्
विश्वास-प्रस्तुतिः
जगज्जनानां हृदि सन्निविष्टं महाजनैकायनमुत्तमोत्तमम् ॥ १ ॥
मूलम्

एकदा मुनयः सर्वे ज्वलज्ज्वलनसन्निभाः
हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ॥ २ ॥

त्रिकालज्ञा महात्मानो नानापुण्यसमाश्रयाः
महेन्द्राद्रिरता ये च ये च विन्ध्यनिवासिनः ॥ ३ ॥

येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ॥ ४ ॥

धर्मारण्यरता ये च दण्डकारण्यवासिनः
जम्बूमार्गरता ये च ये च सत्यनिवासिनः ॥ ५ ॥

एते चान्ये च बहवः सशिष्या मुनयोऽमलाः
नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः ॥ ६ ॥

तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः
आसनेषु विचित्रेषु बृस्यादिषु यथाक्रमम् ॥ ७ ॥

शौनकेन प्रदत्तेषु आसीनास्ते तपोधनाः
कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन् ॥ ८ ॥

कथान्तेषु ततस्तेषां मुनीनां भावितात्मनाम्
आजगाम महातेजाः सूतस्तत्र महाद्युतिः ॥ ९ ॥

व्यासशिष्यः पुराणज्ञो रोमहर्षणसञ्ज्ञकः
तान्प्रणम्य यथान्यायं स तैश्चैवाभिपूजितः ॥ १० ॥

उपविष्टं यथायोग्यं शौनकाद्या महर्षयः
व्यासशिष्यं सुखासीनं सूतं वै रोमहर्षणम् ॥ ११ ॥

तं पप्रच्छुर्महाभागाः शौनकाद्यास्तपोधनाः
ऋषय ऊचुः-
पौराणिक महाबुद्धे रोमहर्षण सुव्रत ॥ १२ ॥

त्वत्तः श्रुता महापुण्याः पुरा पौराणिकीः कथाः
साम्प्रतं च प्रवृत्ताः स्म कथायां सक्षणा हरेः ॥ १३ ॥

स वै पुंसां परोधर्मो यतो भक्तिरधोक्षजे
पुनः पुराणमाचक्ष्व हरिवार्ता समन्वितम् ॥ १४ ॥

हरेरन्या कथा सूत श्मशानसदृशी स्मृता
हरिस्तीर्थस्वरूपेण स्वयं तिष्ठति तच्छ्रुतम् ॥ १५ ॥

तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय
कुत एतत्समुत्पन्नं केन वा परिपाल्यते ॥ १६ ॥

कस्मिन्विलयमभ्येति जगदेतच्चराचरम्
क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलोच्चयाः ॥ १७ ॥

नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः
एतत्सर्वं महाभाग कथयस्व यथाक्रमम् ॥ १८ ॥

सूत उवाच-
साधुसाधु महाभागाः साधुपृष्टं तपोधनाः
तं प्रणम्य प्रवक्ष्यामि पुराणं पद्मसञ्ज्ञकम् ॥ १९ ॥

पाराशर्यं परमपुरुषं विश्ववेद्यैकयोनिं विद्याधारं विपुलमतिदं वेदवेदान्तवेद्यम्
शश्वच्छान्तं स्वमतिविषयं शुद्धतेजोविशालं वेदव्यासं विततयशसं सर्वदाहं नमामि ॥ २० ॥

नमो भगवते तस्मै व्यासायामिततेजसे
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ २१ ॥

प्रवक्ष्यामि महापुण्यं पुराणं पद्मसञ्ज्ञितम्
सहस्रं पञ्चपञ्चाशत्षड्भिः खण्डैः समन्वितम् ॥ २२ ॥

तत्रादावादिखण्डं स्याद्भूमिखण्डं ततः परम्
ब्रह्मखण्डं च तत्पश्चात्ततः पातालखण्डकम् ॥ २३ ॥

क्रियाखण्डं ततः ख्यातमुत्तरं खण्डमन्तिमम्
एतदेव महापद्ममद्भुतं यन्मयं जगत् ॥ २४ ॥

तद्वृत्तान्ताश्रयं तस्मात्पाद्ममित्युच्यते बुधैः
एतत्पुराणममलं विष्णुमाहात्म्यमुत्तमम् ॥ २५ ॥

देवदेवोहरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा
ब्रह्मा तन्नारदायाह नारदोऽस्मद्गुरोः पुरः ॥ २६ ॥

व्यासः सर्वपुराणानि सेतिहासानि संहिताः
अध्यापयामास मुहुर्मामतिप्रियमात्मनः ॥ २७ ॥

तत्तेऽहं सम्प्रवक्ष्यामि पुराणमतिदुर्लभम्
यच्छ्रुत्वा ब्रह्महत्यादि पापेभ्यो मुच्यते नरः ॥ २८ ॥

सर्वतीर्थाभिषेकं च लभते शृणुते हि यः
श्रद्धया परया भक्त्या श्रुतमात्रेण मुक्तिदः ॥ २९ ॥

अश्रद्धयापि शृणुते लभते पुण्यसञ्चयम्
तस्मात्सर्वप्रयत्नेन पद्मं श्रोत्रातिथी कुरु ॥ ३० ॥

तत्रादिखण्डं वक्ष्यामि पुण्यं पापविनाशनम्
शृण्वन्तु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रथमोऽध्यायः १