१२५

सूत उवाच-

विश्वास-प्रस्तुतिः

वेनस्याज्ञां सुसम्प्राप्य पृथुः परमधार्मिकः
सम्बभ्रे सर्वसम्भारान्नानापुण्यान्नृपात्मजः ॥ १ ॥

मूलम्

निमन्त्र्य ब्राह्मणान्सर्वान्नानादेशोद्भवानपि
अथ वेन इयाजासावश्वमेधेन भूपतिः ॥ २ ॥

दानान्यदाद्ब्राह्मणेभ्यो नानारूपाण्यनेकशः
जगाम वैष्णवं लोकं सकायो जगतीपतिः ॥ ३ ॥

विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते
एतद्वः सर्वमाख्यातं चरित्रं तस्य भूपतेः ॥ ४ ॥

सर्वपापप्रशमनं सर्वदुःखविनाशनम्
पृथुरेव स धर्मात्मा राजा पृथ्वीं प्रशासति ॥ ५ ॥

त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः
प्रजास्तु रञ्जितास्तेन पुण्यधर्मानुकर्मभिः ॥ ६ ॥

एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमम्
प्रथमं सृष्टिखण्डं तु द्वितीयं भूमिखण्डकम् ॥ ७ ॥

भूमिखण्डस्यमाहात्म्यं कथयिष्याम्यहं पुनः
अस्य खण्डस्य वै श्लोकं यः शृणोति नरोत्तमः ॥ ८ ॥

दिनस्यैकस्य वै पापं तस्य चैव प्रणश्यति
यो नरो भावसंयुक्तोऽध्यायं संशृणुते सुधीः ॥ ९ ॥

तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः
दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि ॥ १० ॥

यत्फलं तत्प्रजायेत विष्णुस्तस्य प्रसीदति
अस्य पद्मपुराणस्य पठमानस्य नित्यशः ॥ ११ ॥

कलौयुगे तु विघ्नाश्च न जायन्ते नरस्य वै
व्यास उवाच-
कस्मात्कलौ न जायन्ते शृण्वानस्य च पद्मज ॥ १२ ॥

नरस्य पुण्ययुक्तस्य नाना विघ्नाः सुदारुणाः
ब्रह्मोवाच-
मखस्याप्यश्वमेधस्य यत्फलं परिकथ्यते ॥ १३ ॥

तत्फलं दृश्यते तात पुराणे पद्मसञ्ज्ञके
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते ॥ १४ ॥

पुराणं चापि यत्तद्वदश्वमेधसमं किल
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् ॥ १५ ॥

न भुञ्जन्ति नराः पापाः पापमार्गेषु संस्थिताः
पुराणस्यास्य पुण्यस्य पद्मसञ्ज्ञस्य सत्तम ॥ १६ ॥

अश्वमेधसमं पुण्यं न भुञ्जन्ति कलौ नराः
कलौ युगे नरैः पापैर्गन्तव्यं नरकार्णवम् ॥ १७ ॥

कस्माच्छ्रोष्यन्ति तत्पुण्यं चतुर्वर्गप्रसाधनम्
येन श्रुतमिदं पुण्यं पुराणं पद्मसञ्ज्ञकम् ॥ १८ ॥

सर्वं हि साधितं तेन चतुर्वर्गस्य साधनम्
अश्वमेधादयो यज्ञास्तस्मान्नष्टा महामते ॥ १९ ॥

कलौ युगे गताः स्वर्गे सवेदाः साङ्गसस्वराः
यः कोपि सत्वसम्पन्नः श्रद्धावान्भगवत्परः ॥ २० ॥

श्रोतुमिच्छति धर्मात्मा सपुत्रो भार्यया सह
श्रवणार्थं महाश्रद्धा पूर्वं तस्य प्रजायते ॥ २१ ॥

शृण्वानस्य नरस्यापि महाविघ्नो न सञ्चरेत्
अश्रद्धा जायते पूर्वं पाठकस्य नरस्य च ॥ २२ ॥

लोभश्च जायते तस्य शृण्वानस्य द्विजोत्तम
प्रेषितो विष्णुदेवेन महामोहः स दारुणः ॥ २३ ॥

अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः
दूषकाः कुत्सकाः पापाः सम्भवन्ति दिने दिने ॥ २४ ॥

ज्ञातव्यं तु सुबुद्धेन विघ्नरूपं ममाधुना
सञ्जातं दृश्यते व्यास तथा होमं समाचरेत् ॥ २५ ॥

वैष्णवैश्च महामन्त्रैर्विष्णुसूक्तैः सुपुण्यदैः
विष्णोरराटमन्त्रेण सहस्रशीर्षकेण च ॥ २६ ॥

इदं विष्णु सुमन्त्रेण आब्रह्मेण पुनः पुनः
त्र्यम्बकेन च मन्त्रेण होममेवं समाचरेत् ॥ २७ ॥

बृहत्साम्ना सुमन्त्रेण द्वादशाक्षरकेण च
यस्य देवस्य यो होमस्तस्य मन्त्रेण होमयेत् ॥ २८ ॥

अष्टोत्तरतिलाज्यैश्च पालाशैः समिधैरपि
ग्रहाणामपि कर्त्तव्यं स्थापनं पूजनं द्विज ॥ २९ ॥

विघ्नेशं पूजयेत्तत्र शारदां च सुरेश्वरीम्
जातवेदां महामायां चण्डिकां क्षेत्रनायकम् ॥ ३० ॥

तिलैश्च तन्दुलैराज्यैस्तेषां मन्त्रसमुद्यतैः
एवं होमः प्रकर्त्तव्यो ब्राह्मणेभ्यो ददेद्धनम् ॥ ३१ ॥

यथासम्भाविकां तात दक्षिणां धेनुसंयुताम्
ततो विघ्नाः प्रणश्यन्ति पुराणं सिद्धिमाप्नुयात् ॥ ३२ ॥

एवं न कुरुते यो हि तस्य विघ्नं वदाम्यहम्
तस्याङ्गे जायते रोगो बहुपीडाप्रदायकः ॥ ३३ ॥

भार्या शोकः पुत्रशोको धनहानिः प्रजायते
नानाविधान्महारोगान्भुञ्जते नात्र संशयः ॥ ३४ ॥

यस्य गेहे नास्ति वित्तमुपवासं समाचरेत्
एकादशीं सुसम्प्राप्य पूजयेन्मधुसूदनम् ॥ ३५ ॥

षोडशैश्चोपचारैश्च भावयुक्तेन चेतसा
ब्राह्मणान्भोजयेत्पश्चाद्यथावित्तानुसारतः ॥ ३६ ॥

केशवाय ततो दत्वा सङ्कल्पं हविषान्वितम्
स्वयं कुर्यात्ततः प्राज्ञो भोजनं सह बान्धवैः ॥ ३७ ॥

पुत्रैस्तु भार्यया युक्तस्ततः सिद्धिमवाप्नुयात्
पुराणसंहितापूर्णा श्रोतव्या धर्मतत्परैः ॥ ३८ ॥

चतुर्वर्गस्य वै सिद्धिर्जायते तस्य नान्यथा
सपादं लक्षमेकं तु ब्रह्माख्यं पुष्करं शृणु ॥ ३९ ॥

कृते युगे तु निष्पापाः शृण्वन्ति मनुजा द्विज
लक्षस्यार्द्धं ततः कृत्स्नं पुराणं पद्मसञ्ज्ञकम् ॥ ४० ॥

श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाधिकम्
त्रेतायुगे तथा प्राप्ते यदा श्रोष्यन्ति मानवाः ॥ ४१ ॥

चतुर्वर्गफलं भुक्त्वा ते यास्यन्ति हरिं पुनः
द्वाविंशतिसहस्राणि संहितापद्मसञ्ज्ञिता ॥ ४२ ॥

द्वापरे कथिता विप्र ब्रह्मणा परमात्मना
द्वादशैव सहस्राणां पद्माख्या सा तु संहिता ॥ ४३ ॥

कलौ युगे पठिष्यन्ति मानवा विष्णुतत्पराः
एकोर्थश्चैकभावश्च चतुर्ष्वपि प्रवर्तितः ॥ ४४ ॥

संहितास्वेव विप्रेन्द्र शेषाख्यानप्रविस्तरः
द्वादशैव सहस्राणि नाशं यास्यन्ति सत्तम ॥ ४५ ॥

कलौ युगे तु सम्प्राप्ते प्रथमं हि भविष्यति
भूमिखण्डं नरः श्रुत्वासर्वपापैः प्रमुच्यते ॥ ४६ ॥

मुच्यते सर्वदुःखेभ्यः सर्वरोगैः प्रमुच्यते
अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम् ॥ ४७ ॥

श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम्
प्रथमं सृष्टिखण्डं तु द्वितीयं भूमिखण्डकम् ॥ ४८ ॥

तृतीयं स्वर्गखण्डं च पातालं तु चतुर्थकम्
पञ्चमं चोत्तरं खण्डं सर्वपापप्रणाशनम् ॥ ४९ ॥

यः शृणोति नरो भक्त्या पञ्चखण्डान्यनुक्रमात्
गोप्रदानसहस्रस्य मानवो लभते फलम् ॥ ५० ॥

महाभाग्येन लभ्यन्ते पञ्चखण्डानि भूसुराः
श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः ॥ ५१ ॥

इति श्रीपद्मपुराणे भूमिखण्डे पञ्चपञ्चाशत्सहस्रसंहितायां वेनोपाख्याने पञ्चविंशत्यधिकशततमोऽध्यायः १२५